________________
तां सर्वामतिथिसपर्यामतिदूरावनतेन शिरसा सप्रश्रयं प्रतिजग्राह । कृतातिथ्यया च तया द्वितीयशिलातलोपविष्टया क्षणमिव तूष्णीं स्थित्वा क्रमेण परिपृष्ठो दिग्विजयादारभ्य किंनरमिथुनानुसरणप्रसङ्गेनागमनमात्मनः सर्वमाचचक्षे । विदितसकलवृत्तान्ता चोत्थाय सा कन्यका भिक्षाकपालमादाय तेषामायातनतरूणां तलेषु विचचार । अचिरेण च तस्यां स्वयंपतितैः फलैरपूर्यत भिक्षाभाजनम् । आगत्य च तेषां फलानामुपयोगाय नियुक्तवती चन्द्रापीडम् । आसीच्च तस्य चेतसि - 'नास्ति खल्वसाध्यं नाम तपसाम् । किमतःपरमाश्चर्यं यत्र व्यपगतचेतना अपि सचेतना इवास्यै भगवत्यै समतिसृजन्तः फलान्यात्मानुग्रहमुपपादयन्ति वनस्पतयः । चित्रमिदमालोकितमस्माभिरदृष्टपूर्वम् इत्यधिकतरोपजातविस्मयश्चोत्थाय तमेव प्रदेशमिन्द्रायुधमानीय व्यपनीतपर्याणं नातिदूरं संयम्य निर्झरजलनिवर्तितस्नानविधिस्तान्यमृतस्वादून्युपभुज्य फलानि पीत्वा च तुषारशिशिरं प्रसवणजलमुपस्पृश्य चैकान्ते तावदेवतस्थे यावत्तयापि कन्यकया कृतो जलफलमूलमयेष्वाहारेषु प्रणयः । इति परिसमापिताहारां निर्वर्तितसंध्योचिताचारां शिलातले विश्रब्धमुपविष्टां निभृतमुपसृत्य -
***********
ऽनुरुध्यमानः । चकारः पुनरर्थकः । तां सर्वां समग्रातिथिसपर्यामभ्यागतपूजामतिदूराद्दविष्ठादवनतेन नमितेन शिरसोत्तमोङ्गेन सप्रश्रय सविनयं प्रतिजग्राह गृहीतवान् । कृतेति । कृतं विहितमातिथ्यं यया सा तया । द्वितीयेति । द्वितीयं भिन्नं यच्छिलातलं तत्रोपविष्टयासीनया क्षणमिव तूष्णीं स्थित्वा मौनं कृत्वा क्रमेण परिपाट्या परिपृष्टोऽनुयुक्तो दिग्विजयादारभ्य किंनरमिथुनस्य यदनुसरणं यदनुगमन तत्प्रसङ्गेन तद्वशेनात्मनः स्वकीयस्य सर्वमागमनमाचचक्षेऽकथयत् । विदितेति । विदितो ज्ञातः सकलः समग्रो वृत्तान्त उदन्तो यया सा चकारः पूर्ववत् । उत्थाय सा कन्यका भिक्षाकपालं भिक्षाभाजनमादाय गृहीत्वा तेषामायतनतरूणां गुहासमीपवर्तिवृक्षाणां तलेष्वधोभागे विचचार पर्यटनं चकार । अचिरेणेति । अचिरेण स्वल्पकालेन स्वयंपतितैः स्वभावतश्च्युतैः फलैस्तस्या भिक्षाभाजनमपूर्यत परिपूरितमभूतू । आगत्येति । आगत्यैत्य तेषां फलानामुपयोगायोपभोगार्थं चन्द्रापीडं नियुक्तवती प्रेरितवती । तस्येति । तस्य चन्द्रापीडस्य चेतसि मनसीत्यासीदित्यभत । इतिशब्दद्योत्यं प्रदर्शयन्नाह - खल्विति । खलु निश्चयेन । नामेति कोमलामन्त्रणे । तपसामसाध्यमशक्य नास्ति तथाप्यतःपरमेतदन्यत्किमाश्चर्यं चोयं भवेत्तदेवाह - यत्रेति । यस्मिन्प्रदेशेऽपगता दूरीभूता चेतना चैतन्यं येषामेवंभूता अपि वनस्पतयो वृक्षाः सचेतना इव सचैतन्या इवास्यै भगवत्यै फलानि समतिशयेन सृजन्तो ददत आत्मानुग्रहं निजसाफल्यमुपपादयन्ति निष्पादयन्ति । चित्रमिति । अदृष्टपूर्वमवीक्षितपूर्वमिदं चित्रमाश्चर्यमालोकितं वीक्षितम् । अधीति । अधिकतरोऽतिभूयानुपजातः समुत्पन्नो विस्मयो यस्य स उत्थाय तमेव प्रदेशमिन्द्रायुधमानीय व्यपनीतपर्याणं दूरीकृतपल्ययनं नातिदूरे समीपे संयम्य निबध्य । निर्झरति । निरिजलेन प्रसवणपानीयेन निर्वर्तितो निष्पादितः स्नानविधिराप्लावविधिर्येन स तान्यमृतवत्स्वादूनि मिष्टानि फलान्युपभुज्यास्वाद्य च तुषारस्य नीहारस्य शिशिरं शीतलं प्रसवणजलं निर्झराम्भः पीत्वा चोपस्पृश्याचमनं कृत्वैकान्ते रहसि तावदवतस्थे तावत्कालमासेदिवान्यावत्तयापि कन्यकया जलफलमूलमयेष्वाहारेषु प्रणयः स्नेहः कृतः ।।
इतीति । इति पूर्वोक्तप्रकारेण परिसमापितः पर्याप्तिं नीत आहारो भोजनं यया सा ताम् । निर्वेति । निर्वर्तितो विहितः संध्योचिताचारः सायंकालयोग्यो विधिर्यया सा तां शिलातले विश्रब्धं सविश्वासं यथा -
पाठा० - १ अचिरेण तस्याः. २ यदत्र; यत्र च. ३ विगत. ४ पर्याणे च. ५ निवर्तित. ६ अमृतरस. ७ उपयुज्य. ८ उपस्पृश्यकान्ते. ९ उपतस्थे. १० कन्यया.
290
कादम्बरी।
कथायाम्