SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ मुदीक्षमाणाम्, शेषशरीरच्छायामिव रसातलमपहाय निर्गताम्, मुसलायुधदेहप्रभामिव मधुमदविधूर्णनायांसविगलिताम्, शुक्लपक्षपरंपरामिव पुञ्जीकृताम्, सर्वहसैरिव धवलतया कृतसंविभागाम्, धर्महृदयादिव विनिर्गताम्, शङ्खादिवोत्की र्णाम्, मुक्ताफलादिवाकृष्टाम्, मृणालैरिव विरचितावयवाम्, दन्तदलैरिव घटिताम्, इन्दुकरकूर्चकैरिवाक्षालिताम्, वर्णसुधाच्छटाभिरिवोच्छुरिताम्, अमृतफेनपिण्डैरिव पाण्डुरीकृताम्, पारदरसधाराभिरिव धौताम्, रजतद्रवेणेव निदृष्टाम्, चन्द्रमण्डलादिवोत्कीर्णाम्, कुटजकुन्दसिन्दुवारकुसुमच्छविभिरिवोल्लासिताम्, इयत्तामिव धवलिम्नः, स्कन्धावलम्बिनीभिरुंदयतटगतादर्कबिम्बादुद्धृत्य बालरश्मिप्रभाभिरिव निर्मिताभिरुन्मिषत्तडित्तरलतेजस्ताम्राभिरचिरस्नानावस्थित - *********** शेषेति । शेषो नागराजस्तस्य यच्छरीरं तस्य छाया कान्तिस्तामिव । अत्र कथं तस्या आगम इत्याकाङ्क्षायामाह - रसेति । रसातलं भूतलमपहाय त्यक्त्वा निर्गता बहिरागताम् । मुसलेति । मुसलायुधो बलभद्रस्तस्य या देहप्रभा शरीरद्युतिस्तामिव । तस्या अत्रासंभवमाशङ्क्याह - मध्विति । मधुमदेन कादम्बरीमदेन यद्विघूर्णनं देहभ्रमस्तस्माद्य आयासः खेदस्तेन विगलितां च्युताम् । शुक्लेति । शुक्लपक्षस्तस्य परंपरा संततिस्तामिव । तस्या एकत्रावस्थितेरभावादाह - पुजीति । पुजीकृतामेकत्रीकृताम् । सर्वेति । धवलतया धेततया सर्वहंसैः समग्रसितच्छदैः कृतो विहितः संविभागः स्वश्चैत्यार्पणं यस्याः सा तामिव । धर्मेति । धर्मो वृषस्तस्य हृदयाद्वक्षसो विनिर्गतामिव । शङ्ख इति । शङ्खाज्जलजादुत्कीर्णामिवोत्कीर्य निर्मितामिव । मुक्तेति । मुक्ताफलाद्रसोद्भवादाकृष्टामिवाकर्षितामिव । मृणालेति । मृणालैस्तन्तुलैर्विरचिता विहिता अवयवा अपघना यस्याः सा तामिव । दन्तेति । दन्ता हस्तिमुखरदनास्तेषां दलैः खण्डैर्घटितामिव निर्मितामिव । इन्दुरिति । इन्दुश्चन्द्रस्तस्य करा अंशवस्त एव कूर्चकाः कुञ्चिकास्तैराक्षालिनामिव धौतामिव । वर्णेति । वर्णा शुक्ला । 'वर्णः स्वर्णे मखे सुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे' इत्यनेकार्थः । एतादृशी या सुधा गृहधवलीकरणद्रव्यं तस्याश्छटाभिः पृषद्भिराच्छुरितामिवाच्छोटितामिव । अमृत इति । अमृतस्य पीयूषस्य ये फेनाः पिण्डाः डिण्डीरसमूहास्तैः पाण्डुरीकृतामिव शुक्लीकृतामिव । पारदेति । पारदो रसेन्द्रस्तस्य रसो द्रवस्तस्य धाराः पङ्क्तयस्ताभिौतामिव क्षालितामिव । रजेति । रजतं रौप्यं तद्वेण तद्रसेन निदृष्टामिव निघर्षितामिव । चन्द्र इति । चन्द्रमण्डलं शशिबिम्ब तस्मादुत्कीर्णामिवोत्कीर्य कर्षितामिव । कुटजेति । कुटजो गिरिमल्लिका, कुन्दः प्रसिद्धः, सिन्दुवारो निर्गुण्डी, एतेषां कुसुमानि तेषां छवयः कान्तयस्ताभिरुल्लासितामिव प्रगुणीकृतशोभामिव । धवलिम्नेति । धवलिम्नः श्चेतिम्न इयत्तामिवैतावत्त्वमिव । परमावधिमिवेत्यर्थः । अत्र सर्वत्र धेतत्वसाम्यादुपमानोपमेयभावः । न तु व्यर्थता । पुनः प्रकारान्तरेण विशेषयन्नाह - जटाभिरिति । जटा सटास्ताभिरुद्भासित उत्पाबल्येन शोभितः शिरोभाग उत्तमाङ्गप्रदेशो यस्याः सा ताम् । अथ जटा विशेषयन्नाह - स्कन्धेति । स्कन्धो भुजान्तरं तत्रावलम्बिनीभिरवलम्बितुं शीलं यासां ताभिः । तासामारक्तत्वं वर्णयन्नाह - उदयेति । उदय उदयाचलस्तस्य तटं प्रस्थं तत्र गतात्याप्तादर्कबिम्बात्सूर्यमण्डलादुद्धृत्य निष्कास्य बालरश्मिर्बालातपस्तस्य प्रभाभिः कान्तिभिर्निर्मिताभिरिवोत्पादिताभिरिव । उन्मिषदिति । उन्मिषन्ती स्फुरन्ती या तडिद्विद्युत्तस्या यत्तरलं चञ्चलं तेजस्तद्वत्ताम्राभिः श्वेतरक्ताभिः । अचिरेति । अचिरं यत्स्नानमाप्लवस्ते - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पर्यन्ततो भ्रमणम्, 'घुर घूर्ण भ्रमणे' इति धातुपाठात् । 2 वर्णकारिणी सुधा वर्णसुधा (शुक्लवर्णकारिणी सुधा 'कली' इति ख्याता) इति स्पष्टोऽर्थः । पाठा० - १ निर्गताम्; उद्गताम्. २ प्रक्षालिताम्. ३ छुरिताम्. ४ सिन्धुवार. ५ उदयिताभ्र. ६ गतार्क. ७ तडित्तन्तुतरल. (280 कादम्बरी। कथायाम
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy