________________
तस्य च दक्षिणां मूर्तिमाश्रित्याभिमुखीमासीनाम्, उपरचितब्रह्मासनाम्, अतिविस्तारिणा सर्वदिङ्मुखप्लावकेन प्रलयविप्लुतक्षीरपैयोधिपूरपाण्डुरेणातिदीर्घकालसंचितेन तपोराशिनेव सर्वतो विसर्पता पादपान्तरैस्त्रिसोतोजलनिभेन पिण्डीभूय वहतेव देहप्रभावितानेन सगिरिकाननं दन्तमयमिव तं प्रदेशं कुर्वतीम्, अन्यथैव धवलयन्ती कैलासगिरिम, अन्तर्द्रष्टुरपि लोचनपथप्रविष्टेन वेतिमानमिव मनो नयन्तीम्, अतिधवलप्रभापरिगतदेहतया स्फटिकगृहगतामिव दुग्धसलिलमग्नामिव विमलचेलांशुकान्तरितामिव आदर्शतलसंक्रान्तामिव शरदभ्रपटलतिरस्कृतामिव अपरिस्फूटविभाव्यमानावयवाम्, पञ्चमहाभूतमयमपहाय द्रव्या -
***********
चतुर्मुखस्तम् । ननु महादेवस्य पञ्चवक्त्रत्वात्कथमत्र चतुर्मुखोपवर्णनमिति वाच्यम् । सामान्यतस्तनिवासिनः प्रयोजनवशाच्चतुर्मुखस्यापि संभवात् ।
तस्य त्र्यम्बकस्य दक्षिणामपसव्यां मूर्ति प्रतिमामाश्रित्याश्रयणं कृत्वाऽभिमुखीं संमुखीमासीनां निषण्णां प्रतिपन्नं स्वीकृतं पाशुपतमीधरसक्तं व्रतं नियमविशेषो यया तां कन्यका महाश्वेताभिधानां ददर्शति दूरेणान्यवः । इतः कन्यकां विशेषयन्नाह - उपेति । उपरचित निर्मितं ब्रह्मासनं ध्यानासनं यया सा ताम् । पुनः किं कुर्वतीम् । सगिरिकाननं तं प्रदेशं दन्तमयमिव गजदन्तनिर्मितमिव कुर्वती प्रणयन्तीम् । केन । देहप्रभावितानेन शरीरकान्तिकलापेन । अथ प्रभावितानं विशेषयन्नाह - अतीति । अतिशयेन विस्तारिणा प्रसरणशीलेन । सर्वेति । सर्वदिङ्मुखानां प्लावकेनाच्छादकेन । प्रलयेति । प्रलयः कल्पान्तस्तेन विप्लुतो विस्तुतो यः क्षीरपयोधिस्तस्य पूरो रयस्तरत्पाण्डुरेण शुभ्रेण । उज्ज्वलत्वसाम्यादाह - अतीति । अतिदीर्घोऽत्यायतो यः कालोऽनेहा तेन संचितेनैकत्रीकृतेन विसर्पता प्रचलता तपोराशिना तपःसमूहेनेव । अतिस्वच्छत्वादाह - पादपेति । पादपान्तरैर्वृक्षान्तरैः प्रतिबन्धकीभूतैः पिण्डीभूय समूहीभूय वहतेव त्रिसोतोजलनिभेन गङ्गाम्भःसदृशेन । कैलासस्य श्वेतत्वादेतस्य च तदतिशयवत्त्वादाह - अन्यथेति । भिन्नप्रकारेण तेनैव देहप्रभावितानेन कैलासगिरिं रजताद्रिं धवलयन्तीं वेतिमानमापादयन्तीमिव । द्रष्टुरिति । तेनैव प्रभावितानेन द्रष्टुरपि विलोकयितुरप्यन्तर्लोचनपथप्रविष्टेन नेत्रमध्यमार्गगतेन मनश्चित्तं चेतिमानं शुक्लिमानं नयन्तीमिव प्रापयन्तीमिव । अतीति । अतिधवलातिशुभ्रा या प्रभा कान्तिस्तया परिगतो व्याप्तो देहो यस्यास्तस्या भावस्तत्ता तया । तथा च देहस्य प्रभारूपस्वच्छद्रव्यान्तरितत्वान्न परिस्फुटं विभाव्यमाना ज्ञायमाना अवयवा अपघना यस्याः । स्वच्छद्रव्यान्तरितत्वसाम्येनोत्प्रेक्षते - स्फटिकेति । स्फटिकश्चन्द्रकान्तस्तस्य गृह धाम तत्र गतामिव प्राप्तामिव । दुग्धेति । दुग्धसलिले क्षीरोदे मग्नामिव बुडितामिव । विमलेति । विमलं निर्मलं यच्चेलांशुकं वस्त्रविशेषस्तेनान्तरितामिव व्यवहितामिच । आदर्शति । आदर्शतलं मुकुरतलं तत्र संक्रान्तामिव प्रतिबिम्बितामिव । शरदिति । शरद्धनात्ययस्तस्या अभ्रपटलानि मेघवृन्दानि तैस्तिरस्कृतामन्तर्हितामिव । अपरिस्फुटावयवत्वादेवाशङ्कते - पञ्चेति । पञ्चमहाभूतमयं पृथिव्याद्यात्मक द्रव्यरूपमङ्गनिष्पादनोपकरणकलापं शरीरजनकसामग्रीमपहाय दूरीकृत्य केवलेन धवलगुणेनैवोत्पादितां निर्मिताम् । शौक्ल्यातिशयवत्त्वादिति भावः । केचिदपहायेत्यस्योभयत्र संबन्धमाहुः । तथा - धवलगुणेनेवोत्पादितायास्तस्याः पृथिव्याद्यनात्मकत्वे द्रव्यत्वमेव न स्यादित्यत आह - द्रव्येति । द्रव्यात्मकं - - - - - - - -
- - - - - - - - - - - - - - - - - - - टिप्प० -1 'तदूर्ध्वभागः संजातश्चतुर्वक्त्रश्चतुर्भुजः । पद्मकेशरगौरागकायो ब्रह्मा महेश्वरः ॥ इति कालिकापुराण(द्वादशाध्याय)वचनाच्चतुर्मुखी अपि शिवस्य मूर्तिः । 2 दक्षिणाभिमुखीमित्यर्थः । 3 'चन्द्रमयमिव' इत्यपि पाठः ।
-
-
-
-
-
-
-
--
पाठा० - १ अभिमुखम्. २ परिप्लुत. ३ पयोधिपयःपूर. ४ तपोराशिनैव विसर्पता. ५ हतमयम्; चन्द्रमयम्. ६ लोचनपथं प्रविश्य. ७ अतिबहल. ८ चीनांशुक. ९ परिस्फुट.
महाश्वेता
पूर्वभागः ।
277