________________
मिच्छद्भिस्तारकारूपेणागतैरामलकीफलस्थूलैर्मुक्ताफलैरुपरचितेनाक्षवलयेनाधिष्ठितकण्ठभागाम्, परिवेषपरिगतचन्द्रमण्डलामिव पौर्णमासीनिशाम्, अधोमुखहरशिरःकपालमण्डलाकारेण मोक्षद्वारनियुक्तकलशकान्तिना स्तनयुगलेनैकहंसमिथुनसनाथामिव गङ्गाम्, गौरीसिंहसटामयेनेव चामररुचिराकृतिना स्तनयुगलमध्यनिबद्धग्रन्थिना कल्पतरुलतावल्कलेन कृतोत्तरीयकृत्याम्, अयुग्मलोचनसकाशात्प्रसादलब्धेन चूडामणिचन्द्रमयूखजालेनेव मण्डलीकृतेन ब्रह्मसूत्रेण पवित्रीकृतकायाम्, आप्रपदीनेन च स्वभावसितेनापि ब्रह्मासनबन्धोत्तानचरणतलप्रभापरिष्वङ्गाल्लोहितायमानेन दुकूलपटेन प्रावृतनितम्बाम्, यौवनेनापि -
***********
तैः प्राप्तैः सप्तर्षिभिरिव । एतेन मुक्ताफलानां नक्षत्रसाम्यम् । परिमाणविशेषं प्रदर्शयन्नाह - आमेति । आमलकी शिवा तस्याः फलानि तद्वत्स्थूलैः स्थविष्ठेरेवंविधैर्मुक्ताफलै रसोद्भवैरुपरचितेन निर्मितेनाक्षवलयेन जपमालिकयाधिष्ठित आश्रितः कण्ठभागो निगरणप्रदेशो यस्याः सा ताम् । परीति । परिवेषः परिधिस्तेन परिगतं सहितं चन्द्रमण्डलं शशिबिम्बं यस्यामेतादृशीं पौर्णमासीनिशामिव राकारात्रिमिव । मण्डलाकारत्वेनात्र वलयस्य परिवेषसाम्यम्, तस्या मुखस्य च चन्द्रसाम्यम्, तस्याश्च पौर्णमासीसाम्यम् । अथपुनस्तत्कुचयुगलं तच्छ्यामत्वपीनत्ववर्णनद्वारा तामेव वर्णयन्नाह - अध इति । ऊर्ध्वमुखे कपाले श्यामता नास्तीत्यतोऽधोमुखं यद्धरशिरःकपालं तद्वन्मण्डलाकारेण वर्तुलाकृतिना । हरपददानेन स्तने धवलत्वं द्योत्यते । ईश्वरस्य धवलत्वात् । मोक्ष इति । मोक्षो महानन्दस्तस्य द्वारे नियुक्तौ स्थापितौ यौ कलशौ निपौ तद्वत्कान्तिः शोभा यस्य स तेन । एवंविधेन स्तनयुगलेनोपलक्षिताम् । कामिव । एक यद्धंसमिथुन चक्राङ्गयुग्मं तेन सनाथां सहितां गङ्गामिव जाह्नवीमिव । पुनः किंविशिष्टाम् । कल्पतरवो मन्दारास्तेषां सरलत्वेन लतोपमानं, तस्या वल्कलेन चोचेन कृतमृत्तरीयमुपसव्यानं तस्य कृत्यं कार्यं यस्याः सा ताम् । अथ वल्कलं विशेषयन्नाह-चामरेति । चामरं वालव्यजनं तद्रुचिरा मनोहराकृतिराकारो यस्य स तेन । प्रलम्बत्वेन श्वेतत्वेन च तत्साम्यमिति भावः । स्तनेति । स्तनयुगलस्य मध्ये निबद्धो ग्रन्थियः स तेन । उज्ज्वलत्वसाम्यादुप्रेक्षते - गौरीति । गौरी पार्वती तस्याः सिंहो मनस्तालस्तस्य या सटा जटा तन्मयेनेव तद्विकारेणेव । पुनः किंविशिष्टाम् । मण्डलीकृतेन वर्तुलीकृतेन ब्रह्मसूत्रेण यज्ञोपवीतेन पवित्रीकृतः पावनीकृतः कायो देहो यस्याः सा ताम् । अथ ब्रह्मसूत्रं विशिनष्टि - अयुग्मेति । अयुग्मलोचन ईश्वरस्तस्य सकाशात्समीपात्प्रसादः प्रसन्नता तेन लब्धेन प्राप्तेन । चूडेति । चूडामणीभूतो यश्चन्द्रस्तस्य मयूखाः किरणास्तेषां जालेनेव समूहेनेव । प्रकारान्तरेण तामेव विशेषयन्नाह - दुकूलेति । दुकूलपटेन क्षौमवस्त्रेण प्रावृतावाच्छादितौ नितम्बावारोही यस्याः सा ताम् । अथ दुकूलपटं विशेषयन्नाह - आप्रपदीनेति । आपदव्यापकेन । 'तत्तु स्यादाप्रपदीनं व्याप्नोत्याप्रपद हि यत्' इति कोशः । तेन स्वभावतः प्रकृत्या सितेनापि शुभ्रेणापि ब्रह्मासनं ध्यानासनं तस्य बन्धो रचनाविशेषस्तेनोत्तानमूर्ध्वमुखं यच्चरणयोः पादयोस्तलं तस्य प्रभा कान्तिस्तस्याः परिष्वङ्गात्संश्लेषाल्लोहितायमानेनारुणायमानेन । एतेन चरणतलयोरारुण्यातिशयो व्यजितः । पुनः कीदृशीम् । यौवनेनापि तारुण्येनाप्युपास्यमानां सेव्यमानाम् । केनेव । - - - - - - - टिप्प० - 1 हरशिरसि यत् कपालम् (नरकपालम्) तत्तु स्वभावतः श्वेतमेव भवति । 2 यस्येत्युचितम् । 3 'स्यात् त्रिष्वाप्रपदीनं तत्' इत्यमरकोशपाटः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ पौर्णमासीम्. २ मोक्षद्वारकलशं; मोक्षपुरद्वारकलश. ३ एकगतहंस. ४ श्वेतगङ्गाम्. ५ चीराकृतिना. ६ पवित्रतरीकृत. ७ यौवनेनादिष्टेनोपसर्पिणा.
(282
कादम्बरी।
कथायाम्