________________
गततृष्णाम्, ईशानशिरःशशिकलामिवानुपजातरागाम्, अमथितोदधिजलसंपदमिवान्तः प्रसन्नाम्, असमस्तपदवृत्तिमिवाद्वंद्वाम्, बौद्धबुद्धिमिव निरालम्बनाम्, वैदेहीमिव प्राप्तज्योतिः प्रवेशाम्, द्यूतकलाकुशलामिव वशीकृताक्षहृदयाम्, महीमिव जलभृतदेहाम्, हिमसमयदिनंमुखलक्ष्मीमिव पैरिगृहीतभास्करातपाम्, आर्यामिवोपात्तयतिगणोचितमात्राम्, आलिखितामिवाचलावस्थानाम्, अंशुमयीमिव तनुच्छायानुलिप्तभूतलाम्, निर्ममाम्, निरहंका -
***
I
न्नाह - विगतेति । विगता तृष्णा लोभो यस्याः सा ताम् । पक्षे तृष्णा तृषा । ईशानेति । ईशान ईश्वरः । 'शंभुः शर्वः स्थाणुरी शान ईशः' इत्यभिधानचिन्तामणिः । तस्य शिर उत्तमाङ्गं तत्र या शशिकला चन्द्रकला तामिव । उभयोः सादृश्यमाह - अन्विति । अनुपजातोऽसमुत्पन्नो रागो. यस्याः सा ताम् । विरक्तामित्यर्थः । पक्षे राग औरक्तता । आरक्तामित्यर्थः । अमथीति । अमथितोऽविलोडितो य उदधिः समुद्रस्तस्य जलं पानीयं तस्य संपत्संपत्तिस्तामिव । उभयोः सदृशत्वमाह - अन्तरिति । अन्तर्मध्ये प्रसन्नां हृष्टचित्ताम् पक्षेऽन्तःप्रसन्नामकलुषिताम् । असमस्तेति । असमस्ताऽसमासगा या पदवृत्तिः कैशिक्यादिस्तामिव । ' कैशिक्याद्याः पदवृत्तयः ' इत्यलंकारे प्रसिद्धम् । उभयोः साधर्म्यमाह - अद्वंद्वेति । द्वंद्वो युद्धं तद्रहिताम् । 'द्वंद्वः समाघातः' इति कोशः । पक्षे द्वंद्वः समासः । बौद्ध इति । बौद्धः सुगतस्तस्य बुद्धिर्धिषणा तामिव । एतयोस्तुल्यतामाह - निरेति । आलम्बनमाश्रयस्तद्रहिताम् । स्वतन्त्रामित्यर्थः । पक्षे निरालम्बनामर्थशून्याम् । तन्मतेऽर्थानां घटपटादीनामभावात् । शून्यवादित्वादित्यर्थः । वैदेहीति । वैदेही जानकी । 'वैदेही मैथिली सीता' इत्यभिधानचिन्तामणिः । तामिव । उभयोस्तुल्यत्वं निरूपयन्नाह - प्राप्तेति । प्राप्त आसादितो ज्योतिषि परमात्मनि प्रवेशो यस्याः `ंसा ताम् । पक्षे प्राप्तो ज्योतिषि वह्नौ प्रवेशो ययेति बहुव्रीहिः । द्यूतेति । द्यूतं दुरोदरं तस्य कला विज्ञानं तत्र कुशला प्रवीणा तामिव । उभयोः समानतां प्रदर्शयन्नाह - वशीति । वशीकृतान्यक्षाणीन्द्रियाणि हृदयं चित्तं च यया सा ताम् । पक्षे वशीकृतमक्षैः पाशकैर्हृदयं यस्या इति बहुव्रीहिः । महीति । मही वसुंधरा तामिव । उभयोः शब्दसाम्यमाह - जलेति । जलेन नीरेण भृतो धृतो देहो यया सा ताम् । निराहारामित्यर्थः । पक्षे जलेन भृताः पोषिता देहा यस्याम् । तदुक्तम् 'वृष्टेरोषधयः । ओषधीभ्योऽन्नम् । तद्रसरूपेण शुक्रत्वमधिगच्छति । शुकाद्वै जरायुजा देहाः' इति । हिमेति । हिमसमयः शीतकालस्तस्य दिनमुखं प्रत्यूषस्तस्य लक्ष्मीः श्रीस्तामिव । उभयोः साम्यं प्रदर्शयन्नाह - परीति । परि सामस्त्येन गृहीतो भास्करस्य सूर्यस्यातप आलोको यया सा ताम् । 'तपस्विनां सूर्यातपग्रहणं महाफलाय' इति श्रुतेः । पक्षे परिगृहीतो मुषितो भास्करस्यातपः कान्तिप्रकाशो ययेति बहुव्रीहिः । आर्येति । आर्या छन्दोविशेषस्तामिव । उभयोः साधर्म्यमाह - उपात्तेति । उपात्ता स्वीकृता यतिगणानां मुनिजनानां उचिता योग्या मात्रोपव (क) रणं ययेति सा । क्ष उपात्ता यतयो विश्रामा गणा मगणादयस्तेषामुचिता मात्रा त्रुटिर्ययेति बहुव्रीहिः । आलिखितेति । आलिखिता चित्रिता तामिव । अत एवाचलं निश्चलमवस्थानं यस्याः सा ताम् । अंशुमयीति । अंशुमयीं तेजोमयीमिव । तन्विति । तनुच्छाया देहकान्तिस्तयानुलिप्तं व्याप्तं भूतलं यया सा ताम् । अन्याप्यंशुमयींभवति । सापि कान्त्याच्छादितभूतला स्यादित्येतयोः साम्यम् । निर्ममामिति । निर्गतो ममत्वभावो यस्याः सा ताम् । निरिति । निर्गतोऽहंकारोऽभिमानो यस्यां सा ताम् । निरिति । निर्गतो मत्सरो गुणेष्वसूया -
महाश्वेता
****
टिप्प० - 1 शिरः शशिकलाया उदयास्तमनयोरभावादारुण्यं न जायत इत्याशयः । 2 विलोडने सति तस्मिन्नाविलता जायते । 3 शीतोष्ण-सुख - दुःखादिद्वन्द्वानुभवरहितामित्यर्थः । 4 आसक्तिस्तद्रहिताम् । बौद्धबुद्धिस्तु - निर्विषया । तेषां मते ज्ञानमेव घटादिरूपेण भासते । भेदस्तु भ्रान्तिवशादिति ।
पाठा० - १ उदधिसंपदम् २ दिवस. ३ परिपीत ४ समुपात्त. ५ निर्मलां; निर्ममाम्.
पूर्वभागः ।
-
285