________________
भिरिव प्रलम्बबालपल्लवस्पृष्टभूतलैः, अप्रमत्तपार्थिवैरिव पर्यन्तावस्थितबहुगुल्मकैः, दंशितैरिव भ्रमरसंघातकवचावृतकायैः, प्रेमाणाभिमुखैरिव वानरकराङ्गुलिस्पृष्टगुजैः, अवनिपालशयनैरिव सिंहपादाङ्किततरुतलैः आरब्धपञ्चतपःक्रियैरिवोच्छिखशिखिमण्डलपरिवृतैः, दीक्षितैरिव कृतकृष्णसारविषाणकण्डूयनैः, जरद्गृहमुनिभिरिव जटालबालकमण्डलधरैः, इन्द्रजालिकैरिव दृष्टिहारिभिः पादपैः परिवृतं चन्द्रप्रभनाम्नस्तस्य सरसः पश्चिमे तीरे -
***********
महान्तोऽतिस्थूला ये करिणो हस्तिनस्तैरिव । उभयोस्तुल्यता प्रदर्शयत्राह - प्रलम्बेति । प्रलम्बा लम्बायमाना ये बालपल्लवा नवीनकिसलयानि तैः करणभूतैः स्पृष्टं संघट्टितं भूतलमधःप्रदेशो येषां तैः । पक्षे बालपल्लवाश्चमरप्रान्ताः । शेषं पूर्ववत् । शोभातिशयार्थं हस्तिना कर्णे चामराणि बध्यन्त इति सर्वप्रसिद्धम् । अप्रमत्तेति । अप्रमत्ताः सावधाना ये पार्थिवा राजानस्तैरिव । एतयोःसादृश्यमाह - पर्यन्त इति । पर्यन्ते प्रान्तेऽवस्थिता बहवोऽनेके गुल्मका गुच्छका येषु तैः । पक्षे गुल्मकाः सेनाविशेषाः । 'एकेभैकरथा त्र्यधा पत्तिः पञ्चपदातिका । सेना मुखं गुल्मः' इति कोशः । दंशितेति । दंशितैर्वमितैरिव । 'दंशितो वर्मितः सज्जः' इति कोशः । एतयोस्तुल्यत्वमाह - भ्रमेति । भ्रमराणां शिलीमुखानां यः संघातः समूहः स एव कवचं वर्म तेनावृत आच्छादितः कायो देहो येषां तैः । पक्षे भ्रमरा आवतस्तेिषां संघातः समूहो येष्वेवंविधानि कवचानि संनाहाः । शेषं पूर्ववत् । प्रमाणेति । प्रमाणं तोलनं तत्राभिमुखाः संमुखास्तैरिव । उभयोः प्रकारान्तरेण भङ्गमाह - वानरेति । वानरा गोलाङ्ग्लास्तैः कराङ्गुलिभिः करशाखाभिः स्पृष्टा आश्लिष्टा गुञ्जा येषु तैः । पक्षे वेति विकल्पार्थः । नराङ्गुलयो मनुष्याङ्गुलयः । शेषं पूर्ववत् । सुवर्णपरिमाणे गुञ्जाया एव ग्रहणमिति लोकप्रसिद्धम् । अवनीति । अवनिपाला राजानस्तेषां शयनैस्तल्पैरिव । एतयोः सादृश्यं प्रदर्शयन्नाह - सिंहेति । सिंहपादैर्हर्यक्षचरणैरङ्कितानि चिह्नितानि तरुतलानि वृक्षाधोभागा येषां तैः । पक्षे सिंहपादेष्वङ्किता एतादृशानि तलानि । शेषं प्राग्वत् । आरब्धेति । आरब्धा प्रस्तुता पञ्चतपःक्रिया पञ्चाग्निसाधनकर्म यैस्तैरिव । एतयोः शब्दसादृश्यमाह - उच्छिखेति । उच्छिखमूर्खचूडं यच्छिखिमण्डलं मयूरसमूहस्तेन परिवृतैः परिवेष्टितैः । पक्ष ऊर्ध्वं शिखा ज्वाला यस्यैवंभूतं शिखिमण्डलं वह्निमण्डलम् । शेषं प्राग्वत् । दीक्षिता यज्ञे गृहीतव्रतास्तैरिव । एतयोः साम्यमाविःकर्तुमाह - कृतेति । कृतं विहितं कृष्णसारैर्मृगेविषाणानां श्रृङ्गाणां कण्डूयनं कण्डूया येषु तैः । 'कण्डूः कण्डूयन खर्जूः कण्डूया' इत्यभिधानचिन्तामणिः । पक्षे कृष्णसारविषाणेन कण्डूयनम् । शेषं प्राग्वत् । दीक्षितानामयमाचारो यन्मृगविषाणैः कण्डूयनं विधीयत इति । जरेति । जरन्तो ज्यायांसो ये गृहमुनय आश्रमतापसास्तैः पञ्च(?)मुनीनामपत्यानि न भवन्तीति गृहपदं तैरिव । एतयोः सादृश्यप्रदर्शनार्थमाह - जटेति । जटाः शिफाः, आलवालक आवापः तस्य मण्डलं परिवेषस्तं धरन्तीति धरैः, पक्षे जटायुक्ता ये बालाः स्तनंधयास्त एव कमण्डलधरा पानीयसमूहधरा यैष्विति बहुव्रीहिः । इन्द्रेति । इन्द्रजालिका मायिकास्तैरिव । उभयोः सादृश्यमाह - दृष्टीति । दृष्टयो नेत्राणि तेषां हारिभिर्हरणशीलैः । नेत्राभिरामैरित्यर्थः । पक्षे दृष्टिवञ्चकैः । अन्वयस्तु -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 भ्रमरसंघात(भ्रमरसमूह)वत् स्थितैः (कृष्णवर्णैः) कवचैः वर्मभिः आवृता देहा येषां तैरिव कवचयुक्तवीरपुरुषैः । इत्यर्थो वाच्यः । 2 अत्र केषाञ्चन विदुषामते 'सिंहपादाङ्किततलैः' इत्यपि पाठः । केसरिणां पादैश्चरणचिद्वैरङ्कितानि तलानि तरुतलानि येषु इति वृक्षपक्षे । सिंहाना पादैरिव पादैः पल्यङ्कपादकैश्चिह्नितानि तलानि शयनतलानि येषु तैरिति अवनिपालपक्षेऽर्थः । 3 जटायुक्ता ये बालकास्तेषां मण्डलं समूह धरन्तीत्यर्थः ।
पाठा० -१ संपात. २ प्रयाण. ३ पादाङ्किततलैः. ४ दीर्घजटा. ५ कमण्डलु.
शिवसिद्धायतनम्
पूर्वभागः ।
1275