________________
तापाः । बलवती हि द्वन्द्वानां प्रवृत्तिः । इदमपरमधिकतर जनितमतिमहन्मनसि मे कौतुकमस्या बाष्पसलिलपातेन । न ह्यल्पीयसा शोककारणेन क्षेत्रीक्रियन्त एवंविधा मूर्तयः । न हि क्षुद्रनिर्घातपाताभिहता चलति वसुधा' इति । संवर्धितकुतूहलश्च शोकस्मरणहेतुतामुपगतमपराधिनमिवात्मानमवगच्छत्रुत्थाय प्रसवणादञ्जलिना मुखप्रक्षालनोदकमुपनिन्ये । सा तु तदनुरोधादेविच्छिन्नबाष्पजलधारासंतानापि किंचित्कषायितोदरे प्रक्षाल्य लोचने वल्कलोपान्तेन वदनमपमृज्य दीर्घमुष्णं च निःश्वस्य शनैः शनैः प्रत्यवादीत् - _ 'राजपुत्र, किमनेनातिनिघृणहृदयाया मम मन्दभाग्यायाः पापाया जन्मनः प्रभृति वैराग्यवृत्तान्तेनाश्रवणीयेन श्रुतेन । तथापि यदि महत्कुतूहलं तत्कथयामि । श्रूयताम् - एतत्प्रायेण कल्याणाभिनिवेशिनः श्रुतिविषयमापतितमेव यथा विबुधसमन्यप्सरसेना नाम -
***********
कंचन शरीरधर्माणं न न स्पृशन्ति न नाश्लिषन्ति । 'दौ नौ प्रकृतमर्थं सूचयतः' इति न्यायाद् द्विनकारप्रयोगः । बलेति । हि नि तम् । द्वंद्वानां सुखदुःखानां प्रवृत्तिः प्रवर्तनं बलवती बलिष्ठा । इदमिति । मे मम मनसि चित्त इदमपरमन्यदधिकतरं महत्कौतुकमाश्चर्य जनितमुत्पादितमस्याः कन्यकाया बाष्पसलिलमश्रुजलं तस्य पातेन पतनेन । जितेन्द्रियग्रामाया अस्या अश्रुपतनमेव महदाश्चर्यमिति भावः । ननु स्वल्पमेव शोककारणमित्याह - न हीति । हीति निश्चितम् । अल्पीयसा कनीयसा शोककारणेन खेदनिमित्तेनैवंविधा अनिर्वचनीयस्वरूपा मूर्तयः शरीराणि न क्षेत्रीक्रियन्ते नाश्रयीक्रियन्ते । अत्रैव हेतुमाह - न हीति । क्षुद्रस्तुच्छो यो निर्घातः प्रहारस्तस्य पातः पातनं तेनाभिहता ताडिता वसुधा पृथ्वी । हीति निश्चितम् । न चलति न कम्पते । संवर्धितमिति । संवर्धितं वृद्धि प्राप्तं कुतूहलं कौतुक यस्यैवंभूतोऽहं शोकस्य खेदस्य स्मरणं स्मृतिस्तस्य हेतुतां निमित्ततामुपगतं प्राप्तमत एवापराधिनं सागसमात्मानमवगच्छन्निव जानन्निवोत्थाय प्रसवणान्निर्झरान्मुखप्रक्षालनाय वदनशुद्ध्यर्थमुदकं पानीयमञ्जलिना पाणिपुटेनोपनिन्य आनीतवान् । सा त्विति । सा कन्यका । तु पुनरर्थकः । तस्य चन्द्रापीडस्यानुरोधादाग्रहात् । अविच्छिन्नेति । अविच्छिन्नमत्रुटितं बाष्पजलधारासंतानमश्रुपानीयधारासमूहं यस्या एवंविधापि किंचित्कंषायितं कषायगुणयुक्तमुदरं मध्यं ययोरेवंभूते लोचने नेत्रे प्रक्षाल्य धावनं कृत्वा वल्कलोपान्तेन चोचाञ्चलेन वदनं मुखमपमृज्य मार्जनं कृत्वा दीर्घमायतमुष्णं तप्तं च निःश्वस्य शनैः शनैर्मन्दं मन्दं प्रत्यवादीत्प्रत्यवोचत् ।
राजेति । हे राजपुत्र, अतिनिघृणं निर्दयं हृदयं स्वान्तं यस्या एवंविधाया मन्दभाग्यायाः क्षीणभागधेयायाः पापायाः पापिष्ठाया जन्मनः प्रभृत्युत्पत्तेरारभ्याश्रवणीयेनाकर्णनानर्हेण वैराग्यवृत्तान्तेन विरक्ततोदन्तेन किमनेन श्रुतेनाकर्णितेन । तथापीति । एवंसत्यपि फलाभावे विद्यमानेऽपि यदि महत्कुतूहलं महदाश्चर्यं तत्तर्हि कथयामि ब्रुवे । प्राणेन बाहुल्येन कल्याणो श्रेयस्यभिनिविशत इत्येवंशीलं नोऽस्माक श्रुतिविषयं कर्णगोचरमापतितमागतम् । कुलपरम्परया श्रुतमित्यर्थः । एतदेव श्रूयतामाकर्ण्यताम् । यथेति । विबुधसद्मनि किंनरगृहेऽप्सरसेनाः । नामेति कोमलामन्त्रणे । कन्यकाः पुत्र्यः सन्ति । तासां - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 संवर्धितकौतूहलः स इत्यर्थः । 2 अश्रुवर्षणात् किञ्चित् रक्तम् आविलं वा मध्यं ययोस्ते इत्यर्थ उचितः । 3 कल्याणे अभिनिवेशः (आग्रहो) यस्य, ईदृशस्य भवतः श्रुतिविषयं कर्णगोचरमागतमेव यद् विबुधसद्मनि स्वर्गे 'अप्सरसो' नाम कन्यकाः (अविवाहितत्वात्) सन्तीति ।
पाठा० - १ महन्मम मनसि कौतुकम्; उपजनितमतिमहन्मनसि मे कौतुकम्. २ कुतूहलश्चास्याः. ३ अवच्छिन्न. ४ शनैः. ५ निष्ठुर. ६ जन्मतः. ७ अप्सरसो.
(महाश्वेताया वृत्तान्तः)
पूर्वभागः ।