________________
राम्, निर्मत्सराम्, अमानुषाकृतिम्, दिव्यत्वादपरिज्ञायमानवयःपरिमाणामप्यष्टादशवर्षदेशीयामिवोपलक्ष्यमाणाम्, प्रतिपन्नपाशुपतव्रता कन्यकां ददर्श ।
ततोऽवतीर्य तरुशाखायां बद्ध्वा तुरङ्गममुपसृत्य भगवते भक्त्या प्रणम्य त्रिलोचनाय तामेव दिव्ययोषितमनिमिषपक्ष्मणा निश्चलनिबद्धलक्ष्येण चक्षुषा पुनर्निरूपयामास । उदपादि चास्य रूपसंपदा कान्त्या प्रशान्त्या चाविर्भूतविस्मयस्य मनसि- “अहो जगति जन्तूनामसमर्थितोपनतान्यापतन्ति वृत्तान्तान्तराणि । तथाहि । मया मृगयाया यदृच्छया निरर्थकमनुबध्नता तुरङ्गमुखमिथुनमयमतिमनोहरो मानवानामगम्यो दिव्यजनसंचरणोचितः प्रदेशो वीक्षितः । अत्र च सलिलमन्वेषमाणेन हृदयहारि सिद्धजनोपसृष्टजलं सरो दृष्टम् । तत्तीरलेखाविश्रान्तेन चामानुषं गीतमाकर्णितम् । तच्चानुसरता मानुषदुर्लभदर्शना दिव्यकन्यकेयमालोकिता । न हि मे संशीतिरस्या दिव्यता प्रति । आकृतिरेवानुमापयत्यमानुषताम् । कुतश्च मर्त्यलोके संभूति -
*********** यस्याः सा ताम् । निर्गतेामित्यर्थः । अमेति । न विद्यते मानुषस्य मनुष्यस्याकृतिराकारो यस्याः सा ताम् । दिव्याकारामित्यर्थः । दिव्यत्वादिति । दिव्यत्वाद्गान्धर्वपुत्रीत्वादपरिज्ञायमानमनिश्चीयमान वयोऽवस्थाविशेषस्तस्य परिमाण मानं यस्यामित्थंभूतामप्यष्टादशवर्षदेशीयामिव किंचिन्यूनाष्टादशवर्षीयामिवोपलक्ष्यमाणां दृश्यमानाम् । अन्वयस्तु प्रागेवोक्तः ।
। तत इति । कन्यकादर्शनानन्तरं तुरङ्गमादचादवतीर्यावरोहणं कृत्वा तरुशाखाया तुरङ्गममिन्द्रायुधं बद्ध्वोपसृत्य समीपे गत्वा भक्त्या श्रद्धया भगवते त्रिलोचनाय शंभवे प्रणम्य नमस्कृत्य तामेव पूर्वव्यावर्णितस्वरूपामेव दिव्ययोषितममानुषी स्त्रियम् । अनीति । अनिमिष निमेषोन्मेषरहितं पक्ष्म नेत्ररोम यस्मिंस्तत्तेन । निश्चलेति । निश्चलं यथा स्यात्तथा निबद्धं लक्ष्यं वेध्यं येनैवंभूतेन चक्षुषा नेत्रेण । पुनरिति । मण्डपिकाप्रवेशानन्तरं निरूपयामास । साकल्येन ददर्शेत्यर्थः । चकारः पुनरर्थकः । अस्येति । चन्द्रापीडस्य मनस्येवमुदपायुत्पन्नं बभूव । किंविशिष्टस्य तस्य । आविर्भूतः प्रकटीभूतो विस्मय आश्चर्यं यस्य स तथा तस्य । कया । तस्या रूपसंपदा सौन्दर्यसमृख्या । कान्त्या देहदीप्त्या । प्रशान्त्या प्रशमेन वा । एतदेव विस्मयजनक प्रदर्शयन्नाह - अहो इति । अहो इत्याश्चर्ये । जगति विश्वस्मिन् जन्तूनां प्राणिनामसमर्थितोपनतान्यतर्कितप्राप्तानि वृत्तान्तान्तराण्युदन्तान्तराण्यापतन्त्यागच्छन्ति । तदेव दर्शयति - तथाहीति । मया मृगयायामाखेटकवृत्तौ यदृच्छया स्वेच्छया तुरङ्गमुखमिथुनं किंनरयुग्ममनुबध्नतानुव्रजता । अयं प्रत्यक्षगतोऽतिमनोहरोऽतिरुचिरो मानवाना मनुष्याणामगम्योऽगोचरो दिव्यजनानां विद्याधरप्रभृतीनां संचरणं भ्रमणं तत्रोचितो योग्यः प्रदेशो भूभागो वीक्षितोऽवलोकितः । अत्रेति । अस्मिन्देशे सलिलं पानीयमन्वेषमाणेन शोध्यमानेन सरस्तटाकं दृष्टं वीक्षितम् । एतदेव विशिनष्टि - हृदयेति । हृदयहारि मनोहत्सिद्धजनैरुपसृष्टं सेवितमेतादृशं जलं पानीयं यस्मिन् । तत्पार्थात्तस्य सरसस्तीरं प्रतीरं तस्य लेखा प्रान्तवीथी तस्यां विश्रान्तेन संस्थितेन । चकारः समुच्चयार्थः । अमानुषं दिव्यं गीतं गानमाकर्णितं श्रुतम् । तच्चेति । तद्गीतमनुसरताम(अ)नुगच्छता(ता)मानुषाणां भूस्पृशां दुर्लभ दुःप्रापं दर्शनमवलोकनं यस्या एवं विधेयं दिव्यकन्यकालोकिता दृग्विषयीकृता । न हीति । हि निश्चितम् । अस्याः कन्यकाया दिव्यता प्रति मे मम संशीतिर्नास्ति सदेहो नास्ति । अस्मिन्नर्थे हेतुमाह - आकृतिरिति । आकृतिराकार एवामानुषता देवरूपतामनुमापयति । अमानुषताविषयकानुमितिं जनयतीत्यर्थः । अन्यदपि कारणान्तरमाह - कुत इति । एवंविधानामेतादृशानां गन्धर्वा देवगायनास्तेषा ध्वनेर्नादस्य विशे
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 उपस्पृष्टमित्येव सहृदयानुमोदितः पाठः ।
पाठा० - १ प्रमाणाम्. २ व्रता च. ३ तुरङ्गम् तुरगम्. ४ महाभक्त्या. ५ पार्वतीपतये. ६ अनिमेष. ७ विस्मयमनसि. ८ मनसि वितर्कः. ९ तुरग. १० वीक्षितः क्षितेः. ११ उपस्पृष्ट.
286
कादम्बरी।
कथायाम्