________________
नातिदूरे समुपविश्य मुहूर्तमिव स्थित्वा चन्द्रापीडः सविनयमवादीत् - 'भगवती, त्वत्प्रसादप्राप्तिप्रोत्साहितेन कुतूहले - नाकुलीक्रियमाणो मानुषतासुलभो लघिमा बलादनिच्छन्तमपि मां प्रश्नकर्मणि नियोजयति । उपजनयति हिं प्रभुप्रसादलवोऽपि प्रागल्भ्यमधीरप्रकृतेः । स्वल्पाप्येकावस्थाने कालकला परिचयमुत्पादयती । अणुरप्युपचारपरिग्रहः प्रणयमारोपयति । तद्यदि नातिखेदकरमिव ततः कथनेनात्मानमनुग्राह्यमिच्छामि । अतिमहत्खलु भवद्दर्शनात्प्रभृति मे कौतुकमस्मिन्विषये । कतरन्मरुतामृषीणां गन्धर्वाणां गुह्यकानामप्सरसां वा कुलमनुगृहीतं भगवत्या जन्मना । किमर्थं वास्मिन्कुसुमकुमारे नवे वयसि व्रतग्रहणम् । क्वेदं वयः, क्वेयमाकृतिः, क्व चायं लावण्यातिशयः, क्वेयमि न्द्रियाणामुपशान्तिः । तैदद्भुतमिव मे प्रतिभाति । किं वानेकसिद्धसाध्यसंबंद्धानि सुरलोकर्सुलभान्यपहाय दिव्याश्रमपदान्येकाकिनी वनमिदममानुषमधिवससि । कैश्चायं प्रकारो यत्तैरेव पञ्चभिर्महाभूतैरारब्धमीदृशं -
***********
स्यात्त्थोपविष्टामासीनाम् । निभृतं निश्चलं यथा स्यात्तथोपसृत्य समीपे गत्वा नातिदूरे समुपविश्यास्थाय मुहूर्तमिव क्षणमात्रमिव स्थित्वा विलम्ब्य चन्द्रापीडः सविनयं विनयसंयुक्तं यथा स्यात्तथावादीदवोचत् । हे भगवति हे स्वामिनि । त्वदिति । तव प्रसादस्य प्राप्तिर्लब्धिस्तया प्रोत्साहितेन प्रगुणीकृतेन कुतूहलेन कौतुकेनाकुलीक्रियमाणो व्याकुलतां नीयमान एवंविधो यो लघिमा तुच्छस्वभावः । कीदृशः । मानुषता मानवता तत्र सुलभः सुप्रापो मां बलाद्धटादनिच्छन्तमवाञ्छन्तमपि प्रश्नकर्मणि पृच्छाक्रियायां नियोजयति व्यापारयति । उपजनेति । हीति निश्चितम् । प्रभोः स्वामिनः प्रसादलवोऽपि प्रसन्नतालेशोऽप्यधीरप्रकृतेश्चञ्चलस्वभावस्य प्रागल्भ्यं धार्यमुपजनयत्युपपादयति । स्वल्पेति । एकावस्थान एकावस्थितौ स्वल्पापि स्तोकापि कालकला पञ्चदशलवात्मिका परिचयं संस्तवमुत्पादयति जनयति । अणुरपि परमाणुरप्युपचारपरिग्रहः पूजास्वीकारः प्रणयं स्नेहमारोपयत्यारोपविषयीकरोति । तदिति । तद्यदि नातिखेदकरमिव नातिप्रयासजनकसदृशमिव ततः कथनेन निवेदनेनात्मानमनुग्राह्यमभ्युपपत्तिविषयमिच्छामि समीहे । अतीति । खलु निश्चये । भवद्दर्शनात्प्रभृतितवालोकनादारभ्य मे ममास्मिन्विषये प्रश्नविषयेऽतिमहत्कौतुकमत्याश्चर्यम् । कतरदिति । मरुतां देवानाम्, ऋषीणां मुनीनाम्, गन्धर्वाणां देवगायनानाम्, गुह्यकानां यक्षाणाम्, अप्सरसां तिलोत्तमादीनां मध्ये । निर्धारणे षष्ठी । जन्मना प्रादुर्भाविन भगवत्या स्वामिन्या कतरत्कतमत्कुलमन्वयोऽनुगृहीतमनुग्रहविषयीकृतम् । किमिति । किमर्थम् । किं प्रयोजनमिति यावत् । वेति विकल्पार्थः । अस्मिन्नवे नूतने वयस्यवस्थायां कुसुमं पुष्पं तद्वत्सुकुमारे कोमले व्रतग्रहणं नियमस्वीकारः । क्वेति महदन्तरे । इदं प्रत्यक्षोपलभ्यमानं वयः क्व । अथ चेयमाकृतिराकारविशेषः क्व । तथा लावण्यं चातुर्यं तस्यातिशय आधिक्यं क्व । तथेन्द्रियाणां करणानामियमुपशान्तिर्विषयोपरमः क्व । तदिति । मे मम तत्सर्वं पूर्वोक्तमद्भुतमिवाश्चर्यमिव प्रतिभाति प्रतिभासते । अन्यच्च । किमिति पूर्ववत् । अनेकेति । अनेके ब ये सिद्धा महायोगिनस्तैः । साध्या निष्पाद्याः क्रिया इत्यर्थः । ताभिः संबद्धानि संकीर्णानि सुरलोका देवसमूहास्तेषां सुलभानि सुप्रापाण्येवंविधानि दिव्याश्रमपदानि महामुनीनां निवासस्थानान्यपहाय विमुच्यैकाकिन्यसहायामानुषं मनुष्यवर्जितमिदं वनमरण्यं कथं त्वं भवत्यधिवससि । ‘उपान्वध्याङ्ग्वसः' इति वनमित्यस्याधिकरणस्य कर्मसंज्ञायां द्वितीया । कश्चेति । कश्चानिर्दिष्टस्वरूपोऽयं प्रकारः प्रभेदो यत्तैरेव सर्वप्रसिद्धैरेव पञ्चभिर्महाभूतैः पृथि -
टिप्प० - 1 सौन्दर्यम् । 2 ' अनेकसिद्ध-साध्यसंबाधानि' इत्यपि पाठः, संबाधानि संकुलानीति तदर्थः । 3 विशेषः ।
पाटा० - १ जनयति. २ हि न. ३ एकदेशावस्थाने; एकदेशावस्थान. ४ अनुगृह्यमाणम्. ५ वयः, क्वेदं तपः. ६ अद्भुतम् ७ किं निमित्तम्. ८ संबन्धानि; संबाधानि. ९ सुभगानि. १० कश्चायं प्रजापतेः प्रकारो यत्तैरेव महाभूतैः पञ्चभिः. ११ ईदृशीम्.
महाश्वेतां प्रति प्रश्नः
पूर्वभागः ।
291