________________
धवलतां धत्ते शरीरम् । नेदमस्माभिरन्यत्र दृष्टश्रुतपूर्वं वा । अपनयतु नः कौतुकम् । आवेदयतु भवती सर्वमिदम् इत्येवमभिहिता सा किमप्यन्तायन्ती तूष्णीं मुहूर्तमिव स्थित्वा निःश्वस्य स्थूलस्थूलैरन्तर्गता हृदयशुद्धिमिवादाय निर्गच्छद्भिः, इन्द्रियप्रसादमिव वर्षद्भिः, तपोरसनिःस्यन्दमिव सवद्भिः, लोचनविषयं धवलिमानमिव द्रवीकृत्य पातयद्भिः, अच्छाच्छैः अमलकपोलस्थलस्खलितैः, अवशीर्णहारमुक्ताफलतरलपातैः अनुबद्धबिन्दुभिः वल्कलावृतकुचशिखरजर्जरितसीकरैरश्रुभिरामीलितलोचना निःशब्दं रोदितुमारेभे । तां च प्ररुदितां दृष्टवा चन्द्रापीडस्तत्क्षणमचिन्तयत् - 'अहो दुर्निवारता व्यसनोपनिपातानाम्, यदीदृशीमप्याकृतिमनभिभवनीयामात्मीयां कुर्वन्ति । सर्वथा न न कंचन स्पृशन्ति शरीरधर्माणमुप -
***********
व्यप्तेजोवाय्वाकाशरूपैरारब्धं रचितमीदृशं शरीरं देहः । धवेति । धवलिमानं धत्ते दधाति । नेति । इदमेतादृशमस्माभिरैदंयुगीनैरन्यस्मिन्देशान्तरे पूर्वं न दृष्टं न वीक्षितम् । नापि पूर्वं कस्यचिन्मुखाछुतमाकर्णितम् । अपेति । नोऽस्माकं कौतुकं महदाश्चर्यमपनयतु दूरीकरोतु । आवेति । भवती स्वामिनी सर्वमिदं पूर्वोक्तमावेदयतु निवेदयतु । इतीति । इत्येवंप्रकारेणाभिहिता प्रतिपादिता सा किमप्यनिर्वचनीयमन्तश्चित्ते ध्यायन्ती चिन्तयती तूष्णीं जोषं मुहूर्तसदृशम् । अत्र सदृशार्थ इवप्रयोगः । निःश्वस्य निश्वास मुक्त्वा । पूर्वानुभूतस्य दुःखस्य स्मरणादिति भावः । अश्रुभिर्नेत्रजलैरामीलिते संकुचिते लोचने नेत्रे यस्याः सा तादृशी निःशब्द ध्वनिवर्जितं यथा स्यात्तथा रोदितुं रोदन कर्तुमारेभ आरम्भं चकार । अथाश्रु विशेषयन्नाह - स्थूलेति । स्थूलानि च स्थूलानि च स्थूलस्थूलानि तैः । अतिश्चेतत्वसाम्यादाह - अन्तरिति । अन्तर्गतां मध्यप्राप्तां हृदयशुद्धिं चित्तनैर्मल्यमिवादाय गृहीत्वा निर्गच्छद्भिर्बहिरागच्छद्भिः । इन्द्रियेति । इन्द्रियाणामक्षाणा प्रसादं प्रसन्नतामिव वर्षद्भिर्वर्षणं कुर्वद्भिः । तप इति । तपसां चान्द्रायणादीनां रसनिःस्यन्दमिव द्रवरहस्यमिव सवद्भिः । लोचनेति । लोचनविषयं नेत्रसंबन्धिनं धवलिमानं वेतिमानमिव द्रवीकृत्य रसीकृत्य पातयद्भिः । अच्छेति । अच्छानि चाच्छानि चाच्छाच्छानि तैः । अतिस्वच्छरित्यर्थः । अमलेति । अमलं निर्मलं यत्कपोलस्थलं तत्र स्खलितैः स्खलनां प्राप्तैः । अवशीर्णेति । अवशीर्णस्त्रुटितो यो हारो मुक्ताप्रालम्बस्तस्य मुक्ताफलानि रसोद्भवानि तद्वत्तरलः कम्पनः पातो येषां तैः । एतेनोज्ज्वलत्वसाम्यात्क्षरन्मुक्ताफलसाम्यमश्रूणा ध्वनितम् । अनुबद्धाः परस्परानुविद्धा बिन्दवो विप्रुषो येषां तैः । वल्कलेति । वल्कलावृतौ चोचाच्छादितौ यो कुचौ पयोधरौ तयोः शिखरमग्रं तेन जर्जरिताः शिथिलता प्राप्ताः सीकराः कणा येषां तैः । एतेन कुचयोरतिकाठिन्यं व्यञ्जितम् । अन्वयस्तु प्रागेवोक्तः । तामिति । ता कन्यकाम् । चकारः पुनरर्थकः । प्ररुदितां कृताश्रुपातां दृष्ट्वा विलोक्य चन्द्रापीडस्तत्क्षणं तस्मिन्नवसरेऽचिन्तयच्चिन्तितवान् । चिन्ताविषयमाह - अहो इति । अहो इत्याश्चर्ये । व्यसनानि मद्यपानादीनि तत्रोपनिपाता अत्यासक्तिरूपास्तेषां दुर्निवारता दुहेयता । अनल्पायासेन निवारयितुं शक्यते, न तु स्वल्पप्रयासेनेति भावः । यदिति हेत्वर्थे । अनभिभवनीयां न परैरभिभवितुं योग्यामेतादृशीमलौकिकीमप्याकृतिमाकारमात्मीयां स्वायत्तां कुर्वन्ति प्रणयन्ति । सर्वथेति । सर्वथा सर्वप्रकारेणोपतापाः कामाभिलाषाः -
-
-
-
-
टिप्प० - 1 'रारब्धमीदृशीं धवलतां धत्ते शरीरम्' इत्यपि मधुरः पाठः । अर्थः स्फुटः । 2 वैलक्षण्यमित्यर्थः । 3 तपास्येव रसाः (द्रवाः) तेषा निस्यन्द धारां क्षरद्भिरिव, इत्यर्थो योग्यः । 4 व्यसनोपनिपातानां दुःखोपस्थितीनाम् अहो दुर्निवारता अभिभवितुमशक्यता ? अर्थात् दैवोपस्थापितानि दुःखानि न केनचिद्वारयितुं शक्यानीति भावः ।
पाठा० - १ पूर्वम्. २ आवेदयतु सर्वम्. ३ हारमुक्तमुक्ता.
292
कादम्बरी ।
कथायाम्