________________
शतशो भगवतः खण्डपरशोर्मज्जनोन्मज्जनक्षोभचलितचूडामणिचन्द्रखण्डच्युतेनामृतरसेन जलक्षालितवामार्धकपोलगलितलावण्यप्रवाहानुकारिणा मिश्रितजलम्, उपकूलतमालवनप्रतिबिम्बान्धकारिताभ्यन्तरैदृश्यमानरसातलद्वारैरिव सलिलप्रदेशैर्गभीरतरम्, दिवाप्युपजातनिशाशकैश्चक्रवाकमिथुनैः परिहियमाणनीलोत्पलवनगहनम्, असकृत्पितामहपरिपूरितकमण्डलुपरिपूतजलम्, अनेकशो वालखिल्यकदम्बककृतसंध्योपासनम्, बहुशः सलिलावतीर्णसावित्रीभग्नदेवार्चनकमलसहसम्, सहसशः सप्तर्षिमण्डलस्नानपवित्रीकृतम्, सर्वदा सिद्धवधूधौतकल्पलतावल्कलपुण्योदकम्, उदकक्रीडादोहदागतानां च गृह्यकेश्वरान्तःपुरकामिनीनां मकरकेतुचापचक्राकृतिभिरतिविकटैरावर्तिभिर्नाभिमण्डलैरापीतसलिलम्, -
***********
स्तस्माच्युतेन सस्तेनामृतरसेन पीयूषद्रवेण मिश्रितमेकीभूतं जले पानीयं यस्य तत्तथा । अथ पीयूषरसं विशेषयन्नाह - जलेति । जलेन क्षालितौ धौतौ यौ वामार्धकपोलौ पार्वतीगल्लात्परप्रदेशौ ताभ्यां गलितं च्युतं यल्लावण्यं सौन्दर्यं तस्य यः प्रवाहो रयस्तस्यानुकारिणा । तत्सदृशेनेत्यर्थः । उपेति । उपकूल उपकण्ठे यत्तमालवनं तापिच्छवनं तस्य प्रतिबिम्बः प्रतिच्छाया तेनान्धकारवदाचरितान्यभ्यन्तराणि मध्यप्रदेशा येषां तैः । अत्रान्धकारिताभ्यन्तरत्वसाम्येनोप्रेक्षते - दृश्यमानेति । दृश्यमानरसातलद्वारैरिव वीक्ष्यमाणवडवामुखप्रतीहारैरिव । एवंभूतैः सलिलप्रदेशैः पानीयस्थलैर्गभीरतरं गम्भीरतरम् । अत एव पूर्वोक्तसाम्यादेवाह - दिवापीति । दिवापि दिवसेऽप्युपजाता समुत्पन्ना निशायास्त्रियामायाः शङ्कारेका येषां तैश्चक्रवाकमिथुनैः कौकद्वन्द्वैः परि सामस्त्येन ह्रियमाणं त्यज्यमानं यन्नीलोत्पलवनमिन्दीवरखण्ड तेन गहनं निबिडम् । असकृदिति । असकृनिरन्तरं पितामहेन ब्रह्मणा परिपूरितो भृतो यः कमण्डलुः कुण्डिका तेन परि सामस्त्येन पूतं पावनं जले जीवनं यस्य तत्तथा । अनेकश इति । अनेकशी वारंवारं वालखिल्याः सूर्यपुरःसरा मुनयस्तेषां कदम्बक समूहस्तेन कृतं विहितं संध्योपासनं संध्यावन्दनं यस्मिंस्तत्तथा । बहुश इति । अनेकशः सलिले जलेऽवतीर्णोत्तीर्णा या सावित्री हुताशनपत्नी तया भग्नमुन्मूलितं देवार्चनार्थं कमलानां नलिनानां सहसं यस्मिंस्तत् । सहस्रश इति । सहसवारं सप्तर्षीणां मरीचिप्रभृतिनां मण्डलं समूहस्तस्य स्नानमाप्लवस्तेन पवित्रीकृतं पावनीकृतम् । सर्वदेति । सर्वदा सर्वकालं सिद्धवधूभिः सिद्धाङ्गनाभि/तानि क्षालितानि यानि कल्पलताया मन्दारातत्या वल्कलानि चोचानि तैः पुण्यानि पवित्राण्युदकानि जलानि यस्मिंस्तत्तथा । उदकेति । उदकस्य जलस्य या क्रीडा केलिस्तस्या दोहदोऽभिलाषस्तेनागतानां प्राप्तानां गृह्यकेश्वरस्य कुबेरस्यान्तःपुरकामिनीनामवरोधस्त्रीणां मकरकेतुः कंदर्पस्तस्यचापचक्रमारोपितं धनुस्तद्वदाकृतिराकारो येषां तैरतिविकटैरतिविपुलैरावर्ता विद्यन्ते येषु तैरावर्तिभिः । एवंभूतैर्नाभिमण्डलैस्तुन्दकूपिकासमूहैरापीतं ग्रस्तं सलिलं जलं यस्य तत्तथा । इदं च नाभिपर्यन्त - -- - - - -- - - - - - -
- - - - - - - - - - - - - टिप्प० -1 दृश्यमानं रसातलस्य द्वारं येषु तैरिव स्थितैः । अन्धकारमाहत्म्यादस्य सलिलप्रदेशा अतीव निम्नतरा अत एव रसातलस्य द्वारमपि (यद्धि अतीव निम्नम्) दृश्यत इत्याशयः ।
पाठा० - १ लावण्यानुकारिणा. २ समिश्रित. ३ गम्भीरतरम्. ४ परिपूरित. ५ देवतार्चन. ६ कमलम्. ७ पुण्यीकृतोदकम्.
IIIIIIIIIII
264
कादम्बरी।
कथायाम्-)