________________
क्वचिद्वरुणहंसोपात्तकमलवनमकरन्दम्, क्वचिदिग्गजमज्जनजरितजरन्मृणालदण्डम्, क्वचित्त्र्यम्बकवृषभविषाणकोटिखण्डिततटशिलाखण्डम्, क्वचिद्यममहिषश्रृङ्गशिखरविक्षिप्तफेनपिण्डम्, क्वचिदैरावतदशनमुसलखण्डितकुमुदखण्डम्, यौवनमिवोत्कलिकाबहुलम्, उत्कण्ठितमिव मृणालवलयालंकृतम्, महापुरुषमिव मीनमकरकूर्मचक्रप्रकटलक्षणम्, षण्मुखचरितमिव श्रूयमाणक्रौञ्चवनिताप्रलापम्, भारतमिव पाण्डुधार्तराष्ट्रकुलपक्षकृतक्षोभम्, अमृतम -
***********
जलक्रीडावर्णनम् । क्वचिदिति । कस्मिंश्चित्प्रदेशे वरुणस्य प्रचेतसो हंसेन मरालेनोपात्तो गृहीतः कमलवनस्य नलिनखण्डस्य मकरन्दो मरन्दो यस्मिंस्तत्तथा । क्वचिदिति । दिग्गजानां दिग्दन्तिनां मज्जनेनान्तर्विगाहनेन जर्जरिताः शिथिलीभूता जरन्मृणालदण्डा बहुकालीनबिसदण्डा यस्मिंस्तत्तथा । क्वचिदिति । त्र्यम्बकस्येश्वरस्य यो वृषभो बलीवर्दस्तस्य विषाणकोटिः श्रृङ्गाग्रभागस्तया खण्डिता भेदितास्तटस्य तीरस्य शिलाखण्डा यस्य तत् । क्वचिदिति । यमस्य कृतान्तस्य यो महिषः कासरस्तस्य श्रृङ्गं विषाणं तस्य शिखरमग्रभागस्तेन विक्षिप्त इतस्ततः पर्यस्तः फेनपिण्डो डिण्डीरपुञ्जो यस्मिन् । क्वचिदिति । ऐरावतो हस्तिमल्लस्तस्य दशना दन्तास्त एव स्थूलत्वदृढत्वसाम्यान्मुसलान्ययोग्राणि तैः खण्डितं पाटितं कुमुदखण्डं कैरववनं यस्मिन् । अथ प्रकारान्तरेण तदेव विशेषयन्नाह - यौवेति । यौवनं तारुण्यं तद्वदिव । उभयसाम्यं प्रदर्शयन्नाह - उदिति । उत्कलिका तरङ्गसंततिस्तया बहुलं दृढम् । 'तरङ्गभङ्गवीच्यूर्युत्कलिका' इति कोशः । पक्ष उत्कलिका हल्लेखा । 'हल्लेखोत्कलिका च' इति कोशः । विविधकामाभिलाषस्तया बहुलम् । व्याप्तमित्यर्थः । उदिति । उत्कण्ठितमुन्म॑नसम् । अर्थाद्विरहिजनम् । तदिव । तत्सदृशमित्यर्थः । उभयोः साम्यमाह - मृणालेति । मृणालानां तन्तुलानां वलयैः समूहैरलंकृतम् । उन्मना अपि दाहचरोपशमनार्थं मृणालवलयालंकृतः स्यादित्यभङ्गश्लेषः । महेति । महांश्चासौ पुरुषश्चेति कर्मधारयः । तद्वदिव । उभयोर्विशेषणामाह - मीनेति । मीना मत्स्याः, मकरा जलचरविशेषाः, कूर्माः कच्छपाः, चक्रा जलचारिविशेषाः, प्रकटा बहिर्दश्यमाना लक्षणाः सारसाः सारस्यश्च यस्मिन् । पक्षे मकरादीनि चक्रान्तानि प्रकटानि स्पष्टानि लक्षणानि चिह्नानि यस्मिन् । महापुरुषस्य हस्तपादाद्यवयवेषु मकरादीनि चिह्नानि भवन्तीति सर्वप्रसिद्धम् । ननु 'सारसी लक्ष्मणा सानुसौमित्रौ श्रीमति त्रिषु इति रुद्रकोषादिदर्शनात्कथमत्र लक्षणाशब्दप्रयोग इति चेन्न । 'लक्षणश्चैव सारसः' इत्यमरमालायां निर्मकारस्यापि दर्शनात् । षण्मुखेति । षण्मुखः कार्तिकेयस्तस्य चरितमाचरणं तद्वदिव । श्रूयेति । श्रूयमाण आकर्ण्यमानः क्रौञ्चः पक्षिविशेषस्तस्य या वनिता स्त्री तस्याः प्रलापः प्रकर्षेण शब्दो यस्मिन् । पक्षे कार्तिकेयेन क्रौञ्चदैत्यो हतः । अत एव तस्य वनितायाः प्रलापो रुदैनं यस्मिन् । तथा भारत व्यासप्रणीतं शास्त्रं तद्वदिव । पाण्ड्विति । पाण्डवः श्वेतवर्णा ये धार्तराष्ट्रा हंसविशेषास्तेषां कुलं समूहस्तस्य पक्षा वाजास्तैः कृतो विहितः क्षोभो विग्रहो यस्मिन् । पक्षे पाण्डुरम्बात्मजः, धार्तराष्ट्रो दुर्योधनः तयोः कुले अन्वयौ तयोः पक्षौ स्वजनौ ताभ्यां कृतः क्षोभश्चित्तवैक्लव्यं यस्मिन् । अमृतेति । अमृतार्थं पीयूषार्थं यन्मथनम् । समुद्रस्येति -
- - - - - - - - - टिप्प० - 1 विरहेण उन्मनस्कमित्यर्थः । 2 चक्रवाका इति प्रसिद्धोऽर्थः । 3 रोदनमित्याशयः । 4 कृष्णवर्णा इत्युचितम् । 'राजहंसास्तु ते चञ्चुचरणोहितैः सिताः । मलिनैमल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः' इत्यमरः ।
पाठा०-१ हंसाक्रान्तविकचकमलवनखण्डम् हसाक्रान्तकमलमकरन्दम्, हंसाघ्रातकमलबनमकरन्दमू. २ मृणालजालदण्डम्. ३ धवलवृषभ, ४ कोदण्ड. ५ प्रकटमीनमकरकूर्मचक्रलक्षणम्.
अच्छोदसरः
पूर्वभागः ।
265