________________
रेवंविधानां गान्धर्वध्वनिविशेषाणाम् । तद्यदि मे सहसा दर्शनपथानापयाति, नारोहति वा कैलासशिखरम्, नोत्पतति वा गगनतलम्, ततः 'का त्वम्, किमभिधाना वा किमर्थं वा प्रथमे वयसि प्रतिपन्ना व्रतम्' इति सर्वमेवैतदेनामुपसृत्य पृच्छामि । अतिमहानयमवकाश आश्चर्याणाम्" इत्यवधार्य तस्यामेव स्फटिकमण्डपिकायामन्यतमं स्तम्भमाश्रित्य समुपविष्टो गीतसमाप्त्यवसरं प्रतीक्षमाणस्तस्थौ ।
अथ गीतावसाने मूकीभूतवीणा प्रशान्तमधुकरमधुररुतेव कुमुदिनी सा कन्यका समुत्थाय प्रदक्षिणीकृत्य कृतहरप्रणामा परिवृत्य स्वभावधवलया तपःप्रभावप्रगल्भया दृष्ट्या समाधासयन्तीव, पुण्यैरिव स्पृशन्ती, तीर्थजलैरिव प्रक्षालयन्ती, तपोभिरिव पावयन्ती, शुद्धिमिव कुर्वाणा, वरप्रदानमिवोपपादयन्ती, पवित्रतामि नयन्ती, चन्द्रापीडमाबभाषे - ‘स्वागतमतिथये । कथमिमा भूमिमनुप्राप्तो महाभाग । तदुत्तिष्ठ । आगम्यताम् । अनुभूय -
***********
षाणां मन्द्रादीनां मर्त्यलोके मनुष्यक्षेत्रे कुतः संभूतिरुत्पत्तिः स्यात् । तदिति हेत्वर्थे । यदि यावत् । मे मम सहसाकस्माद् दर्शनपथाद्विलोकनमार्गान्नापयाति नापसरति । वेति विकल्पार्थः । तथा कैलासशिखरं रजताद्रिश्रृङ्ग नारोहति नारोहणं करोति । गगनतलं व्योमतलं नोत्पतति नीचं गच्छति । तत इति । तावत्का त्वम्, किमभिधाना किंनाम्नी, किमर्थं किंप्रयोजनं प्रथमे वयसि बाल्यावस्थायां पाशुपतं व्रत प्रतिपन्ना स्वीकृतवती । सर्वत्र वाशब्दो विकल्पार्थः । इत्येतत्सर्वमेनां कन्यकामुपसृत्यं समीपे गत्वा पृच्छामि प्रश्न करोमि । अतीति । आश्चर्याणां कौतुकानामयमतिमहानवकाशोऽसंकीर्ण स्थलम् । इति पूर्वोक्तमवधार्य निर्णयं कृत्वा तस्यां पूर्वोक्तायामेव स्फटिकमण्डपिकायामन्यतममन्यतरं स्तम्भं स्थूणामाश्रित्याश्रयणीकृत्य समुपविष्टो निषण्णः । गीतेति । गीतं गानं तस्य समाप्तिः पर्याप्तिस्तस्या अवसरः समयस्तं प्रतीक्षमाणः प्रतीक्षां कुर्वाणस्तस्थौ स्थितवान् ।
अथेत्यानन्तर्ये । गीतावसाने गीतपर्यन्ते मूकीभूता मौनमाश्रिता वीणा वल्लकी यस्याः सा तथा । श्वेतत्वसादृश्यादाह - प्रशान्तेति । प्रशान्तः शान्ति प्राप्तो मधुकराणां भ्रमराणां मधुरं मिष्टं रुतं शब्दो यस्मामेवभूता कुमुदिनीव । ततस्तस्मात्स्थलात्सा कन्यका समुत्थायोत्थान कृत्वा प्रदक्षिणीकृत्य प्रदक्षिणां दत्वा । कृतेति । कृतो विहितो हराय प्रणामो नमस्कारो यया सा । परिवृत्येति । परावर्तनं कृत्वा स्वभावेन न चोपाधिना धवलया शुक्लत्वेन निर्विकारत्वात् । तप इति । तपःप्रभावस्तपोमाहात्म्यं तेन, प्रगल्भया प्रौढया दृष्ट्या लोचनेन समाश्वासयन्तीवाश्वासनां कुर्वन्तीव । पुण्यैरिति । पुण्यैर्धर्मः स्पृशन्तीव स्पर्श कुर्वन्तीव । तीर्थानि मागधप्रभृतीनि तेषां जलैः पानीयैः प्रक्षालयन्तीव क्षालनां कुर्वन्तीव । तपोभिस्तपस्याभिः पावयन्तीव पवित्रीकुर्वन्तीव । शुद्धिं नैर्मल्यं कुर्वाणेव । वरप्रदानं वाञ्छितदानमुपपादयन्तीव जनयन्तीव । पवित्रतां पावित्र्यं नयन्तीव प्रापयन्तीव । चन्द्रापीडमाबभाषे आभाषितवती । किं तदित्याह - स्वागतमिति । अतिथये प्राघूर्णकाय स्वागतं सुखेनागतम् । महेति । हे महाभाग हे महानुभाव, इमां भूमिं कथमनुप्राप्त आगतः । तदिति । तस्मात्त्वमुत्तिष्टोत्थानं कुरु । आगम्यताम् । माश्व इति शेषः । अतिथिसत्कार आतिथ्यमनुभूयतामनुभवविषयीक्रियताम् । इति परिसमाप्तौ । एवं पूर्वोक्तप्रकारेण तया कन्यकयोक्तो -
- - - - - - टिप्प० -1न मागधनामा देशोऽत्र वक्तव्यः किन्तु लवणसमुद्रस्थ मागधनामा तीर्थोऽत्र व्यङ्ग्यः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ विद्यानां गान्धर्वध्वनिविशेषाणां च. २ पाशुपतव्रतम्. ३ सर्वमेतत्. ४ परिसमाप्ति. ५ दान. ६ एव. ७ पवित्रिताम्. ८ अवनयन्ती. ९ महाभागः, १० अनुगम्यताम्.
(महाश्वेताकृतमातिथ्यम् ।
( पूर्वभागः ।
287