________________
लानि, शिशिरांशुरिव कराग्रैः स्पृष्ट्वा कुमुदानि, फणीवाभिनन्द्य जलतरङ्गवातान्, अनङ्गशरप्रहारातुर इवोरसि निधाय नलिनीदलोत्तरीयम्, अरण्यगज इव शीकरार्द्रपुष्करोपशोभितकरः सैरः सलिलादुदगात् । प्रत्यग्रर्भेग्नशिरैश्च समृणालकैर्जलकणिकाचितैः कमलिनीपलाशैर्लतामण्डपपरिक्षिप्ते शिलातले संस्तरमास्तीर्य निधाय शिरसि पिण्डीकृत - मुत्तरीयं निषसाद । मुहूर्तं विश्रान्तश्च तस्य सरस उत्तरे तीरप्रदेशे समुच्चरन्तमुन्मुक्तकवलेन निश्चलश्रवणपुटेन तन्मुखीभूतेनोद्ग्रीवेणेन्द्रायुधेन प्रथममाकर्णितं श्रुतिसुभगं वीणातन्त्रीझंकारमिश्रममानुषं गीतँशब्दमशृणोत् । श्रुत्वा च कुतोऽत्र विगतमर्त्यसंपाते प्रदेशे गीतध्वनेः संभूतिरिति संमुपजातकौतुकः कमलिनीदलसंस्तरादुत्थाय तामेव गीतसंपातसूचितां दिशं चक्षुः प्राहिणोत् ।
***********
स्वादं कृत्वा । शिशिरांशुरिव हिमांशुरिव कुमुदानि कैरवाणि करोग्रैर्हस्ताग्रैः स्पृष्ट्वा स्पर्शं कृत्वा । फणीव भुजंग इव जलतरङ्गवातानम्भःकल्लोलसमीरानभिनन्द्य संस्तूय । अनङ्गशरप्रहारातुर इव कामबाणानुविद्ध इव नलिनीदलोर्त्तरीयं कमलिनीपत्रवैकक्ष्यमुरसि वक्षसि निधाय संस्थाप्य । अरण्यगज इव वनकरीव शीकरेणार्द्रमुत्रं पुष्करं कमलं शुण्डाँग्रं च तेनोपशोभितः करो हस्तः शुण्डा च यस्यैवंभूतश्चन्द्रापीडः । लतेति । लतालक्षणो यो मण्डपो जनाश्रयस्तेन 'परिक्षिप्ते वलयिते । परिक्षिप्तं वलयितम्' इति कोशः । एवंभूते शिलातले पृथुप्रस्तरोपरि सस्तरमास्तीर्यास्तरणं कृत्वा ततः पिण्डीकृतं पिण्डतां प्रापितं यदुत्तरीयं निवसनं शिरसि मस्तकस्याधोभागे निधाय संस्थाप्य निषसाद शयनं चकारेत्यन्वयः । कैः सस्तरं कृतवानित्याकाङ्क्षायामाह - कमलिनीति । कमलिनी नलिनी तस्याः पलाशैः पत्रैः । कीदृशैः । प्रत्यग्रं तत्कालं भग्नानि खण्डितानि शिरांसि प्रान्तानि येषां तैः समृणालकैः सतन्तुलैः । स्वार्थे कप्रत्ययः । जलस्य पानीस्य याः कणिकाः सूक्ष्मविप्रुषस्ताभिराचितैर्व्याप्तैः । कियन्मात्रं सुप्त इत्याकाङ्क्षायामाह - मुहूर्तेति । मुहूर्तं घटिकाद्वयं विश्रान्तः कृतविश्रामः । चकारः समुच्चयार्थः । अथ य तस्य सरस उत्तर उत्तरदिक्संबन्धिनि तीरप्रदेशे तटप्रदेशे चन्द्रापीडः सम्यक्प्रकारेणोत्प्राबल्येन चरन्तं प्रसरन्तं गीतशब्दं गेयध्वनिमश्रृणोदाकर्णयत् । एतद्विशेषयन्नाह - उन्मुक्तेति । उत्प्राबल्ये मुक्तस्त्यक्तः कवलो ग्रासो येन स तेन निश्चलंस्थिरं श्रवणपुटं कर्णपुटं यस्य स तेन तन्मुखीभूतेन तदभिमुखीभूतेनोद्ग्रीवेणोर्ध्वकन्धरेणैवंविधेनेन्द्रायुधेन प्रथममादावाकर्णितं श्रुतम् । कीदृशम् । श्रुतिसुभगं कर्णमनोहरं वीणा वल्लकी तस्यास्तन्त्र्यः प्रसिद्धास्तासां झंकारोऽव्यक्तशब्दस्तेन मिश्रं संपृक्तम् । अमानुषम् । दिव्यमित्यर्थः । श्रुत्वेति । श्रुत्वाकर्ण्य । चकारः पूर्ववत् । इति समुपजातं समुत्पन्नं कौतुकमाश्चर्यं यस्य स तथा । इतिशब्दद्योत्यमाह - कुत इति । अत्र विगतमर्त्यसंपातेऽमानुषे प्रदेशे गीतध्वने संभूतिः प्रभवः कुतः स्यात् । कमलिनीति । कमलिनी नलिनी तस्या दलैः पत्रैर्यः संस्तरः प्रस्तरस्तस्मादुत्थायोत्थानं कृत्वा गीतसंपातेन गेयोत्पत्त्या सूचितां ज्ञापितां तामेव दिशं
270
टिप्प० - 1 कुमारपक्षे अङ्गुलिभिः, चन्द्रपक्षे किरणाग्रैः, । 2 नलिनीदलरूपमुत्तरीयम् । 3 शीकरार्द्रं यत् पुष्पकरं ( कमलम् ) तेन उपशोभितः करः शुण्डा यस्य सः (करी ) । उपशोभितः करः ( हस्तः ) यस्य सः ( युवराजः ) । 4 मण्डपाकाराभिर्लताभिः परिक्षिप्ते इत्यर्थ उचितः । 5 'शिरैः' इति न रूपं क्वचित्संभवति । 'प्रत्यग्रभग्नशिशिरैः' इत्येव पाठः । प्रत्यग्रं भग्नानि च तानि शिशिराणीति तदर्थः ।
तृतीयायां
पाठा० - १ आनन्या. २ पिधाय ३ सलिलात्. ४ शिशिरैः ५ मण्डलपरिक्षिप्तशिलातले. ६ संस्तरम् ; प्रस्तरम् ७ गीतम् ८ कुतोऽत्र. ९ उपजात. १०. पत्रसस्तरात्.
-
कादम्बरी ।
कथायाम्