________________
गया ग्रहपङ्क्त्येव ध्रुवप्रतिबद्धया क्रुद्धयेव रागरक्तमुखवर्णया मत्तयेव धूर्णितमैन्द्रतारयोन्मत्तयेवानेककृततालया मीमांसयेवानेकभावनानुविद्धया गीत्या देवं विरुपाक्षर्मुपवीणयन्तीम्, अतिमधुरगीतावकृष्टैर्ध्यानमिवाभ्यस्यद्भिर्निश्चलकर्णपुटैर्मृगवराहवानरवारणशरभसिंहप्रभृतिभिर्वनचरैराबद्धमण्डलैराकर्ण्यमानगीतानुविद्धविपञ्चीनिर्घोषाम्, नभसोऽवतीर्णाम्, दीक्षितवाचमिवाप्राकृताम्, त्रिपुरारिशरशलाकामिव तपोमयीम्, पीतामृतामिव वि -
अमरापगामिव
सिद्धश्च यया सा तया । कयेव । हारलतयेव मुक्तासजेव । ग्रहेति । ग्रहाणां नक्षत्राणां पङ्क्तिः श्रेणिस्तयेव । उभयोः साम्यमाह - ध्रुवे । ध्रुव गीतशास्त्रे प्रसिद्धस्तेन प्रतिबद्धया रचितया । पक्षे ध्रुव औत्तानपादिः । क्रुद्धयेव कुपितयेव । उभयोः साम्यार्थमाह - रागरक्तेति । रागाः श्रीरागादयस्तै रक्ता मिश्रिता मुखे प्रारम्भे वर्णा अक्षराणि यस्यां सा तया । पक्षे रक्तो लोहितो मुख आस्ये वर्णो यस्याः सा तया । मत्तयेव क्षीबयेव । एतयोस्तुल्यतां प्रदर्शयन्नाह - धूर्णितेति । धूर्णिता धोलनां प्राप्ता मन्द्रा उरः प्रदेशोद्भवास्ताराः शिरःसमुद्भवाः खरा यस्यां सा तया । पक्षे धूर्णिताः प्रचलायिता मन्द्रा अलसास्तारा यस्यामिति विग्रहः । उन्मत्तेति । उन्मत्तयेवोन्मादवायुग्रस्तयेव । उभयोः शब्दसादृश्यमाह - अनेकेति । अनेके बहवः कृता विहितास्तालाः कालक्रियामानरूपा यस्यां सा तया । पक्षे ताला हस्तसंयोगाः । मीमांसेति । मीमांसा विचारणा तयेव । 'मीमांसा तु विचारणा' इति कोशः । उभयोः सादृश्यमाह - अनेके विविधप्रकारा या भावनी धोलनाविशेषास्तैरनुविद्धया स्यूतया । पक्षे भावना शब्दनिष्ठा, अर्थनिष्ठा यागादिप्रवृत्त्यनुकूलाख्यातार्थरुपा । पुनः प्रकारान्तरेण तामेव विशेषयन्नाह - आकर्ष्णेति । आकर्ण्यमानः श्रूयमाणो गीतानुविद्धो गानसंयुक्तो विपञ्च्या वल्लक्या निर्घोष निनादो यस्याः सा ताम् । कैः । वनचरैररण्यचारिभिः । अथ वनचरान्विशेषयन्नाह - आबद्धेति । आबद्धं रचितं मण्डलं वलयाकारेणावस्थितिर्यैः । अतीति । अतिमधुरं कर्णसुखदं यद्गीतं गानं तेनावकृष्टैराकृष्टैः । निश्चलेति । निश्चलानि स्तिमितानि कर्णपुटानि येषां तैरत एव ध्यानं चित्तवृतिनिरोधमभ्यस्यद्भिरिवाभ्यासं कुर्वद्भिरिव । मृगेति । मृगाः कुरङ्गाः, वराहाः, क्रोडाः, वानरा गोलाङ्गूलाः, वारणा हस्तिनः, शरभा अष्टपदाः, सिंहा हर्यक्षाः, एते प्रभृतय आद्या येषां तैः । तदाश्रितगीतस्य प्रवाहरूपत्वेनाह - अमरेति । अमरापगा गङ्गा तामिव । अत्र कथं तस्याः संभव इत्याशङ्क्याह - नभस इति । नभस आकाशादवतीर्णामागताम् । दीक्षितः सोमयाजी तस्य वाग् भारती तामिव । उभयोः साम्यमाह अप्राकृतेति । अप्राकृताममानुषधर्मिणीम्, उत्तमकुलोत्पन्नां वा । पक्षेऽप्राकृतां साधुशब्दमयीम् । दीक्षितस्य प्राकृतवाग्निषेधादिति भावः । कान्त्याधिक्यमाशङ्क्याह - त्रिपुरारीति । त्रिपुरारिर्महादेवस्तस्य शरः शिलीमुखस्तस्य शलाकेषिका तामिव । उभयोस्तुल्यतामाह - तप इति । तपोमयीं तपसस्तेजोरूपत्वात् । पक्षे तेजोमयीं प्रकाशरुपाम् । ईश्वरबाणस्य लोहमयत्वादिति भावः । आन्तरगुणवर्णनद्वारा तामेव विशेषयन्नाह - पीतेति । पीतमास्वादितममृतं पीयूष यया सैवंभूतामिव । एतयोः साम्यमाविष्कुर्व -
1
-
284
***
टिप्प० - 1 ‘उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चमः स्मृतः । कनिष्ठश्च चतुर्भिः स्याद् ध्रुवकोयं मयोदितः ॥' संगीतदामोदरम् । 2 मण्डपिकायां परितो विसृताः । 3 धूर्णिते मदोद्रेकाञ्चले मन्दे अलसे तारे ( कनीनिके) यस्यास्ताम् । इत्यर्थ उचितः । 4 मूर्च्छनाः । 5 'भावना नाम भवितुर्भवनानुकूलो भावयितुर्व्यापारविशेषः सा च द्विविधा ।' लौगाक्षिभास्करः । 6 'कन्यकायाः चैत्यनिर्मलत्वाभ्यामुत्प्रेक्षामाह-' इत्युचितम् । 7 नारायणरूपेति यावत् ।
पाठा० - १ रक्तमुख. २ पूर्णित ३ मन्द ४ उन्मत्तयानेक. ५ उपवर्णयन्तीम्. ६ घोषाम् ७ तेजोमयीम्.
कादम्बरी !
कथायाम्