________________
रुकुसुमपासुपातिभिः, पशुपतिजटाबन्धातवासुकिपरिपीतशेषः, आह्लादिभिः पुण्यैः कैलासमारुतैरभिनन्द्यमानो गत्वा च तं प्रदेशं सर्वतो मरकतहरितैः, हारिहारीतरुतिरमणीयैः, भ्रमट्टङ्गराजनेखरजर्जरितजरैठकुड्मलैः, उन्मदकोकिलकुलकवलीकृतसहकारकोमलाग्रपल्लवैः, उन्मदषट्चरणचक्रवालवाचालितविकचचूतकलिकैः अचकितचकोरचुम्बितमरिचाङ्कुरैः, चम्पकपरागपुञ्जपिञ्जरकपिञ्जलजग्धपिप्पलीफलैः, फलभरनिकरपीडितदाडिमनीडप्रसूतकलविकैः, प्रक्रीडितकपिकुलकरतलताडनतरलितांडीपुटैः, अन्योन्यकुपितकपोतपक्षपालीपातितकुसुमैः, कुसुमरजोराशिसारसौरिकाश्रितशिखरैः, शुकशतमुखनखशिखरशकलितफलस्फीतैः, -
***********
कुसुमानि पुष्पाणि तेषां पासवो रजांसि पातयन्तीत्येवंशीलास्तैः । पशुपतीति । पशुपतेरीधरस्य जटा सटा तस्या बन्धो नियन्त्रणं तेनार्तः पीडितो यो वासुकिर्नागराजस्तेन परिपीता आस्वादितास्तेभ्यः शेषा अवशिष्टास्तैराह्लादिभिः प्रमोदकारिभिः । तं प्रदेशं स्थानं गत्वा स चन्द्रापीडः पादपैर्वृक्षैः परिवृतं चन्द्रप्रभनाम्नश्चन्द्रप्रभाभिधानस्य कैलासपादस्य रजताद्रिपर्यन्तपर्वतस्य तलभागनिविष्टमधोदेशस्थितं भगवतः शूलपाणेः शंभोः शून्यं जनवर्जितं भूतलभागे संनिविष्टं स्थापितं सिद्धायतनं चैत्यमपश्यदित्यन्वयः । अथ पावपान्विशेषयन्नाह - सर्वत इति । सर्वतः समन्तान्मरकतमश्मगर्भं तद्वद्धरितैर्नीलितैः । हारीति । हारिणो मनोहरा ये हारीता मृदङ्कुरास्तेषां रुतयः शब्दास्तै रमणीयैर्मनोहरैः । भ्रमदिति । भ्रमन्तश्चलन्तो ये भृङ्गराजा धूम्याटाः पक्षिणस्तेषां नखरा नखास्तै जरितानि श्लथीकृतानि जरटानि कठिनानि कुड्मलानि येषां तैः । उन्मदेति । उन्मदान्यत्युत्कृष्टमदयुक्तानि यानि कोकिलकुलानि पिकसमूहाः तैः कवलीकृता भक्षिताः सहकारस्याग्रस्य कोमला मृदवोऽग्रपल्लवाः प्रान्तकिसलयानि येषु तैः । उन्मदेति । उन्मदा ये षट्चरणा भ्रमरास्तेषां चक्रवालं समूहस्तेन वाचालिता मुखरीकृता विकचाः स्फुटाधूतकलिकाः । सहकारकोरका येषु तैः । अचकित इति । अचकिता अवस्ता ये चकोरा विषसूचकास्तैश्चुम्बिताश्चर्विता मरिचानां श्वेतशोभाजनानामङ्कुराः प्ररोहा येषु तैः । चम्पकेति । चम्पको हेमपुष्पकस्तस्य यः परागः पौष्पं रजस्तस्य पुञ्जः समूहस्तद्वत्पिञ्जराः पीतरक्ता ये कपिञ्जलास्तित्तिरास्तै ग्धानि भक्षितानि पिप्पल्या वैदेह्याः फलानि येषु तैः । फलेति । फलस्य भरो भारस्तस्य निकरः समूहस्तेन पीडिता बाधिता दाडिमाः करकास्तेषु ये नीडाः कुलायास्तेषु प्रसूता जनिताः कलविङ्काः कुलिङ्गका येषु तैः । प्रक्रीति । प्रकीडितं क्रीडया प्रवृत्तं यत्कपिकुलं गोलाङ्ग्लसमूहस्तस्य करतलानि पाणितलानि तेषां ताडनेन प्रघातेन तरलितानि कम्पितानि ताडीपुटानि येषु तैः । अन्योन्येति । अन्योन्यं परस्परं कुपिताः कोपं प्राप्ता, ये कपोताः पारावतास्तेषां पक्षपाल्यो गरुद्वीथ्यस्ताभिः पातितानि सस्तानि कुसुमानि प्रसूनानि येषां तैः । कुस्विति । कुसुमानि पुष्पाणि तेषां रजः परागस्तस्य राशिः समूहस्तदनुसारिण्यो याः सारिकाः पीतपादास्ताभिराश्रितानि व्याप्तानि शिखराणि वृक्षप्रान्ता येषां तैः । शुकेति । शुकानां कीराणां यच्छतं तस्य मुखान्याननानि नखा नखराश्च -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 ‘हरियल' इति भाषायां ख्याताः पक्षिविशेषाः । 2 भृङ्गराजा भ्रमराः 'भृङ्गराजो मधुकरे' इति हैम इति केचिदभिप्रयति । 3 रजःपुञ्जन (अर्थात् तत्पतनेन) पिञ्जरित्यपि अर्थान्तरः । 4 चटका इव प्रायः प्रसिद्धाः । 5 तालीपत्राणि । 6 'शारसारिका' इत्यपि पाठः । रजोराशिना शाराः चित्राः याः सारिका इति तदर्थः ।
पाठा० - १ बन्धनवासुकि. २ नख. ३ जठर. ४ सहकारकोरकैः. ५ चकोरचञ्चु. ६ निपीडित. ७ बिडदाडिमी. ८ चपलकपिलकपि. ९ नाडि. १० कलहकुपित. ११ कपोतपोतसंहतलोलपक्ष; कपोतपोतपक्ष. १२ पतित. १३ सारसिकामिश्र. १४ शिशिरैः.
272
कादम्बरी ।।
कथायाम्
ܠܠܠܠܠܠܠܠܠܠ