________________
तामतिथिसत्कारः' इति । एवमुक्तस्तु तया संभाषणमात्रेणैवानुगृहीतमात्मानं मन्यमान उत्थाय भक्त्या कृतप्रणामः ‘भगवति, यथाज्ञापयसि' इत्यभिधाय दर्शितविनयः शिष्य इव तां व्रजन्तीमनुवव्राज । व्रजंश्च समर्थयामास - 'हन्त, तावन्नेयं मां दृष्ट्वा तिरोभूता । कृतं हि मे कुतूहलेन प्रश्नाशया हृदि पदम् । यथा चेयमस्यास्तपस्विजनदुर्लभदिव्यरूपाया अपि दाक्षिण्यातिशया प्रतिपत्तिरभिजाता विभाव्यते, तथा संभावयामि नियतमियैमखिलमात्मोदन्तमभ्यर्थ्यमाना मया कथयिष्यति' इत्येवं च कृतमतिः पदशतमात्रमिव गत्वा निरन्तरैर्दिवापि रजनीसमयमिव दर्शयद्भिस्तमालतरुभिरन्धकारितपुरोभागाम्, उत्फुल्लकुसुमेषु लतानिकुञ्जेषु गुञ्जतां मन्द मंदमत्तमधुलिहां विरुतिभिर्मुखरीकृतपर्यन्ताम्, अतिदूरपातिनीनां च धवलशिलातलप्रतिघातोत्पतनफेनिलानामपां प्रसवणैरुत्कोटिग्रावविटङ्कविपा -
भाषितः संभाषणमात्रेणैवानुगृहीतं प्रसादपात्रीकृतमात्मानं मन्यमानो ज्ञायमानस्ततस्तस्मात्प्रदेशादुत्थाय भक्त्यान्तरप्रीत्या कृतो विहितः प्रणामो नतिर्येन स हे भगवति हे स्वामिनि, यथा येन प्रकारेणाज्ञापयस्याज्ञां करोषि तत्तथेत्यभिधायेत्युक्त्वा दर्शितः प्रकाशितो विनयो नम्रता येन स शिष्य इव विनेय इव तां कन्यकां व्रजन्तीं गच्छन्तीमनुवव्राज पश्चाज्जगाम । व्रजंश्चेति । व्रजन्गच्छन् । समर्थेति । प्रस्तुत समर्थयामास । उद्देशस्य निश्चयं चकारेत्यर्थः । हन्तेति । हन्तेत्याश्चर्ये । तावदादौ इयं मां दृष्ट्वा निरीक्ष्य न तिरोभूता नादृश्यतां गता । हीति निश्चितम् । कुतूहलेन करणभूतेन प्रश्नाशया पृच्छाभिलाषया हृदि चित्ते परं स्थानं विहितम् । यथा चेति । यथा येन प्रकारेणास्याः प्रत्यक्षगतायाः । तपस्वीति । तपस्विजनेषु दुर्लभं दुष्प्रापं दिव्यं मनोहरं रूपं यस्या एवंभूतायाः कन्याया अपि । दाक्षिण्येति । दाक्षिण्यमनुकूलता तस्या अतिशय आधिक्यं तेन प्रतिपत्तिर्मद्विषयिण्युत्कण्ठा विशेषरूपेणेयमभिजातोत्पन्ना विभाव्यते लक्ष्यते । यत्तदोर्नित्याभिसंबन्धादाह - तथेति । तथा तेन प्रकारेण संभावयामि संभावनां करोमि । नियतं निश्चितम् । इयं कन्यका मया चन्द्रापीडेनाभ्यर्थ्यमाना प्रार्थ्यमानाखिलं समग्रमात्मनः स्वकीयस्योदन्तं वृत्तान्तं कथयिष्यति प्रतिपादयिष्यति । इत्येवंप्रकारेण कृता मतिर्येनैवं भूतश्चन्द्रापीडः पदशतमात्रमिव गत्वा किंचिदध्वानमतिक्रम्य गुहां दरीमद्राक्षीदपश्यत् । इतो गुहां विशेषयन्नाह - निरन्तरेति । निरन्तरैर्निबिडैर्दिवापि दिवसेऽपि रजनीसमयमिव रात्रिकालमिव दर्शयद्भिः प्रकाशयद्भिरेतादृशैस्तमालतरुभिस्तापिच्छवृक्षैरन्धकारितोऽन्धकारवदाचरितः पुरोभागोऽग्रप्रदेशो यस्यास्ताम् । उत्फुल्लेति । उत्फुल्लानि विकसितानि कुसुमानि पुष्पाणि येष्वेवंभूतेषु लतानिकुञ्जेषु वल्लीकुटकेषु मन्द्रं गुञ्जा शब्दं कुर्वतां मदेन मत्ताः क्षीबा ये मधुलिहो भ्रमरास्तेषां विरुतिभिः शब्दैर्मुखरीकृतो वाचालीकृतः पर्यन्तः प्रान्तो यस्याः सा ताम् अतीति । अतिदूरं दविष्ठं पतन्ति एवंशीला अतिदूरपातिन्यस्तासां च । धवलेति । धवलं शुभ्रं यच्छिलातलं प्रस्तरतलं तेन यः प्रतिघातः प्रतिस्खलनं तस्माद्यदुत्पतनं तेन फेनिलानां संजातडिण्डीराणामीदृशीनामपामम्भसां प्रसवणैर्निर्झरै राबध्यमान आबन्धविष नीहारो हिमं यस्यां सा तीम् । अथ प्रसवणं विशेषयन्नाह - उदिति । उदूर्ध्वं कोटयः कोणा येषामेवंभूता ये ग्रावाणः प्रस्तरास्तेषां विटङ्का उन्नतप्रदेशा
**
टिप्प० - 1 दाक्षिण्यस्य अतिशयो यस्याम् ईदृशी प्रतिपत्तिः 'स्वागतमतिथये' इत्यादिर्व्यवहारः, इत्यर्थ उचितः । 2 हिमवर्णवत् आवध्यमानाः ( उत्पाद्यमानाः) नीहाराः जलबिन्दवो यस्याम् । प्रस्नवणजलक्षोदवाहिनीमित्यर्थः ।
पाटा० - १ सत्कार एवमुक्तस्तया २ संभाषित. ३ समुत्थाय ४ अद्भुताकृतिस्तिरोभूता. ५ अतिशय ६ आत्मोदन्तम्. ७ रजनीमयम्. ८ कूजताम् ९ मन्दं मन्दम्. १० मधुमत्त. ११ पातिनाम्.
288
कादम्बरी ।
कथायाम्