________________
जलधरजेललुब्धविप्रलब्धमुग्धचातकध्वानमुखरिततमालखण्डैः, इभकलभकोल्लूनपल्लववेल्लितलवलीवलयैः, आलीयमाननवयौवनमत्तैपारावतपक्षक्षेपपर्यस्तकुसुमस्तबकैः, तनुपवनकम्पितकोमलकदलीदलवीजितैः, अविरलफलनिकरावनतनालिकेरवनैः, अकटोरपत्रपुटपूर्गविटपिपरिवृतैः, अनिवारितविहगतुण्डखण्डितपिण्डखर्जूरजालकैः, मदमुखरमयूरीमधुररखविराजितान्तरैः, आँकलितकलिकाकलापदन्तुरितैः, अन्तरान्तरा कैलासतरङ्गिणीतरङ्गितसिकतिलतलभूमिभागैः, वनदेवताकरतलनिवहनिभमलक्तकजललवसिक्तमिव किसलयनिकरमतिसुकुमारमुद्वहद्भिः, ग्रन्थिपर्णग्रासमुदितचमरीकुलनिषेवितमूलैः, कर्पूरागरुप्रायैः, इन्द्रायुधैरिव घना -
***********
तेषां शिखराण्यग्राणि तैः शकलितानि खण्डितानि यानि फलानि तैः स्फीतैः स्फारैः । जलेति । जलधरो मेघस्तस्य जलं पानीयं तत्र लुब्धा. आसक्ता अथ च विप्रलब्धा वञ्चिता ये मुग्धचातका बप्पीहास्तेषां ध्यानेन शब्देन मुखरितं वाचालितं तमालखण्डं तापिच्छवनं येषु तैः । एतेन तमालखण्डानां कृष्णवर्णत्वेन जलधरभ्रमान्मुग्धचातकैः प्रार्थ्यत इति ध्वनितम् । इभेति । इभानां हस्तिनां कलभास्त्रिशदब्दकाः । स्वार्थे कः । तैरुल्लूनाः खण्डिताः पल्लवाः किसलयानि येषामेवंविधानि वेल्लितान्यान्दोलितानि लवलीवलयानि येषु तैः । आलीयेति । आ समन्ताल्लीयमाना अन्तः प्रविश्यमाना ये नवयौवनेन प्रत्यग्रतारुण्येन मत्ता उत्कटाः पारावताः कलरवास्तेषां पक्षक्षेपेण गरुद्विक्षेपेण पर्यस्ताः पतिताः कुसुमस्तबकाः पुष्पगुच्छा येषां तैः । तन्विति । तनुपवनेन मन्दवायुना कम्पिता धूता याः कोमला मृदवः कदल्यो रम्भास्तासां दलानि पत्राणि । 'पर्णं पत्रं छदं दलम्' इति कोशः । तैर्वीजितैः कृतवालव्यजनैः । अविरलेति । अविरलान्यपेलवनि यानि फलानि तेषां निकरः समूहस्तेनावनतानि नमितानि नालिकेरवनानि लाङ्गलीखण्डानि येषु तैः । अकठोरेति । अकठोराणि मृदूनि पत्रपुटानि येषामेवंविधा ये पूगविटपिनः क्रमुकवृक्षास्तै परिवृतैः परिवेष्टितैः । अनिवेति । अनिवारिता निषिद्धा ये विहगाः पक्षिणस्तेषां तुण्डानि मुखानि तैः खण्डितानि शकलीकृतानि पिण्डखर्जूरजालकानि प्रसिद्धानि येषु तैः । मदेति । मदेन गर्वेण ऋतुविशेषजनितबलभरेण वा मुखरा वाचाला या मयूर्यो नीलकण्ठयोषितस्तासां यो मधुरो मिष्टो रवः शब्दस्तेन विराजितान्यन्तराणि मध्यानि येषां तैः । आकलीति । आकलिताः प्रादुर्भूता याः कलिकाः कोरकाः । 'कलिका कोरकोऽस्त्रियाम्' इति कोशः । तस्याः कलापः संघातस्तेन दर्त्तुरितैरुन्नतैः । कैलासेति । कैलासस्य रजताद्रेरन्तरान्तरा । मध्ये मध्य इत्यर्थः । यास्तरङ्गिण्यो नद्यस्तासां तैरङ्गितेन भङ्गितेन सिकतिलो वालुकितस्तलभूमिभागोऽधः प्रदेशो येषां तैः । किं कुर्वद्भिः पादपैर्वृक्षैः । अतिसुकुमारमतिमृदु किसलयनिकरं पल्लवसमूहमुद्वहद्भिर्धारयद्भिः । रक्तत्वसादृश्यात्तदेव विशेषयन्नाह - वनेति । वनदेवतानामरण्याधिष्ठात्रीणां करतलनिवहनिभमिव हस्ततलसमूहसदृशमिव । अलेति । अलक्तको यावकस्तस्य जललवैः सिक्तमिव सिञ्चितमिव । ग्रन्थीति । ग्रन्थिपर्णं शुकम् । ‘ग्रन्थिपर्णं शुकं बर्हम्' इत्यमरः । तस्य ग्रासेन मुदितानि हर्षितानि यानि चमरीकुलानि वनोद्भवगोसमूहानि तैर्निषेवितानिवा बुध्नानि येषां तैः । कर्पूरेति । कर्पूरा अन्तर्गर्भितघनसारवृक्षाः, अगरवो राजार्हाः प्रायो बाहुल्येन विद्यन्ते येषु तैः । इन्द्रेति । इन्द्रायुधानीन्द्रधनूंषि तैरिव । उभयोः साम्यमाह - घनेति । घनं निबिडमव
टिप्प० - 1 अविरलं (निबिडम् ) फलनिकरेणावनतं च नारिकेलानां वनं येषु तैरित्यपि व्याख्यायन्ति केचन विद्वांसः । 2 विषमैः इत्यपि वदन्ति केचिद् । 3 कैलासतरङ्गिणीतरङ्गितः (कैलासतरङ्गिणीनां तरङ्गाः संजाताः यस्मिन् सः) सिकतिलश्च तलभूमिभागो येषां तैः ।
पाटा० - १ जललव. २ कृतासीकमान ३ मदमत्त. ४ पर्यस्तस्तबकैः ५ पूत. ६ विरावित; रचित. ७ अकलित ८ दन्तुरैः ९ पर्णक. १० समुदित. ११ घनावलीस्थानैः .
शिवसिद्धायतनम्
-
पूर्वभागः ।
273