SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ भितम्, उपकूलशिलातलोपविष्टजलमानुषनिषेव्यमाणातपम्, अभ्यर्णतया च कैलासस्य स्नानागतमातृमण्डलपदपङ्क्तिमुद्राङ्कितम्, अवकीर्णभस्मसूचितमग्नोत्थितगणकदम्बकोद्भूलनम्, अवगाहावतीर्णगणपतिगण्डस्थलगलितमदप्रसवणसिक्तम्, अतिप्रमाणपादानुमीयमानतृषितकात्यायनीसिंहावतरणमार्ग दक्षिणेतीरमासाद्य तुरगादवततार । अवतीर्य च व्यपनीतपर्याणमिन्द्रायुधमकरोत् । क्षितितललुठितोत्थितं च गृहीतकतिपययवसग्रास सरोऽवतार्य पीतसलिलमिच्छया स्नातं चोत्थाप्यान्यतमस्य समीपवर्तिनस्तरोर्मूलशाखायामपगतखलीनं हस्तपाशश्रृङ्खलया कनकमय्या चरणौ बद्ध्वा कृपाणिकावलूनान्क्षिप्त्वा चाग्रतः कतिचित्सरस्तीरदूर्वाप्रवालकवलान्पुनरपि सलिलमवततार । ततश्च प्रक्षालितकरयुगलश्चातक इव कृत्वा जलमयमाहारम्, चक्राह्व इवास्वाद्य मृणालशक - *********** यानि रक्तकमलानि तैः शोभितं विराजितम् । उपेति । उपकूले तटसमीपे यानि शिलातलानि तत्रोपविष्टानि स्थितानि जलमानुपाणि प्रसिद्धानि तैर्निषेव्यमाणः सेव्यमान आतपः सूर्यालोको यस्मिन् । कैलासस्य रजतादेरभ्यर्णतया समीपवर्तितया स्नानार्थमागतं यन्मातृमण्डल ब्राहीप्रभृतीनां सप्तदेवीनां समुदायस्तस्य पदपङ्क्तिश्चरणवीथी तस्य मुद्रा भूमौ तत्प्रतिकृतिरूपा तयाङ्कितं चिह्नितम् । अवकीर्णेति । अवकीर्णमितस्ततः पर्यस्तं यद्भस्म भूतिस्तेन सूचितं प्रकाशितं स्नातुं मग्नं पश्चादुत्थितं यद्गणानां प्रमथानां कदम्बक समुदायस्तस्य त्रिपुण्ड्रसमय उद्भूलनं भस्मोद्भूलनं यस्मिंस्तथा । अवगाहेति । अवगाहार्थं जलक्रीडार्थमवतीर्ण उत्तरितो यो गणपतिर्गणेशस्तस्य गण्डस्थलाकरटप्रदेशाद्गलितं च्युतं यन्मदप्रसवणं दानक्षरणं तेन सिक्तं सिञ्चितम् । अतीति । अतिप्रमाणमतिदीर्घम् । पादेति । पादैश्चरणन्यासैरनुमीयमानोऽनुमानविषयीक्रियमाणस्तृषितः पिपासितो यः कात्यायनीसिंहो मनस्तालाभिधस्तस्यावतरणमार्गः सरसि समागमनपन्था यस्मिंस्तत्तथा । अवतीर्येति । अचादवतरणं कृत्वेन्द्रायुधनामानमश्चरत्नं व्यपनीतं दूरीकृतं पर्याणं पल्ययनं यस्मादेवंभूतमकरोदसृजत् । अथाचं विशेषयन्नाह - क्षितीति । पूर्व क्षितितले पृथ्वीतले लुठितमपावृत्तं पश्चादुत्थितं कृतोत्थानम् । गृहीतेति । गृहीता आत्ताः कतिपये कियन्तो यवसं तृणं तस्य ग्रासा गुडेरका येन स तं ततः पश्चात्तमश्वं सरोऽवतार्य सरोमध्ये नीत्वा पीतं सलिलमिच्छया येन न तु बलात्कारेण स्नातं कृताप्लवं चोत्थाप्योत्थानं कारयित्वा पश्चात्तटमानीयान्यतमस्य कस्यचित्समीपवर्तिनस्तरोवृक्षस्य मूलशाखायां च स्कन्धशाखाया गले निगरणे बद्ध्वा । कीदृशम् । अपगतं दूरीभूतं खलीनं मुखयन्त्रणं यस्यैवंभूतम् । कनकमय्या सुवर्णनिर्मितया हस्तपाशश्रृङ्खलया हस्तबन्धनार्थं यः पाशो ग्रन्थिस्तदर्थं या श्रृङ्खला तया चरणौ पादौ बद्ध्वा नियम्य कृपाणिका क्षुरिका तयावलूनान्कर्तितान्कतिचित्कियतः सरस्तीरस्य तटाकप्रतीरस्य दूर्वायाः शतपर्विकायाः प्रवालकवलान्किसलयगुडेरकानग्रतः क्षिप्त्वा पुरो निधाय । अत्र चकारः क्रियासमुच्चयार्थः । पुनरपि द्वितीयवारमपि सलिलं नीरमवततारोत्तीर्णवान् । स्वयमिति शेषः । ततश्च तदनन्तरं प्रक्षालितं करयुगलं हस्तयुग्म येनैवंभूतः सरःसलिलादुदगादुदतिष्ठदित्यन्वयः । चातक इव तोकक इव जलमयं पानीयमयमाहारं प्रत्यवसानं कृत्वा विधाय । चक्राह्व इव रथाङ्गनामेव मृणालशकलानि बिसखण्डान्यास्वाया - टिप्प० - 1 पुंस्त्वं योग्यम् । 2 इदमपि क्वाचित्कम् । अन्यथा अष्ट मातरः सुप्रसिद्धाः । 3 अतिप्रमाणैः अतिदीर्धेः पादैः पदचिह्नः अनुमीयमान इति योजना योग्या । 4 इदमपि नवीनं श्रूयते । पाठा० . १ उपशोभितम्. २ मण्डलमुद्राङ्कितम्. ३ अवतीर्ण. ४ वृन्द. ५ अवगाहन. ६ गण्डस्थलमद. ७ पद. ८ अवतार. ९ दक्षिणम्. १० अवतीर्य. ११ अखलीनम्. १२ चरेण. १३ तीरप्ररूढदूर्वा. १४ स्वयमपि. १५ करचरण. १६ जलमाहारम्. १७ चक्रायः. जलपान-विश्रामौ । पूर्वभागः । 269
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy