________________
थनसमयमिव तीरंकासारावस्थितशितिकण्ठपीयमानविषम्, कृष्णबालचरितमिव तटकदम्बशाखाधिरूढहरिकृतजलप्रपातक्रीडम्, मदनध्वजमिव मकराधिष्ठितम्, दिव्यमिवानिमिषलोचनरमणीयम्, अरण्यमिव विजृम्भमाणपुण्डरीकम्, उरगकुलमिवानन्तशतपत्रपद्मोद्भासितम्, सबलमिव मधुकरकुलोपगीयमानकुवलयापीडम्, केंद्र्स्तनयुगलमिव नागसहस्र-पीतपयोगण्डूषम्, मलयमिव चन्दनशिशिरवनम् असत्साधनमिवादृष्टान्तम्, अतिमनोहरमाह्लादनं दृष्टेरच्छोदं नाम सरो दृष्टवान् ।
******
1
शेषः । तस्य यः समयः कालस्तमिव । तीरेति । तीरं तटम्, कासारं प्रान्तदेशं तत्रावस्थिता ये शितिकण्ठा बर्हिणस्तैः पीयमानमास्वाद्यमानं विषं जलं यस्मिन् । पक्षे तीरे क्षीरोदस्येति शेषः । तस्मिन्नवस्थितो यः शितिकण्टो महेश्वरस्तेन पीयमानं भक्ष्यमाणं विषं कालकूट यस्मिन् । ‘कालकूटाम्भसोर्विषम्' इत्यनेकार्थः । तथा कृष्णेति । कृष्णस्य जनार्दनस्य यद्बालचरितं बाल्यावस्थायां क्रीडितं तद्वदिव । उभयोः साम्यमाविष्कुर्वन्नाह - तटेति । ' तटे तस्यैव सरसः' इति कोशः । तस्मिन्ये कदम्बा नीपास्तेषां शाखास्तस्यामधिरूढो यो हरिर्गोलाङ्गूलस्तेन कृता विहिता जलप्रपातलक्षणा क्रीडा यस्मिन् । पक्षे तटं यमुनायाः । हरिः कृष्णः । शेषं पूर्ववत् । मदेति । मदनस्य कन्दर्पस्य यो ध्वजः केतुस्तद्वदिव । उभयोः सादृश्यमाह - मकर इति । मकरो जलजन्तुस्तेनाधिष्ठितमाश्रितम् । पक्षे मकराकृतिरूपं चिह्नम् । दिव्येति । दिवि भवं दिव्यं तद्वदिव । उभयोः साम्यार्थमाह - अनिमिषेति । अनिमिषास्तिमयस्तेषां लोचनानि नेत्राणि तै रमणीयं मनोहरम् । पक्षेऽनिमिषलोचना देवाः । शेषं पूर्ववत् । अरण्येति । अरण्यं काननं तद्वदिव । उभयोः साधर्म्यमाह - विजृम्भेति । विजृम्भमाणि विनिद्राणि पुण्डरीकाणि सिताम्भोजानि यस्मिंस्तत्तथा । पक्षे विजृम्भमाणाः सन्त उज्झितनिद्राः पुण्डरीकश्चित्रकायाः । ‘चित्रकायः पुण्डरीकः' इति कोशः । शेषं पूर्ववत् । उरगेति । उरगाः सर्पास्तेषां कुलमन्वयस्तद्बदिव । उभयोः सादृश्यमाविः कुर्वन्नाह - अनन्तेति । अनन्तान्यसंख्यानि यानि शतपत्राणि पुष्पविशेषाणि, पद्मानि कमलानि, तैरुद्भासितं शोभितम् । पक्षेऽनन्तो नागाधिपः, शतपत्रो नागविशेषः, पद्मश्च । शेषं पूर्ववत् । कंस इति । कंसो दैत्यस्तस्य बलं सैन्यं तद्वदिव । उभयसाम्यार्थमाह - मध्विति । मधुकराणां भ्रमराणां कुलानि समूहाः तैरुपगीयमानानि गानविषयीक्रियमाणानि कुवलयान्युत्पलानि तान्येवापीडः शेखरो यस्मिंस्तत्तथा । पक्षे कुवलयापीडो गजः । शेषं पूर्ववत् । कद्रू इति । कद्रूर्नागमाता तस्याः स्तनयुगलं कुचयुग्मं तद्वदिव । उभयोः साम्यं प्रदर्शयन्नाह नागेति । नागसहसैर्हस्तिसहसैः पीता आस्वादिताः पयसो गण्डूषाश्चुलुका यस्मिंस्तत् । पक्षे नागाः सर्पाः । पयो दुग्धम् । शेषं पूर्ववत् । ` मलयेति । मलयो मलयाचलस्तद्वदिव । उभयोस्तुल्यतामाह - चन्दनेति । चन्दनं मलयजं तद्वच्छिशिरं शीतलं वनं जलं यस्मिन् । 'कीलालं भुवनं वनं घनरसः' इत्यभिधानचिन्तामणिः । पक्षे चन्दनानां शिशिराणि वनानि काननानि यस्मिन् । असदिति । असत्साधनमसद्धेतुस्तद्बदिव । शब्दापेक्षया तयोः साधर्म्यमाह - नेति । नदृष्टो न वीक्षितोऽन्तोऽवसानं यस्य तत् । पक्षे न विद्यते दृष्टान्तो निश्चितसाध्यवान्यस्मिन् । तदभावादसद्धेतुत्वमिति भावः । अतिमनोहरम् । अतिसुन्दरमित्यर्थः । दृष्टेर्नेत्रस्याह्लादनम् । प्रमोदजनकमित्यर्थः ।
टिप्पo - 1 अनिमिषे (निमेषरहिते) लोचने येषामित्यर्थ उचितः, मत्स्यानां नयनयोर्निमेषाभावात् । 2 व्याघ्रा इति स्पष्टोऽर्थो वक्तव्यः । 3 शतपत्रपद्मयोरापाततः पौनरुक्त्यभासनं पर्यन्ते च शतसंख्याकपत्रविशिष्टकमले पर्यवसानात्पुनरुक्तवदाभासोऽलंकारः । तथा च अनन्तानि यानि शतपत्रविशिष्टानि पद्मानि तैरुद्भासितमित्यर्थोऽत्र बोध्यः । 4 मदजलसौरभलोभाद् मधुकरैरुपगीयमानस्तदाख्यो हस्ती यत्रेत्यर्थः । 5 गोत्ववान् मनुष्यत्वादित्यादौ असद्धेतौ निश्चितसाध्य ( गोत्व ) वत्स्थलं ( दृष्टान्तः) नास्तीत्यर्थः ।
पाठा० - १ तीरावस्थित. २ बालकृष्ण ३ शाखारूढ ४ उपनीयमान ५ कद्रू.
266
कादम्बरी )
कथायाम्