________________
गपाणिर्यदिदममृतरससुरभिसलिलमपहाय लवणरसपरुषपयस्युदन्वति स्वपिति । नूनं चेदं न प्रथममासीत्सरो येन प्रलयवराहघोणाभिघातभीता भूतधात्री कलशयोनिपानपरिकलितसकलसलिलं सागरमवतीर्णा, अन्यथा यद्यत्रागाधानेकपातालगम्भीराम्भसि निमग्ना भवेन्महासरसि किमेकेन महावराहसहसैरपि नासादिता भवेत् । नूनं चास्मादेव सलिललेशमादायादाय महाप्रलयेषु प्रलयपयोदाः प्रलयदुर्दिनान्धकारितदशदिशः प्लावयन्ति भुवनान्तराणि । मन्ये च यत्सृष्टेरक्सिलिलमयं ब्रह्माण्डरूपमादौ भूवनमभूत्तदिदं पिण्डीभूय सरोव्यपदेशेनावस्थितम्' इति विचारयन्नेव तस्य शिलाशकलकर्कशवालुकाप्रायम्, विद्याधरोद्धृतसनालकुमुदकलापार्चितानेकचारुसैकतलिङ्गम्, अरुन्धतीदत्तार्घपयःपर्यस्तरक्तकमलशो -
***********
शयनापेक्षाकारणमाह - यदिति । यदिति हेत्वर्थे । इदममृतवत्पीयूषवद्रसो यस्मिन्नेवंविधं यत्सुरभिसलिलं सुगन्धिपानीयं तदपहाय त्यक्त्वा लवणो यो रसस्तेन परुषं रूक्षं पयो यस्मिन्नेवंभूत उदन्वति समुद्रे स्वपिति शयनं करोति । अतो नूनं निश्चितम् । इदं प्रथममादौ नासीनाभूत । एतदभावादेव कृष्णः समुद्रे शयनं करोतीति भावः । कारणान्तरमाह - येनेति । येन कारणेनेदं प्रथमतो नासीदत एव भूतधात्री भूतानां प्राणीनां धात्री धारणक्षमा । एतदपेक्षया । नूनं सागरं समुद्रमवतीर्णा मध्यप्रविष्टा । अथ तां विशेषयन्नाह - प्रलयेति । प्रलये कल्पान्ते योऽवताररूपो वराहस्तस्य यो घोणा नासा । उपलक्षणं चैतत् । तेन दंष्ट्राया ग्रहणम् । तयाभिघातः प्रहारेस्तस्माद्रीता जस्ता सती । उपर्यागतेति शेषः । सागरं विशेषयन्नाह - कलश इति । कलशयोनिरगस्तिस्तेन पानार्थं परिकलितं चिन्ताविषयीकृत सकलं समग्रं सलिलं यस्य स तम् । अनेनातिन्यूनत्वमेतस्य ध्वनितम् । यदि सरसः समुद्रो महत्तरः स्यात्तदैकवराहघोणाभिघातमात्रेण भीत उपर्यागतो न भवेदेव । अत एवाग्रे व्यतिरेकमुखेन समर्थयन्नाह - अन्यथेति । पूर्वोक्तविपर्यये । यद्यत्र महासरसि निमग्ना बुडिता भवेत्स्यात् । अगाध इति । अगाधमतलस्पृक् एवंविधानि यान्यनेकानि पातालानि । वडवामुखानीति यावत् । गभीरं गम्भीरमम्भो यस्मिन् । किमिति । एकेन वराहेण किम् । न किमपीत्यर्थः । महेति । महावराहसहसैरपि नासादिता न प्राप्ता भवेत् । एतेन कल्पान्तेऽप्येतस्यावस्थानं सूचितमिति भावः । नूनमिति । नूनं निश्चितम् । महाप्रलयेषु कल्पान्तेषु प्रलयपयोदाः कल्पान्तमेघा अस्मादेव सरसः सलिललेशं जललेशमादायादाय गृहीत्वा गृहीत्वा भुवनान्तराणि त्रिभुवनविवराणि प्लावयन्ति जलमयीकुर्वन्ति । अथ प्रलयमेघाविशेषयन्नाह - प्रलयेति । प्रलयकालीनं यहुर्दिनंमेघजं तमस्तेनान्धकारिता अन्धकारवदाचरिता दश दिशो यैस्ते तथा । मन्ये चेति । अहमिति मन्ये जानामि यच्चादौ सृष्टेविश्वनिर्मितेरक्सिलिलमयं जलमयं ब्रह्माण्डरूपं भुवनं त्रिविष्टपमभूत्तदिदं पिण्डीभूयैकीभूय सरोव्यपदेशेन तटाकमिषेणावस्थितमिति विचारयन्नेव चिन्तयन्नेव चन्द्रापीडः सरसो दक्षिणतीरं दक्षिणदिग्वर्ति प्रतीरमासाद्य प्राप्य तुरगादश्वादवततारावतीर्णवान् । अथ दक्षिणतीरं विशेषयन्नाह - शिलेति । शिलाशकलवच्छिलाखण्डवत्कर्कशाः कठिना या वालुकाः सिकतास्ताः प्रायो बाहुल्येन यस्मिंस्तत् । विद्येति । विद्याधरैयॊमचारिभिरुद्धृतानि गृहितानि यानि सनालानि कुमुदानि कैरवाणि तेषां कलापः समूहस्तेनार्चितानि पूजितान्यनेकान्यसंख्यानि चारुणि मनोहराणि जलोज्झितं पुलिनं सैकतं तत्र स्थितानि लिङ्गानीश्वरसंबन्धीनि यस्मिस्तत् । अरुन्धतीति । अरुन्धत्या वसिष्ठपत्न्या दत्तं यदर्घपयः पूजार्थं जलं तस्मात्पर्यस्तानि पतितानि -
- - - - - - - - - - - - टिप्प०-1 पृथिवीकथायां विवक्षितायां स्त्रीत्वं संबध्यम् । 2 अगाधपातालवत् गंभीरम् (अतलस्पर्शि) अम्भः यत्र तस्मिन् । 3 कुमुदकलापेन अर्चितानि अनेकानि चारूणि सैकतलिङ्गानि (वालुकानिर्मितशिवलिङ्गानि) यस्मिन् तत् । इत्यर्थः ।
-
-
-
-
-
-
--
-
-
-
-
-
-
-
-
-
--
पाठा० - १ अभिभूता. २ अगाध; अनेक. ३ आदाय महा. ४ दिशः. ५ यत्तत्सलिलमयम्. ६ पिण्डीभूतम्. ७ अर्चितम्. ८ दत्तदिनकरार्ष; दत्तदिनकराय॑; हस्तदत्तदिनकरार्ध. ९ पर्यस्तारक्त.
268
कादम्बरी।
कथायाम