________________
कन्यकाः सन्तीति । तासां चतुर्दश कुलानि - एक भगवतः कमलयोनेर्मनसः समुत्पन्नम्, अन्यढेदेभ्यः संभूतम्, अन्यदग्नेरुद्भूतम्, अन्यत्पवनात्प्रसूतम्, अन्यदमृतान्मथ्यमानादुत्थितम्, अन्यज्जलाज्जातम्, अन्यदर्ककिरणेभ्यो निर्गतम्, अन्यत्सोमरश्मिभ्यो निपतितम्, अन्यद्भूमेरुद्भूतम्, अन्यसौदामिनीभ्यः प्रवृत्तम्, अन्यन्मृत्युना निर्मितम्, अपर मकरकेतुना समुत्पादितम्, अन्यत्तु दक्षस्य प्रजापतेरतिप्रभूतानां कन्यकानां मध्ये द्वै सुते मुनिररिष्टा च बभूवतुस्ताभ्यां गन्धर्वैः सह कुलद्वयं जातम्, एवमेतान्येकत्र चतुर्दश कुलानि । गन्धर्वाणां तु दक्षात्मजाद्वितयसंभवं तदेव कुलद्वयं जातम् । अत्र मुनेस्तनयानां सेनादीनां पञ्चदशानां भ्रातृणामधिको गुणैः षोडशश्चित्ररथो नाम समुत्पन्नः । स किल त्रिभुवनप्रख्यातपराक्रमो भगवता समस्तसुरमौलिमालालालितचरणनलिनेनाखण्डलेन सुहृच्छब्देनोपबंहितप्रभावः सर्वेषां गन्धर्वाणामाधिपत्यमसिलतामरीचिनिचयमेचकितेन बाहुना समुपार्जितं शैशव एवाप्तवान् । इतश्च नातिदूरे तस्यास्माद्भारतवर्षादुत्तरेणानन्तरे किंपुरुष -
***********
कन्यकानां चतुदर्श कुलानि । तत्रैकं कमलयोनेर्भगवतो विधातुर्ब्रह्मणो मनसः स्वान्तात्समुत्पन्नं संजातम् । अन्यद् द्वितीय वेदेभ्यः श्रुतिभ्यः संभूतमुत्पन्नम् । अन्यत्तृतीयमग्नेर्विभावसोरुद्भूतं प्रकटितम् । अन्यच्चतुर्थं पवनाद्वायोः प्रसूतं जनितम् । अन्यत्पञ्चमममृताज्जलान्मथ्यमानाद्विलोड्यमानादुत्थितं प्रादुर्भूतम् । अन्यत्षष्ठं जलाज्जातम् । अन्यत्सप्तमं कुलमर्ककिरणेभ्यः सूर्यदीधितिभ्यो निर्गतं बहिरागतम् । अन्यदष्टमं सोमः कुमुदबान्धवस्तस्य रश्मिभ्यः किरणेभ्यो निपतितं च्युतम् । अन्यन्नवमं कुलं पृथिव्या वसुंधराया उद्भूतं प्रकटितम् । अन्यदशम सौदामिनीभ्यो हलादिनीभ्यः प्रवृत्तं प्रवर्तितम् । अन्यदेकादशं कुलं मृत्युना यमेन निर्मितं रचितम् । अपरमन्यद् द्वादशं मकरकेतुना मनोभवेन समुत्पादितम् । अन्यत्त्विति । दक्षस्य प्रजापतेरतिप्रभूतानामतिबह्वीनां कन्यकानामात्मजानां मध्ये द्वे सुते द्वे कन्यकं मुनिरष्टिा च बभूवतुर्जज्ञाते । ताभ्यां कन्यकाभ्यां गन्धर्वैर्देवगायनैः सह कुलद्वयं जातम् । एवमिति पूर्वोक्तप्रकारेण । एकत्रेति । एकस्मिन्प्रदेश एतानि चतुर्दश कुलानि । गन्धर्वाणां तु दक्षात्मजाद्वितयसंभवं तदेव पूर्वोक्तमेव कुलद्वयम् । नाधिकमित्यर्थः । अत्रेति । अस्मिन्नेव प्रदेशे मुनेर्दक्षजात्मजायाः सेनादीनां पञ्चदशानां भ्रातृणां मध्ये गुणैः शौर्यादिभिरधिकः षोडशश्चित्ररथो नाम तनयः समुत्पन्नः । स इति । किलेति सत्ये । स चित्ररथस्त्रिभुवने त्रिविष्टपे प्रख्यातः प्रसिद्धः पराक्रमः शौर्यवृत्तिर्यस्य सः । भगवतेति । भगवता माहात्म्यवता । समस्तेति । समस्ताः समग्रा ये सुरा देवास्तेषां मौलिमालाः किरीटपङ्क्तयस्ताभिलितं पालितं चरणनलिन पादपद्मं यस्य स तेन एवंविधेनाखण्डलेनेन्द्रेण सुहृच्छब्देन मित्रशब्देनोपबृंहितः श्लाघाविषयीकृतः प्रभावः कोशदण्डजं तेजो यस्य स तथा । सर्वेषामिति । सर्वेषां समग्राणां गन्धर्वाणां देहगायनानां शैशवे बाल्य एवाधिपत्यं प्रभुत्वमाप्तवान्प्राप्तवान् । कीदृशमाधिपत्यम् । समुपार्जितमर्जितम् । केन । बाहुना भुजेन । अथ बाहुं विशेषयन्नाह - असीति । असिलता खगलता तस्या मरीचिनिचयः कान्तिसमूहस्तेन मेचकितेन श्यामलितेन । इतश्चेति । अर्थान्तरे । अस्मात्स्थानान्नातिदूरे नातिदविष्ठे तस्य राज्ञोऽस्माद्भारतवर्षाद्भरतक्षेत्रादुत्तरेणानन्तरेऽत्यासन्ने किंपुरुषनाम्नि किंपु - - - - - - - - - - - - - - - - - -
- - - - टिप्प० -1 मध्यमानावस्थायाममृताज्जातमित्यर्थः । जलादित्युक्तेः पौनरुक्त्यम् । 2 चित्रसेनादीनामित्यपि पाठः । 3 सादरं परामृष्टमित्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ सन्ति. २ वढेः ३ निष्पतितम्. ४ सुतानाम्. ५ द्वौ सुतौ. ६ तत्र. ७ चित्रसेनादीनाम्. ८ सकलत्रिभुवन. ९ अरविन्दजेन.
IIIIII
294 AAAAAAAN कादम्बरी ।
LC
कथायाम्