SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ विरलवारिकणतया प्रणामलग्नपशुपतिचरणभस्मचूर्णाभिरिव जटाभिरुद्भासितशिरोभागाम्, जटापाशग्रथितमुत्तमाङ्गेन मणिमयं नामाङ्कमीश्वरचरणद्वयमुद्वहन्तीम्, रविरथतुरङ्गखुरक्षुण्णनक्षत्रक्षोदविशदेन भस्मना कृतललाटपट्टिकाम्, शिखरशिलाश्लिष्टशशाङ्ककलामिव शैलराजमेखलाम्, अतुलभक्तिप्रसाधितया लक्ष्यीकृतलिङ्गयापरयेव पुण्डरीकमालया दृष्ट्या संभावयन्ती भूतनाथम्, अनवरतगीतपरिस्फुरिताधरपुटवशादतिशुचिभिः शुद्धहृदयमयूखैरिव गीतगुणैरिव स्वरैरिव स्तुतिवणैरिव मूर्तिमद्भिर्मुखानिष्पतद्भिर्दशनांशुभिः पुनरपि स्नपयन्तीं गौरीनाथम्, अतिविमलैश्च वेदाथैरिव साक्षात्पितामहमुखादाकृष्टैर्गायत्रीवर्गरिव ग्रंथनस्फीततामुपगतैर्नारायणनाभिपुण्डरीकबीजैरिवोद्धृतैः सप्तर्षिभिरिव करस्पर्शपूतमात्मान - *********** नावस्थिता अभ्यन्तरे लग्ना ये विरलाः स्तोका वारिकणा जलविद्युषस्तेषां भावस्तत्ता तया । वारिकणानां श्वेतत्वादाह - प्रणामेति । प्रणामो नमस्कारस्तत्र लग्नं पशुपतेरीश्वरस्य चरणभस्म पादविभूतिक्षोदो यास्वेवंभूताभिरिव । जटापाशे जटाजूटे ग्रथितं गुम्फितम् । मणीति । भक्तिविशेषप्रकटनार्थं मणिनिर्मितं रत्नघटितं नाम्नो मूलबीजस्याङ्कश्चिह्न यस्मिन्नेवंभूतमीश्वरचरणद्वयं शंभुपादयुगलमुत्तमाङ्गेन शिरसोद्वहन्तीं धारयन्तीम् । रविरिति । रविरथस्य सूर्यस्यन्दनस्य ये तुरङ्गा अश्वास्तेषां खुराः शफास्तैः क्षुण्णानि चूर्णितानि यानि नक्षत्राणि भानि तेषां क्षोदचूर्णं तद्वद्विशदेन निर्मलेन भस्मना विभूत्या कृता विहिता ललाटपट्टिका पुण्ड्रविशेषो यया सा ताम् । ललाटस्य दृढत्वेन शिलारूपत्वाल्ललाटपट्टिकायाश्च त्रिपुण्ड्ररूपत्वेनार्धचन्द्राकारत्वादाह - शिखरेति । शिखरशिलायां सानुशिलायां श्लिष्टा लग्ना शशाङ्ककला यस्यामेवंभूतां शैलराजमेखलामिव हिमाचलमध्यभागमिव । किं कुर्वतीम् । संभावयन्ती संभावनाविषयीकुर्वतीम् । कम् । भूतनाथ महादेवम् । कया । दृष्ट्या । श्वेतत्वसाम्यादाह - अपरया भिन्नया पुण्डरीकमालयेव सिताम्भोजपङ्क्त्येव । अथदृष्टिं विशेषयन्नाह - अतुलेति । अतुला निरुपमा या भक्तिराराध्यत्वेन ज्ञानं तया प्रसाधितया प्रसन्नया । लक्ष्यीति । लक्ष्यीकृतं ध्यानावलम्बनीकृत लिङ्ग स्थावरं यया सा तया । पुनस्तामेव विशेषयन्नाह - अनवेति । अनवरतं निरन्तरं यद्गीतं गानं तेन परिस्फुरितः प्रचलितो योऽधरपुट ओष्ठपुटस्तद्वशान्मुखादास्यानिष्पतद्भिः क्षरद्भिर्दशनांशुभिर्दन्तदीप्तिभिः । पुनरपि पूजाप्रारम्भे स्नपितत्वाद् द्वितीयवारमपि गौरीनाथ महादेव स्नपयन्ती स्नपनं कुर्वतीम् । अथ दशनाशन्विशिनष्टि - अतीति । अतिशयेन सर्वाधिक्येन शचिभिः पवित्रैः । अतिनैर्मल्यादाह . शुद्धेति । शुद्धं निर्मलं यहृदयं चेतस्तस्य मयूखाः किरणास्तैरिव । गीतेति । गीतानां गुणा मधुरत्वादयस्तैरिव । स्वरेति । स्वराः षड्जादयस्तैरिव । स्तुतीति । स्तुतिर्नुतिस्तस्या वर्णैरिवाक्षरैरिव । वर्णानां तावत्कालं स्थातुमशक्यत्वात्तदभावादाह - मूर्तिरिति । पुनस्ता विशेषयितुमक्षवलयगतमुक्ताफलान्यादौ विशेषयन्नाह - अतीति । अतिविमलैरतिनिर्मलैर्वेदा ऋक्प्रभृतयस्तेषाम!रिवाभिधेयैरिव । तस्या तदसंभवमाशङ्क्याह - साक्षादिति । पितामहमुखात्प्रजापतिवदनात्साक्षादव्यवधानादाकृष्टैरिवाकर्षितैरिव । गायत्रीति । गायत्री मन्त्रविशेषस्तस्या वगैरक्षरैरिव । वर्णानाममूर्तत्वात्तदसंभवादाह - ग्रथनेति । ग्रथनेन रचनाविशेषण स्फीततां पुष्टतामुपगतैः प्राप्तैः । अतिश्चेतत्वसाम्यादाह - नारा इति । नारायणस्य जनार्दनस्य नाभिपुण्डरीकं नाभिकमलं तस्य बीजैरिवोत्पत्तिनिदानैरिव उद्धृतैः । सप्तर्षीति । करस्पर्शेन हस्तसंश्लेषेण पतं पवित्रमात्मानमिच्छद्भिर्वाञ्छद्भिस्तारकारूपेण नक्षत्रस्वरूपेणाग - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 न किल चन्दनचर्चा ललाटपट्टिका इति प्रसिद्धा । अतः केषाञ्चन मते 'भस्मनालंकृतललाटपट्टिकाम्' इत्यपि पाठः । भस्मना अलंकृतो ललाटपट्टो भालस्थलं यस्याः तामिति तदर्थः । 2 सभक्तिदर्शनेन आद्रियमाणाम् । 3 अलंकृतरूपेण सज्जितया । 4 'कमलगट्टा' इति भाषाख्यातैः । - - - - - - - - - - पाठा० - १ तुरग. २ खुरमुख. ३ अलंकृतं. ४ लक्ष्मीकृत. ५ द्वितीययेव. ६ गीतस्फुरित. ७ गुणैरिव; स्तुतिवणैरिव. ८ गौरीपतिम्. ९ विमलैः. १० ग्रथनताम्; ग्रथनाम्; ग्रथिताम्; ग्रन्थिताम्. ११ करतल. महाश्वेता पूर्वभागः । 281)
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy