________________
स्वकालोपसर्पिणा निर्विकारेण विनीतेन शिष्येणेवोपास्यमानाम्, लावण्येनापि कृतपुण्येनेव स्वच्छात्मना परिगृहीताम्, रुपेणापि रुचिरलोचनेन विगतचापलेनायतनमृगेणेव सेविताम्, उत्सङ्गगतां च स्वसुतामिव सूक्ष्मदन्तखण्डिकाङ्गुलीयकापूरिताङ्गुलिना त्रिपुण्ड्रकावशिष्टभस्मपाण्डुरेण प्रकोष्ठबद्धशङ्खखण्डकेन नखमयूखदन्तुरतया गृहीतदन्तकोणेनेव दन्तमयीं दक्षिणकरेण वीणामास्फालयन्तीम्, प्रत्यक्षामिव गन्धर्वविद्याम्, मणिमण्डपिकास्तम्भलग्नाभिरात्मानुरुपाभिः सहचरीभिरिव संवीणाभिर्विलासवतीभिः प्रतिमाभिरुपेताम्, स्नपनालिङ्गसंक्रान्तप्रतिबिम्बतयातिप्रबलभक्त्याराधितस्य हृदयमिव प्रविष्टां हरस्य, हारलतयेव प्राप्तकण्ठयो -
***********
स्वकालोपसर्पिणा निजसमयप्राप्तेन निर्विकारेण विकृतिवर्जितेन विनीतेन प्रसूतेनैवंभूतेन शिष्येणेव विनेयेनेव । यौवनस्यापि स्वकालोपसपित्वादिगुणविशिष्टत्वेन तत्साम्यमिति भावः । लावण्येति । लावण्यं चातुर्यं तेन परिगृहीता स्वीकृताम् । केनेव । स्वच्छात्मना निर्मलचित्तेन कृतपुण्येनेव सुकृतिनेव । अत्र स्वच्छात्मत्वमेवोभयसाम्यम् । रुपेति । रुपं सौन्दर्यं तेनापि सेवितामाश्रिताम् । केनेव । रुचिरलोचनेन मनोहरनेत्रेण विगतं चापलं यस्मादेवंभूतेनायतनमृगेणेव गृहसारङ्गेणेव । अत्र चारुलोचनत्वं विगतचापलत्वं चोभयोः साम्यम् । पुनः किं कुर्वतीम् । दक्षिणकरेणापसव्यपाणिना दन्तमयीं गजदन्तप्रचुरां वीणां वल्लकीमास्फालयन्ती वादयन्तीम् अथ वीणां विशिनष्टि - उत्सङ्गेति । उत्सङ्गगतां क्रोडप्राप्तां स्वसुतामिव निजात्मजामिव । अथ दक्षिणकरं विशेषयन्नाह - सूक्ष्मेति । सूक्ष्मा स्निग्धा या दन्तखण्डिक नागदन्तशकलं तस्य यान्यङ्गुलीयकान्यङ्गुलीभूषणानि तैरापूरिता आकीर्णा व्याप्ता अङ्गुलयो यस्य स तेन । त्रिपुण्ड्रमिति । त्रिपुण्ड्रकात्तिलकविशेषादवशिष्टमुर्वरितं यद्भस्म तेन पाण्डुरेण श्वेतेन । प्रकोष्ठेति । प्रकोष्ठः कलाचिका तत्र बद्धो यः शङ्खस्तस्य खण्ड एव खण्डकः । स्वार्थे कः । जलजशकलं यस्मिन्स तेन । श्वेतत्वसाम्यादाह - नखेति । नखाः पुनर्भवास्तेषां मयूखाः किरणास्ते दन्तुरा उन्नता यस्मिंस्तस्य भावस्तत्ता तया गृहीत आत्तो दन्तस्य कोणो वीणादिवादनं येन स तेनव । 'कोणो वीणादिवादनम्' इति कोशः । प्रत्यक्षेति । प्रत्यक्षामिन्द्रियगोचरां गन्धर्वविद्यामिव देवगायनविद्यामिव । मणिमण्डपिकानां स्वच्छतया तेषु प्रतिबिम्बवशादाह - मणीति । मणिमण्डपिका रत्ननिर्मिता चतुष्किका तस्याः स्तम्भलग्नाभिरात्मानुरुपाभिरात्मसदृशीभिः । 'यादृशं रुपे तादृशं प्रतिबिम्बे' इत्युक्तेः । सवीणाभिः सवल्लकीभिः प्रतिमाभिरात्मच्छायाभिः सहचरीभिरिव सपकारिणीभिरिवोपेतां सहिताम् । स्नपनेति । स्नपनेन प्रक्षालनेन । एतेनागन्तुकमलनिवृत्तिः सूचिता । तेनार्दै यल्लिङ्गं तत्र संक्रान्तं प्रविष्टं यत्प्रतिबिम्ब तस्य भावस्तत्ता तया । अतीति । अतिप्रबलात्युत्कृष्टा या भक्तिराराध्यत्वेन ज्ञानं तयाराधितस्य सेवितस्य हरस्येश्वरस्य हृदयमिव चित्तमिव प्रविष्टां प्रवेशं कृतवतीम् । पुनः किं कुर्वतीम् । विरुपाक्षं देवं गीत्या गानेनोपवीणयन्तीं स्तुवन्तीम् । अथ गीतिं विशेषयन्नाह - हार इति । प्राप्तः कण्ठयोगो निगरणसंबन्धो रागाणामवस्थाविशेषो गीतशास्त्रप्र -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 शिक्षाजनितविनम्रतावाहिना । 2 सूक्ष्माः (अस्थूलाः) दन्तखण्डकाङ्गुलीयकापूरिताः (हस्तिदन्तखण्डनिर्मितानि यान्यङ्गुलीयकानि तैरापूरिताः) अङ्गुलयो यस्य तेनेति स्पष्टोऽर्थः । 3 नखमयूखानां दन्तुरतया उन्नततया (अर्थात् प्रसारिनखमयूखतया)। 4 स्तम्भेषु प्रतिबिम्बताभिरित्यर्थः ।
पाठा०-१ स्वकालोपसर्पिनिर्विकारविनीतेन; स्वकालोपसर्पिणा निर्विकारविनीतेन. २ निषेविताम्. ३ शङ्खखण्डिका; शङ्खघटित. ४ पूरित; पूत. ५ अवशेष ६ कोशेनेव. ७ सवीणाभिः प्रतिमाभिः. ८ हारलेखया.
महाश्वेता
पूर्वभागः ।
(283)