________________
वस्थानैः, कुमुदैरिवादत्तदिनकरकरप्रवेशशिशिराभ्यन्तरैः, दाशरथिबलैरिवोञ्जननीलनलपरिगतप्रान्तैः, प्रासादैरिव सपारावतैः, भवनतापसैरिव संनिहितवेत्रासनैः, रुद्रैरिव नागलताबद्धपरिकरैः, उदधिकूलपुलिनैरिव निरन्तरोद्भिन्नप्रवाललताङ्कुरजालकैः, अभिषेकसलिलैरिव सर्वोषधिकुसुमफलकिसलयसनाथैः, आलेख्यगृहैरिव बहुवर्णचित्रपत्रशकुनिशर्तसंशोभितैः, कुरुभिरिव भारद्वाजद्विजोपसेवितैः, महासमरमुखैरिव पुनागसमाकृष्टशिलीमुखैः, महाकरि -
***********
स्थानं येषां तैः । पक्षे घनो मेघः । कुमुदैरिति । कुमुदानि कैरवाणि तैरिव । उभयोः साम्यमाह - अदत्तेति । न दत्तो यो दिनकराणा सूर्यकिरणानां प्रवेशस्तेन शिशिरं शीतलमभ्यन्तरं मध्यभागो येषां तैरित्यभङ्गश्लेषः । दाशेति । दाशरथी रामस्तस्य बलानि सैन्यानि तैरिव । अञ्जनेति । अञ्जनवनीलानि यानि नलानि तृणानि तैः परिगतो व्याप्तः प्रान्तो येषां तैः । पक्षेऽञ्जननीलनलाः कपयः । शेषं पूर्ववत् । प्रासादेति । प्रासादा देवगृहास्तैरिव । 'प्रासादो देवभूपानाम्' इत्यभिधानचिन्तामणिः । भङ्गश्लेषमाह - सेति । सह पारावतैर्मर्कटवर्तमानाः सपारावतास्तैः । 'पारावतः कलरवे गिरौ मर्कटतिन्दुके' इत्यनेकार्थः । पक्षे पारावतः कपोतः । भवनेति । भवने गृहे स्थिता ये तापसाः परिव्राजकास्तैरिव । एतत्साम्यमाह - सनीति । संनिहिताः । समीपवर्तिनो वेत्रा वृक्षविशेषा असनाः प्रियका येषां तैः, पक्षे संनिहितानि वेत्रासनानि विष्टरविशेषा येषामिति बहुव्रीहिः । रुद्रैरिति । रुद्रा ईश्वरा एकादश तैरिव । एतत्साम्यमाह - नागेति । नागलता ताम्बूली । 'ताम्बूलवल्ली ताम्बूली नागपर्यायवल्लयपि इत्यभिधानचिन्तामणिः । तया बद्धः परिकरः परिधिर्येषां तैः । पक्षे नागाः सर्पा एव लता तया बद्धः, अर्थाज्जटायाः परिकरो येषामिति बहुव्रीहिः । उदधीति । उदधेः समुद्रस्य कूलं तटं तस्य पुलिनानि जलोज्झितप्रदेशास्तैरिव । 'पुलिनं तज्जलोज्झितम्' इति कोशः । उभयोः सादृश्यमाविष्कुर्वनाह - निरन्तरमिति । निरन्तरं सततमुद्भिन्ना प्रकटितानि प्रवाला नवपल्लवा लताङ्कुरा वल्लीप्ररोहाच तेषां जालकानि वृन्दानि येषु तैः । पक्षे प्रवाललता विद्रुमलता । शेषं पूर्ववत् । अभीति । अभिषेकार्थं यानि सलिलानि जलानि तैरिव । एतत्साम्यमाह - सर्वेति । सर्वाः समग्राश्च ता ओषध्यः फलपाकान्तास्तासां यानि कुसुमफलकिसलयानि तैः सनाथैः सहितैः । पक्षे मङ्गलकर्मणि सर्वोषधी प्रसिद्धा । आलेख्येति । आलेख्यं चित्रं तेन युक्ता गृहास्तैरिव । उभयोः सादृश्यमाह - बह्विति । बहुवर्णैरनेकरागैश्चित्राणि पत्राणि पिच्छानि येषामेवंभूतानां शकुनीनां पक्षिणां शतं तेन संशोभितैर्विराजितैः । पक्षे बहुवर्णोपेतानि यानि चित्राण्यालेख्यानि तेषु यानि पत्राणि बाह्यानि । शकुनयः पक्षिणः । शेषं पूर्ववत् । कुरुभिरिति । कुरवः कुरुवंशोद्भवा राजानस्तैरिव । एतयो सादृश्यमाह - भारेति । भारद्वाजा व्याघ्राटा ये द्विजाः पक्षिणस्तैरुपसेवितैः, पक्षे भारद्वाजो द्रोणः । महेति । महान्ति प्रकृष्टानि यानि समरमुखानि सङ्ग्रामप्रारम्भास्तैरिव । 'मुखमुपाये प्रारम्भे श्रेणिनिःसरणास्ययोः' इत्यनेकार्थः । एतयोः साम्यार्थमाह - 'नागेति । पुनागैर्वृक्षविशेषैः समाकृष्टाः समाकर्षिताः शिलीमुखा भ्रमरा येषु तैः । पक्षे पुनागाः प्रकृष्टपुरुषाः । शिलीमुखा बाणाः । शेषं पूर्ववत् । - - -- टिप्प० - 1 भवनतापसैरिव गृहस्थतपस्विभिरिव इति व्याख्यानमुचितम्, इत्यत्र परिवाजकमतपक्षपातिनां यदभिप्रायः स हास्यास्पद एव । 2 निरन्तर उद्भिन्न तरङ्गाघातेन उत्थितं विद्रुमलतानाम् क्षुद्रक्षुद्रखण्डसमूहो येषु तैरिति पूर्णपदस्यार्थः । 3 सुरामासीत्यादयः पूर्वसूचिता इत्यर्थः । 4 नानारङ्गेषु चित्रेषु यानि पत्राणि वाहनानि (हस्त्यश्चादीनि) शकुनयः पक्षिणश्च तेषां शतेन शोभितरित्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ दिनकरकर. २ नीलनलाञ्जन. ३ शोभितैः. ४ भारद्वाजोपसेवितैः; भारद्वाजद्विजोत्तमसेवितैः.
274
कादम्बरी।
कथायाम