________________
अतिदवीयस्तया तु तस्य प्रदेशस्य प्रयत्नव्यापृतलोचनोऽपि विलोकयन्न किंचिद् ददर्श । तमेव केवलमनवरतं शब्द शुश्राव । कुतूहलवंशाच्च गीतध्वनिप्रभवजिज्ञासया कृतगमनबुद्धिर्दत्तपर्याणमिन्द्रायुधमारुह्य प्रियगीतैः प्रथमस्थितैरप्रार्थितैरपि वनहरिणैरुपदिश्यमानवा बकुलैलालवङ्गलवलीलतालोलकुसुमसुरभिपरिमलयालिकुलविरुतिमुखरितया तमालनीलया दिङ्नागमदवीथ्येव पश्चिमया नलेखया निमित्तीकृत्य तं गीतध्वनिमभिप्रतस्थे ।
क्रमेण च संमुखागतैः, अच्छनिर्झरजलकणजालजनितजडिमभिः, जर्जरितभूर्जवल्कलैः, धूर्जटिवृषरोमन्थफेनबिन्दुवाहिभिः, षण्मुखशिखण्डिशिखाचुम्बिभिः, अम्बिकाकर्णपूरपल्लवोल्लासनदुर्ललितैः, उत्तरकुरुकामिनीकर्णोत्पलप्रेखोलनदोहदिभिः, आकम्पितकक्कोलैः, नमे -
***********
ककुभं प्रति चक्षुर्ने प्राहिणोत्प्रेरयामास । तस्येति । पूर्वोक्तप्रदेशस्य गीतस्थलस्यातिदवीयस्तयातिदूरतया प्रयत्नेनात्युद्यमेन व्यापृते व्यापारिते लोचने नेत्रे येनैवंभूतोऽपि विलोकयन्पश्यन्न किंचिद् ददर्शालोकयामास । केवलमनवरतं निरन्तरं तमेव शब्दं शुश्रावाकर्णया
शात्कौतुकवशाच्च गीतध्वनेः प्रभव उत्पत्तिस्तस्य जिज्ञासा ज्ञातुमिच्छा तया कृता विहिता गमने बुद्धिर्येनैवंभूतः । दत्तेति । दत्तमारोपितं पर्याणं पल्ययनं यस्मिनेतादृशमिन्द्रायुधमश्चमारुह्यारोहणं कृत्वा तया पश्चिमया वनलेखया । तीरस्येति शेषः । तं पूर्वोक्त गीतध्वनि निमित्तीकृत्य निदानीकृत्याभिप्रतस्थे संमुखं जगाम । किंविशिष्टः । उपेति । उपदिश्यमानः कथ्यमानो वर्त्म मार्गो यस्य सः । कैः । अप्रार्थितैरप्ययाचितैरपि वनहरिणैररण्यमृगैः । अथ तानेव विशिनष्टि - प्रियेति । प्रियं वल्लभं गीतं गानं येषां तैरत एव प्रथममादौ प्रस्थितैः प्रचलितैः । अथ वनलेखां विशेषयन्नाह - बकुलेति । बकुलः केसरः, एला चन्द्रवाला । 'पृथ्वीका चन्द्रवालैला निष्कुटिर्बहुला' इत्यमरः । लवङ्गो देवकुसुमवृक्षः, लवलीनाम्नी लता वल्लीविशेषः । तासां लोलानि चञ्चलानि कुसुमानि पुष्पाणि तेषां सुरभिर्घाणतर्पणः परिमलो गन्धो यस्यां सा तया । अलीति । अलिकुलाना भ्रमरसमूहाना या विरुतिः शब्दविशेषस्तया मुखरितया वाचालितया । तमालेति । तमालास्तापिच्छास्तैर्नीलयाऽसितया । श्यामत्वसाधादाह - दिङ्नागेति । दिशां नागा हस्तिनस्तेषां मदवीथ्येव दानश्रेण्येव ।
क्रमेणेति । क्रमेण परिपाट्या । चकारः पूर्ववत् । अथ चन्द्रापीडं विशिनष्टि - पुण्यैरिति । पुण्यैः पवित्रैः कैलासमारुतै रजताद्रिवायुभिरभिनन्द्यमान आनन्द्यमानः । अथ मारुतानां विशेषणानि । संमुखागतैरभिमुखागतैः । अच्छेति । अच्छानि निर्मलानि यानि निरिजलनानि प्रसवणपानीयानि तेषां कणा बिन्दवस्तेषां जालं समूहस्तेन जनित उत्पादितो जडिमा जाड्यं यैस्तैः । जर्जरितेति । जर्जरितानि शिथिलीकृतानि भूर्जाना मुदुत्वचां वल्कलानि चोचानि यैस्तैः । धूर्जटीति । धूर्जटिरीश्वरस्तस्य यो वृषो बलीवर्दस्तस्य रोमन्थश्चर्वितचर्वणं तस्य फेनो डिण्डीरस्तस्य बिन्दून्वहतीत्येवंशीला वाहिनस्तैः । षण्मुखेति । षण्मुखस्य कार्तिकेयस्य यः शिखण्डी मयूरस्तस्य शिखा चूड़ा तच्चुम्बिभिस्तत्स्पर्शकारिभिः । अम्बिकेति । अम्बिकायाः पार्वत्याः कर्णपूरस्य कर्णावतंसस्य यः पल्लवः किसलयं तस्योल्लासनमूर्धीकरणं तत्र दुर्ललितं दुश्चेष्टितं येषां तैः । उत्तरेति । उत्तरदिग्वर्तिनां कुरूणां क्षेत्रविशेषाणां याः कामिन्यः स्त्रियस्तासा कर्णोत्पलानां श्रवणकुवलयाना प्रेखोलने आन्दोलने दोहदोऽभिलाषो विद्यते येषां तैः । आकम्पीति । आकम्पिता आधुनिताः कक्कोलाः कोशफला यैस्ते तथा तैः । नमेविति । नमेरवो वृक्षविशेषास्तेषां - टिप्प० - 1 येषां तैरित्यर्थ उचितः, मारुतानामेव शीतलत्वस्य वर्णनीयत्वात् । 2 छायावृक्षाः 'छाया वृक्षो नमेरुः स्यात्' इति 'स्निग्धच्छायातरुषु वसतिम् इति मेघदूत-टीकायां मल्लिनाथधृतः शब्दार्णवः । पाठा० - १ गीतशब्दम्. २ प्रभवाच्च, ३ ध्वनित. ४ सप्तच्छदबकुल. ५ सरस्तीरवन. ६ अनिर्जरजल. ७ वृषभ. ८ उल्लसन. ९ आकम्पितकमलैर्नवकुसुममालापासुवाहिभिः; आकम्पितकङ्कोलैः.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
शिवसिद्धायतनम्
। पूर्वभागः ।
271