________________
कैलासपादस्य ज्योत्स्नावदातया प्रभया धवलयतस्तं प्रदेशं भूतलभागसंनिविष्टं भगवतः शूलपाणेः शून्यं सिद्धायतनमपश्यत् ।
तच्च पवनोद्भूतैरितस्ततः समापतद्भिः केतकीगर्भधूलिभिर्धवलीक्रियमाणकायः पशुपतिदर्शनहेतोर्बलादिव प्रतिपाद्यमानो भस्मव्रतमायतनप्रवेशपुण्यैरिव परिगृह्यमाणः प्रविश्याद्राक्षीच्चतुःस्तम्भस्फटिकमण्डपिकातलप्रतिष्ठितम्, अचिरोद्भतरार्द्रर्दलशिखरगलज्जलबिन्दुभिरू विपाटितचन्द्रबिम्बदलैरिव निजाट्टहासावयवैरिव शेषफणाशकलैरिव पाञ्चजन्यसहोदरैरिव क्षीरोदहृदयाकारैरुपपादित मौक्तिकमुकुटविभ्रमैः शुचिभिर्मन्दाकिनीपुण्डरीकैः कृतार्चनम्, अमलमुक्ताशिलाघटितलिङ्गम्, अशेषत्रिभुवनवन्दितचरणम्, चराचरगुरुम्, चतुर्मुखम्, भगवन्तं त्र्यम्बकम् ।
*********** प्रागेवोक्तः । अथ कैलासपादं विशेषयन्नाह - ज्योत्स्नेति । ज्योत्स्ना कौमुदी तद्वदवदातया शुभ्रया प्रभया कान्त्या तं प्रदेशं तत्पार्श्ववर्तिभूभागं धवलयतो धवलीकुर्वतः ।।
तच्चेति । तदायतनं प्रविश्य तत्र प्रवेशं कृत्वा भगवन्तं माहात्म्यवन्तं त्र्यम्बकं गौरीनाथमद्राक्षीद् ददर्शेत्यन्वयः । अथ चन्द्रापीडं विशेषयन्नाह - पवनेति । पवनेन वायुनोद्भूतैः कम्पितैरितस्ततः समापतद्भिर्यत्रतत्र निपतद्भिः केतक्याः प्रसिद्धाया गर्भधूलिभिर्मध्यरेणुभिर्धवलीक्रियमाणः शुभ्रीक्रियमाणः कायो देहो यस्य सः । पाण्डुरत्वसाम्येनाह - पशुरिति । पशुपतेरीश्वरस्य यद् दर्शनमवलोकनं तस्य हेतोः तदर्थमित्यर्थः । बलादिव हठादिव भस्मव्रतं विभूतिव्रतं प्रतिपाद्यमान इवाङ्गीक्रियमाण इव । धूलीनां शुचित्वात्पुण्यानामपि तथाविधत्वात् तत्साम्येनाह - आयेति । आयतनं चैत्यं तत्र यः प्रवेशस्तस्माद्यानि पुण्यानि श्रेयांसि तैः परिगृह्यमाण इवोपादीयमान इव । अथ सिद्धायतनं विशेषयन्नाह - चतुरिति । चत्वारः स्तम्भाः स्थूणा यस्यामेतादृशी या स्फटिकमण्डपिका चन्द्रकान्तलघुमण्डपस्तस्यास्तलेऽधोभागे प्रतिष्ठितमवस्थितम् । पुनः कीदृशम् । शुचिभिः पवित्रैर्मन्दाकिनी स्वधुंनी तस्याः पुण्डरीकैः सिताम्भोजैः कृतं विहितमर्चन पूजन यस्य तत् । अथ पुण्डरीकाणि विशेषयन्नाह - अचिरेति । अचिरोद्भूतैः स्वल्पकालोत्खातैरार्द्राणि चााणि चाार्द्राणि तैः जलस्विनैरित्यर्थः । दलेति । दलानां पत्राणां शिखराण्यग्रभागास्तेभ्यो गलन्तः सवन्तो जलस्याम्भसो बिन्दवो विप्रुषो येषु तैः । गलज्जलबिन्दुसाम्येनोत्प्रेक्षते - ऊद्येति । ऊर्ध्वं विपाटितं भिन्नं यच्चन्द्रबिम्ब शशिमण्डलं तस्य दलैः खण्डैरिव । तत्राप्यमृतस्य गलद्विन्दवो भवन्तीति भावः । अत्र शुक्लत्वसाम्यादाह - निजेति । निजः स्वकीयो योऽट्टहासो महान्हासस्तस्यावयवैरिवापघनैरिव । शेषेति । शेषस्य नागाधिपतेः फणा स्फटा तस्याः शकलैः खण्डैरिव । अर्धविकसितत्वसाम्यादाह - पाञ्चेति । पञ्चजने पाताले भवः पाञ्चजन्यों जनार्दनशङ्खस्तस्य सहोदरैरेकोदरसमुत्पनैरिव । हृदयस्य पुण्डरीकाकारत्वात्तत्साम्येनाह - क्षीरेति । क्षीरोदस्य यद्धृदयं स्वान्तं तद्वदाकार आकृतिर्येषां तैः । अग्रसंकुचितत्वसाम्येनाह - उपेति । उपपादितो विहितो मौक्तिकानां रसोद्भवानां मुकुटविभ्रम उष्णीषभ्रान्तियः । अथ स्थावररूपमधिकृत्य त्र्यम्बकं विशेषयन्नाह - अमलेति । अमला निर्मला या मुक्ताशिला मौक्तिकशिला तस्या घटितं निर्मित लिङ्ग यस्य स तम् । जङ्गमरूपमधिकृत्याह - अशेषेति । अशेषं यस्त्रिभुवनं त्रिविष्टपं तेन वन्दितौ नमस्कृतौ चरणौ यस्य स तम् । चरेति । चराचरस्य जीवलोकस्य गुरुं हिताहितप्राप्तिपरिहारोपदेष्टारम् । चतुरिति । चत्वारि मुखानि यस्य स - टिप्प० -1 गर्भधूलिभिरिति पाठस्वीकारः प्रामादिकः । 'पवनोद्धतैः' इति विशेषणाऽयोगात् । 'स्त्रियां धूलिः' इति कोशोक्तेः । तस्मात् 'धूलिपटलै रिति पाठ स्वीकर्तव्यः । 2 अर्थात् केतकधूलिभिर्धवलीस्त्रियमाणो नास्ति किंतु सिद्धाश्रमप्रवेशजन्यैः शुचिभिः पुण्यैरेव गृहीतशरीर इत्याशयः । 3 'अचिरोद्धृतैः' इत्यपि पाठः । पाठा० . १ तलभागनिविष्टम्. २ शूलपाणेः सिद्धायतनम्. ३ उद्धृतैः. ४ समाघट्टद्धिः. ५ घूलिधवलैः. ६ अचिरोद्भूतैः ७ आदिलशिखर; आशिखर.
1276
कादम्बरी।
कथायाम्