________________
त्मकमङ्गनिष्पादनोपकरणकलापं धवलगुणेनेवे केवलेनोत्पादिताम्, अध्वरक्रियामिवोर्द्धतगणकचग्रहभयोपसेवितत्र्यम्बकाम्, रतिमि मदनदेहनिमित्तं हरप्रसादनार्थमागृहीतहराराधनाम्, क्षीरोदाधिदेवतामिव सहवासपरिचितहरचन्द्रलेखोत्कण्ठाम्, इन्दुमूर्तिमिव स्वर्भानुभयकृतत्रिनयनशरणंगमनाम्, ऐरावतदेहच्छविमिव गजाजिनावगुण्ठनोत्कण्ठितशितिकण्ठचिन्तितोपनताम्, पशुपतिदक्षिणमुखहासच्छविमिव बहिरांगत्य कृतावस्थानाम्, -
***********
स्वरूपमपहाय । ननु द्रव्यत्वाभावेऽङ्गानि शरीरावयवास्तनिष्पादने या उपकरणसामग्यपेक्षिता सा न स्यात् । तस्याश्च द्रव्यात्मककार्ये जननेऽसामर्थ्यादत आह - अङ्गेति । तदप्यपहाय । न चाभाव एव दूषणम् । अलौकिकप्रसिद्धेः दूषणस्यैव भूषणत्वात् । अध्वरक्रियायाः स्त्रीत्वमाश्रित्याह - अवर इति । अध्वरो दक्षस्य यज्ञस्तस्य क्रिया कर्म तामिव । उभयसादृश्यमाह - उद्भतेति । उद्धता अनार्या ये गणा मनुष्यवृन्दाः पार्षदाश्च तैर्य कचग्रहः केशग्रहस्तस्माद्यद्भयं तेनोपसेवितः सपर्याविषयीकृतस्त्र्यम्बक ईश्वरो यया सा ताम् । दक्षप्रजापतिनाध्वर ईश्वरो नाहूतः । तेन गणाः प्रेषिताः । तैरध्वरविनाशो विध्वस्त इति पुराणप्रसिद्धम् । रतिरिति । रतिर्मनोभवस्य स्त्री तामिव । उभयोः साम्यं स्पष्टमाह - मदनेति । मदनेन कंदर्पण पीडितो यो देहः शरीरं तन्निमित्तं तदर्थम् । मदनोपशान्त्यर्थमित्यर्थः । सा च हरप्रसन्नतायां स्यादित्याशयेनाह - हर इति । हरस्येश्वरस्य प्रसादनार्थं प्रसत्त्या आगृहीता स्वीकृता हराराधनेश्वरसपर्या यया सा ताम् । मदनस्य देह इव देहो यस्यैवंविधः पुण्डरीकमुनिस्तन्निमित्तं तदर्थमित्यर्थो वा । पक्षे मदनदेहनिमित्तम् । शेषं पूर्ववत् । ईश्वरेण कंदर्पदेहो भस्मसात्कृतः, पश्चाद्रत्येश्वरं सेवया प्रसन्नीकृत्य नवीनदेहः कारित इति पुराणप्रसिद्धम् । क्षीरोदेति । क्षीरसमुद्रस्याधिदेवताधिष्ठात्री लक्ष्मीस्तामिव । उभयं विशेषयन्नाह - सहेति । महादेवस्य निकटे कन्याया महाश्वेतायाश्चन्द्रलेखासहवासात्परिचितिविशेषतो दृष्टायां हरचन्द्रलेखायामुत्कण्ठाद्भुतातिशयो यस्याः सा ताम् । पक्षे क्षीरोदधौ समुद्रे यः पूर्वचन्द्रेण सहवासस्तेन परिचिता निर्णीता हरस्य चन्द्रकला तस्यामुत्कण्ठा रणरणकं यस्या इति बहुव्रीहिः । इन्दुरिति । इन्दुश्चन्द्रस्तस्य मूर्तिः शरीरं तामिव । उभयोः सादृश्यार्थमाह - स्वर्भानुरिति । स्वर्गतो योऽत्युच्चो भानुः सूर्यस्तस्यातपलक्षणं भयं तस्मात्कृतं विहितं त्रिनयनस्य शम्भोश्छायावशाच्छरणे गृह आगमनं यया सा ताम् । पक्षे स्वर्भानुः सैंहिकेयः । शरणार्थं त्राणार्थम् । शेषं पूर्ववत् । ऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य देहच्छविः शरीरत्वक् तामिव । उभयोः साम्यमाह - गजेति । गजाजिनेन हस्तिचर्मेणावगुण्ठनमाच्छादनं तस्मिन्नुत्कण्ठितो यः शितिकण्ठो महादेवस्तस्य चिन्तित समीहितमुपनतं पूरितं यया सा ताम् । पक्षे गजाजिनावगुण्ठनोत्कण्ठितेश्वरस्य चिन्तितेनापेक्षयोपनता प्राप्ताम् । पशुपेति । पशुपतिरीश्वरस्तस्य दक्षिणमुखस्यापसव्याननस्य यो हासो हास्यं तस्य छविः शोभा तामिव । अत्र दक्षिणग्रहण प्रायशस्तत्र हास एवेति तदर्थम् । उभयोः साम्यमाह - बहिरिति । स्वस्थानान्मुखाच्च बहिरागत्य कृतमवस्थानं ययेत्यभङ्गश्लेषः । श्वेतत्वपवित्रत्वसाम्यादाह-शरीरिणी देहधारिणी रुद्रस्येश्वरस्योद्भूलनमङ्गमर्दनं तस्य भूतिं -
- - - टिप्प०-1 'अध्वरक्रियामिव' इति सामान्यतः पाठाश्रयणमत्र यज्ञक्रियाया अनौचित्यं प्रतिपादनाय । न हि सामान्ययज्ञे केशाकर्षणं विहितम् । 'दक्षाध्वरक्रियामिव इत्यपि पाठ उचितः । 2 गणाः प्रमथा इत्येवोचितम् । 3 राहोभयेन कृतं त्रिनयनस्य शिवस्य शरणगमनं यया ईदृशीं चन्द्रस्य मूर्तिमिव । अस्मिन्नर्थे महाश्वेतापक्षे योजनस्य काऽऽवश्यकता ? एवमग्रेपि बोध्यम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ मङ्गल. २ एव. ३ दक्षाध्वर. ४ उद्धृत. ५ निरन्तरभस्मोल्लुण्ठनसिताङ्गी रतिम्. ६ क्षीरोदधि. ७ उत्कण्ठाकृष्टाम्; उत्कण्टोत्कृष्टाम्. ८ शरणागमना. ९ निर्गत्य.
278
कादम्बरी।
कथायाम