________________
आलोकमात्रेणैवापगतश्रमो दृष्ट्वा मैनस्येवमकरोत् - 'अहो निष्फलमपि मे तुरङ्गमुखमिथुनानुसरणमेतदालोकयतः सरः सफलतामुपगतम् । अद्य परिसमाप्तमीक्षणयुगलस्य द्रष्टव्यदर्शनफलम्, आलोकितः खलु रमणीयानामन्तः, दृष्ट आह्लादनीयानामवधिः, वीक्षिता मनोहराणां सीमान्तलेखा, प्रत्यक्षीकृता प्रीतिजननानां परिसमाप्तिः, विलोकिता दर्शनीयानामवसानभूमिः । इदमुत्पाद्य सरःसलिलममृतरसमुत्पादयता वेधसा पुनरुक्ततामिव नीता स्वसृष्टिः । इदमपि खल्वमृतमिव सर्वेन्द्रियाह्लादनसमर्थमतिविमलतया चक्षुषः प्रीतिमुपजनयति, शिशिरतया स्पर्शसुखमुपैहरति, कमलसुगन्धितया घ्राणमाप्याययति, हंसमुखरतया श्रुतिमानन्दयति, स्वादुतया रसनामाह्लादयति । नियतं चास्यैव दर्शनतृष्णया न परित्यजति भगवान्कैलासनिवासव्यसनमुमापतिः । न खलु सांप्रतमाचरति जलशयनदोर्हद देवो रथा -
***********
आलोकेति । आलोकमात्रेणैव निरीक्षणमात्रेणैवापगतो दूरीभूतः श्रमः क्लान्तिर्यस्यैवंविधश्चन्द्रापीडस्तदृष्ट्वा विलोक्य मनसि एवमकरोदेवमघटयत् । अहो इति । अहो इत्याश्चर्ये । निष्फलमपि निरर्थकमपि मे मम तुरङ्गमुखमिथुनस्य किंनरमिथुनस्यानुसरणमनुगमनं सफलतां कृतार्थतामुपगतम् । प्राप्तमित्यर्थः । किं कुर्वतो मम । एतत्सरः कासारमालोकयतो दृग्विषयीकुर्वतः । अद्येति । अद्यास्मिन्दिने परिसमाप्तं परिपूर्णम् । संपूर्ण जातमित्यर्थः । किं तदित्याकाङ्क्षायामाह - ईक्षणेति । ईक्षणयुगलस्य द्रष्टव्यं दर्शनीयं यद्वस्तु तस्य दर्शनमवलोकनं तस्य फलं व्युष्टिः । खल्विति । खलु निश्चितम् । रमणीयानां मनोहराणामन्तः । प्रान्त आलोक वीक्षितः । एतदपरं रमणीयं नास्तीत्यर्थः । दृष्ट इति । आह्लादनीयानां प्रमोदकारिणामवधिर्मर्यादा दृष्टोऽवलोकितः । प्रमोदजनकमेतदन्यत्किमपि नास्तीति भावः । वीक्षितेति । मनोहराणां चित्तहारिणां सीमाया अन्तलेखा प्रान्तलेखा वीक्षिता नयनविषयीकृता । अतः परं चित्तहृत्किमपि नास्तीति भावः । प्रत्यक्षेति । प्रीतिजननानां प्रीत्युत्पादकानां परि सामस्त्येनाप्तिः परिसमाप्तिः प्रत्यक्षीकृतेन्द्रियगोचरीकृता । विलोकितेति । दर्शनीयानां द्रष्टुं योग्यानामवसानभूमिः प्रान्तभूमिश्चरमकथा वा विलोकिता वीक्षिता । इतः परं दर्शनीयं नास्तीति भावः । इदमिति । इदममृतं पीयूषं तद्वद्वसो यस्यैवंविधं सरसस्तटाकस्य सलिलं पानीयमुत्पाद्य निर्माय वेधसा ब्रह्मणोत्पादया जगत्सृजता स्वसृष्टिः स्वकीयनिर्मितिः पुनरुक्ततामिव नीता प्रापिता । एकमेव वस्तु नामान्तरेण विहितमिति भावः । अमृतगुणोपपादनेन पुनरुक्ततां स्पष्टयन्नाह - इदमिति । इदमपि । खलु निश्चितम् । इदं प्रत्यक्षोपलभ्यमानमप्यमृतमिव पीयूषमिव सर्वेषामिन्द्रियाणामाह्ला प्रीणनं तत्र समर्थं बलिष्ठमतिविमलतयातिस्वच्छतया चक्षुषो नेत्रस्य प्रीतिं स्नेहमुपजनयत्युत्पादयति । तथा शिशिरः शीतलस्तस्य भावस्तत्ता तया करणभूतया स्पर्शसुखमुपहरति करोति । तथा कमलस्य नलिनस्य सुगन्धो यस्मिंस्तस्य भावस्तत्ता तया घ्राणं नासिकामाप्याययति प्रीणयति । तथा हंसैर्मरालैर्मुखरो वाचालस्तस्य भावस्तत्ता तया श्रुतिं श्रोत्रमानन्दयति प्रीणयति । तथा स्वादुतया मिष्टतया रसना रसज्ञामाह्लादयति प्रीणयति । नियतमिति । नियतं निश्चितम् । अस्यैव सरस एव दर्शनतृष्णयावलोकनलोभेनोमापतिर्भगवानीश्वरः । कैलासेति । कैलासो रजताद्रिस्तत्र । यो निवासोऽवस्थानं स एव व्यसनमासक्तिस्तन्न परित्यजति न जहाति । न खल्वति । खलु निश्चितम् । रथाङ्गपाणिश्चक्रपाणिर्देवः कृष्णः सांप्रतमिदानीं जले पानीये शयनं स्वापस्तस्य दोहदमभिलाषं नाचरति न करोति । पूर्वं जल
टिप्प० - 1 इदानीमपि समुद्रे शेत एव नारायणः, ततश्च जलशयनदोहदं नाचरतीति कथं संगच्छते । तस्मात् ' रथाङ्गपाणिर्जलशयनदोहदं सांप्रतं युक्त नाचरति, यदिदं सरो विहाय लवणपयस्युदन्वति स्वपिति' इत्यर्थ उचितः । 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः ।
पाठा० - १ आलोकन. २ मनस्यकरोत्. ३ तुरग ४ अवलोकिता. ५ उपाहरति ६ दोहदयितः.
अच्छोदसरः
पूर्वभागः ।
267