________________
ट्यमानैरुच्चरध्वनिभिरवशीयमाणतुषारशिशिरशीकरासारैराबध्यमाननीहाराम्, हिमहारहरहासधवलैश्चोभयतः क्षरद्भिर्निइर्झरैर्द्वारावलम्बितचलच्चामरकलापामिवोपलक्ष्यमाणाम्, अन्तःस्थापितमणिकमण्डलुमण्डलाम्, एकान्तावलम्बितयोगपट्टिकाम्, विशाखिकानिबैद्धनालिकेरीफलवल्कलमयधौतोपानद्युगोपेताम्, अवशीर्णाङ्गभस्मधूसरवल्कलशयनीयसनाथैकदेशाम्, इन्दुमण्डलेनेव टकोत्कीर्णेन शङ्खमयेन भिक्षाकपालेनाधिष्ठिताम्, संनिहित भस्मालाबुकां गुहामद्राक्षीत् । तस्याश्च द्वारि शिलातले समुपविष्टो वल्कलशयनशिरोभागविन्यस्तवीणां ततः पर्णपुटेन निर्झरादागृहीतमर्धजलमादाय तां कन्यकां समुपस्थिताम् ‘अलमतियन्त्रणया । कृतमतिप्रसादेन । भगवति, प्रसीद । विमुच्यतामयमत्यादरः । त्वदीयमालोकनर्मपि सर्वपापप्रशमनमघमर्षणमिव पवित्रीकरणायालम् । आस्यताम्' इत्यब्रवीत् । अनुबध्यमानश्च
तया -
***********
स्तैर्विपाट्यमानानि विदार्यमाणानि तैः । उच्चरदिति । उच्चरशब्दं कुर्वन्ध्वनिः शब्दो येषां तैः । अवेति । अवशीर्यमाण प्राप्यमाणो यस्तुषारो नीहारस्तस्य शिशिराः शीतलाः शीकरा वातास्तज्जलविप्रुषस्तेषामासारो वेगवान्वर्षो येषु तैः । हिमेति । ि तुहिनम्, हारो मुक्ताकलापः, हर ईश्वरस्तस्य हासो हास्यं तद्वद्धवलैः श्वेतैः । उभयतः पार्श्वद्वये क्षरद्भिः सवद्भिर्निइरैिः प्रसवणैः । द्वारेति । द्वारे प्रतीहारेऽवलम्बितो यश्चलच्चामरकलापः प्रोच्छलद्वालव्यजनसमूहो यस्यामेवंविधामिवोपलक्ष्यमाणां वीक्ष्यमाणाम् । अन्तरिति । अन्तर्मध्ये स्थापितं न्यस्तं मणिनिर्मितं कमण्डलुमण्डलं कुण्डिकावलयं यस्यां सा ताम् । एकान्तेति । एकान्ते रहस्यवलम्बिता `स्थापिता योगपट्टिका योगसाधनोपकरणं यस्यां सा ताम् । विशेति । विशाखिका भूमिशुध्यर्थमाद्रियमाणां लोहयष्टिरूपा तस्यां निबद्ध संदानितं यन्नालिकेरी लागली तस्याः फलं तस्य वल्कलैस्त्वग्भिर्निष्पन्नं धौतं क्षालितमुपानद्युगं पादुकायुगलं तेनोपेतां सहिताम् । अवेति । अवशीर्णं च्युतं यदङ्गभस्म देहविभूतिस्तेन धूसरं मलिनं यद्वल्कलशयनीयं चोचशय्या तेन सनाथः सहित एकदेशो यस्याः सा ताम् । टङ्क इति । टङ्क पाषाणदारणस्तेनोत्कीर्णेनोत्कारितेन शङ्खमयेन कम्बुदलनिर्मितेन भिक्षाकपालेन भिक्षाकर्परेणाधिष्ठितामाश्रिताम् ।‘श्वेतत्वसाम्यादाह - इन्दुरिति । इन्दुश्चन्द्रस्तस्य मण्डलेनेव । संनिहितेति । संनिहितं समीपवर्ति भस्मालाबुकं विभूतितुम्बकं यस्यां ताम् । अन्वयस्तु प्रागेवोक्तः ।
I
तस्याश्चेति । तस्य गुहाया द्वारि प्रतीहारप्रदेशे यच्छिलातलं तस्मिन्नुपविष्ट आसीनश्चन्द्रापीडो वल्कलशयनं तस्य शिरोभागस्तत्र विन्यस्ता स्थापिता वीणा वल्लकीं यया सा ताम् । तत इति । वल्लकीस्थापनानन्तरं पर्णपुटेन निर्झरात्प्रसवणादागृहीतं यदर्घजलं तदादाय समुपस्थितां समागतां तां प्रति चन्द्रापीड इत्यब्रवीदित्युवाच । इतिशब्दार्थमाह - अलमिति । अतियन्त्रणैयात्यनुरोधेनालं कृतम् । कृतमिति । अतिप्रसादेनातिप्रसन्नतया कृतं सृतम् । हे भगवति हे स्वामिनि, प्रसीद प्रसन्ना भव । अयमत्यादरोऽत्याग्रहो विमुच्यतां त्यज्यताम् । त्वदीयमालोकनमपि दर्शनमपि सर्वपापप्रशमनं सर्वेनसां प्रशमनकृत् । अघेति । सर्वैनोध्वंसि जाप्येऽघमर्षणं तद्वदिव पवित्री - करणाय पावनीकरणायालं समर्थम् । अत आस्यतामुपविश्यताम् । भवत्या दर्शनेनैव मम कार्तार्थ्यमभूत् । ततः किमातिथ्येनेति भावः । अन्विति । तया कन्यकयानुबैध्यमानो -
टिप्प० - 1 शिक्या, ‘छींका' इति भाषा ख्याता । 2 मत्कृते अत्यन्तं क्लेशानुभवेनेत्यर्थ उचितः । 3 'अनुरुध्यमानः कृतानुरोधः इति पाठान्तरो बहुजनप्रसिद्धः ।
पाठा० - १ धारा. २ चारुचलत्. ३ शिखरनिबद्ध ४ नारिकेल. ५ आगृहीतार्ध्यसलिलम्. ६ अलमलम्. ७ तदीयम्. ८ अप्यत्र खलु. ९ अनुरुध्यमानः.
(महाश्वेताकृतमातिथ्यम्
पूर्वभागः ।
289