________________
शरीरिणीमिव रुद्रौद्धूलनर्भूतिम्, आविर्भूतां ज्योत्स्नामिव हरकण्ठान्धकारविघट्टनोद्यमप्राप्ताम्, गौरीर्मनः शुद्धिमिव कृतदेहपरिग्रहाम्, कार्तिकेयकौमारव्रतक्रियामिव मूर्तिमतीम्, गिरिशवृषभदेहद्युतिमिव पृथगवस्थिताम्, आयतनतरुकुसुमसमृद्धिमिव शंकराभ्यर्चनाय स्वयमुद्यताम्, पितामहतपः सिद्धिमिव महीतलमवतीर्णाम्, आदियुगप्रजापतिकीर्तिमिव सप्तलोकभ्रमणखेदविश्रान्ताम्, त्रयीमिव कलियुगध्वस्तधर्मशोकगृहीतवनवासाम्, आगामिकृतयुगबीजकलामिव प्रमदारूपेणावस्थिताम्, देहवतीमिव मुनिजनध्यानसंपदम्, अमरगजवीथीमिवाभ्रगङ्गाभ्यागमवेगपतिताम्, कैलासश्रियमिव दशमुखोन्मूलनक्षोभनिपतिताम्, श्वेतद्वीपलक्ष्मीमिवान्यद्वीपावलोकनकुतूहलागताम्, काशकुसुमविकासकान्तिमिव शरत्समय -
***********
भस्मेव । प्रकाशरूपत्वसाम्येनाह - ज्योत्स्नेति । आविर्भूता प्रकटीभूता ज्योत्स्ना कौमुदी तामिव । हरेति । हरकण्ठे यः कृष्णत्वसाम्यादन्धकारस्तस्य विघट्टनं दूरीकरणं तत्र य उद्यमः प्रयत्नस्तेन प्राप्तां समागताम् । हरसंनिधानसाम्येनाह - गौरीति । गौरी पार्वती तस्या मनःशुद्धिश्चित्तनैर्मल्यं तामिव । अमूर्ताया मूर्तेन कथं साम्यं स्यादित्याह - कृतेति । कृतो विहितो देहस्य परिग्रहः स्वीकारो यया सा ताम् । सातिशयत्वसाम्येनाह - कार्तीति । कार्तिकेयस्य षडाननस्य या कौमाखतक्रिया बाल्यावस्थायां यत्तपोनुष्ठानं तामिव । अत्रापि क्रियारूपत्वेन तदसंभवादाह - मूर्तीति । मूर्तिमतीम् । सशरीरामित्यर्थः । गिरिशेति । गिरिशो महादेवस्तस्य यो वृषभो बलीवर्दस्तस्य देहद्युतिः शरीरच्छविस्तामिव । तस्या गुणरूपत्वेन तदुपमानाभावादाह - पृथगिति । शरीराद्बहिर्निर्गत्य पृथगवस्थिताम् । सशरीरामित्यर्थः । आयतनेति । आयतनं चैत्यं तस्य तरवो वृक्षास्तेषां कुसुमसमृद्धिः पुष्पसंपत् तामिव । तस्या आगमने निदानमाह - शंकरेति । शंकरस्येश्वरस्याभ्यर्चनं पूजनं तदर्थं स्वयमुद्यतामुद्योगयुक्ताम् । पितेति । पितामहस्य ब्रह्मणो या तपः सिद्धिस्तामिव । तपः सिद्धेरात्मगतत्वेनोपमानाभावादाह-महीतलेऽवतीर्णां कृतावताराम् । आदीति । आदियुगे कृतयुगे यः प्रजापतिर्ब्रह्मा मरीच्यादयश्च तस्य तेषां वा कीर्तिर्यशस्तामिव । तस्या एकत्रावस्थाने कारणमाह - सप्तेति । सप्तसु लोकेषु यभ्रमणं पर्यटनं तस्माद्यः खेदः श्रमस्तेन विश्रान्तामुपविष्टाम् । त्रयीत् । ऋग्यजुःसामवेदास्त्रयी तामिव । एतस्यास्तत्रागमने हेतुमाह - कलीति । कलीयुगेन कलिकालेन ध्वस्तो दूरीकृतो यो धर्मो वृषस्तस्माद्यः शोकः शुक् तेन गृहीतः स्वीकृतो वनवासोऽरण्यनिवासो यया सा ताम् । इयमपि ध्वस्तधर्मशोकेन गृहीतवनवासेत्युभयोः साम्यम् । धर्मातिशयवचनसाम्येनाह - आगामीति । आगाम्यग्रेभावी यः कृतयुगस्तस्य या बीजकला निदानमात्रं तामिव प्रमदारूपेण स्त्रीरूपेणावस्थितामासेदुषीम् । देहेति । देहवतीं शरीरधारिणीं मुनिजना वाचंयमास्तेषां ध्यानं प्राणायामस्तस्य संपत् समृद्धिः तामिव । अमरेति । अमरा देवास्तेषां गजा हस्तिनस्तेषां वीथी ततिस्तामिव । गजसमूहस्य तत्रागमने निदानमाह अभ्रेति । अभ्रगङ्गाकाशगङ्गा तस्यामभ्यागमः संमुखगमनं तत्र यो वेगस्त्वरा तेन पतितां सस्ताम् । कैलासेति । कैलासो रजताद्रिस्तस्य श्रीः शोभा तामिव । कीदृशीम् । दशेति । दशमुखो रावणस्तेन यदुन्मूलनं तस्माद्यः क्षोभस्त्रासस्तस्मान्निपतितां सस्ताम् । इयमपि क्षोभेण निपतिता । श्वैत्यातिशयं वर्णयन्नाह - श्वेतेति । यत्र सर्वमेव वस्तु श्वेतं तच्छ्रेतद्वीपं तस्य या लक्ष्मीः श्रीस्तामिव । सा तद्वीप एव नास्मिन्प्रदेश इत्याह - अन्येति । इतरद्वीपानां यदवलोकनं वीक्षणं तदेव कुतूहलमाश्चर्यं तेनागतां प्राप्ताम् । काश इति । काश इति इषीका तस्य कुसुमानि पुष्पाणि तेषां विकासो विकसनं तस्य कान्तिः प्रभा तामिव । कीदृशीम् । शरत्समयं घनात्ययकालमुदीक्षमाणां प्रतीक्षमाणाम् ।
टिप्प० - 1 काशः 'काँस' इति भाषायां ख्यातस्तृणविशेषः ।
पाटा० - १ हर. २ विभूतिम् ३ तपः सिद्धिम् ४ गिरीश. ५ द्वीपान्तर.
( महाश्वेता
पूर्वभागः ।
-
279