________________
नाम्नि वर्षे वर्षपर्वतो हेमकूटो नाम निवासः । तत्र च तद्भुजयुगपरिपालितान्यनेकानि गन्धर्वशतसहस्राणि प्रतिवसन्ति । तेनैवे चेदं चैत्ररथं नामातिमनोहरं काननं निर्मितम्, इदं चाच्छोदाभिधानमतिमहत्सरः खानितम्, अयं च भवानीपतिरुपरचितो भगवान् । अरिष्टायास्तु पुत्रस्तस्मिन्द्वितीये गन्धर्वकुले गन्धर्वराजेन चित्ररथेनैवाभिषिक्तो बाल एव राज्यपदमासादितवान् । अपरिमितगन्धर्वबलपरिवारस्य तस्यापि स एव गिरिरधिवासः । यत्तु तत्सोमपीयूषसंभूतानामप्सरसा कुलम्, तस्मात्किरणजलानुसारगलितेन सकलेनेव रजनिकरकलाकलापलावण्येन निर्मिता त्रिभुवननयनाभिरामा भगवती द्वितीयेव गौरी गौरीति नाम्ना हिमकिरणकिरणावदातवर्णा कन्यका प्रसूता । तां च द्वितीयकुलाधिपतिहँसो मन्दाकिनीमिव क्षीरसागरः प्रणयिनीमकरोत् । सा तु भगवता मकरकेतनेनेव रतिः, शरत्समयेनेव कमलिनी, हंसेन संयोजिता सदृशसमागमोपजनितामतिमहतीं मुदमुपगतवती -
***********
रुषाभिधाने वर्षे क्षेत्रे वर्षपर्वतः क्षेत्रसीमाकृन्नगो हेमकूटो नाम हेमकूटाभिधानो निवासो वसतिस्थलं वर्तते । तत्र चेति । तस्मिन्पर्वते । तदिति । तस्य चित्ररथस्य भुजयुगं बाहुयुगं तेन परिपालितानि रक्षितान्यनेकानि गन्धर्वशतसहसाण्यनेकलक्षाणि प्रतिवसन्ति । तस्योत्कर्षमाह - तेनैवेति । तेनैव राज्ञा चित्ररथेनेदं चैत्ररथं नामातिमनोहरमतिरमणीयं काननं वनं निर्मितं निष्पादितम् । इदमच्छोदाभिधानमतिमहत्सरः खानितं निर्मापितम् । स्थावराभिप्रायेणाह - अयं चेति । अयं प्रत्यक्षो भगवान्भवानीपतिरीश्वर उपरचितो निर्मितः । अथ चारिष्टायाः पुत्रः सुतः । तु पुनरर्थकः । तस्मिन्द्वितीये गन्धर्वकुले गन्धर्वराजेनैव चित्ररथेनैवाभिषिक्तो राज्याभिषेकविषयीकृतः । अत एव बाल एव शिशुरेव राज्यपदमाधिपत्यस्थलमासादितवान्प्राप्तवान् । अपेति । अपरिमितमसंख्यं यद्गन्धर्वकुलं तदेव परिवारः परिच्छदो यस्य स तथा तस्यापि स एव हेमकूटाभिधानो गिरिः पर्वतोऽधिवासो निवासस्थलम् । यत्त्विति । तस्मिन्पर्वते सोमपीयूषसंभूतानामप्सरसां कुलं तस्मात्कुलात् । किरणेति । किरणजलममृतं तस्यानुसारोऽनुसरणं तेन गलितेनं विलीनेन सकलेन समग्रेण । रजनीति । रजनिकरस्य चन्द्रस्य कलाकलापस्तस्य लावण्येनेवान्तर्गतसारेणेव निर्मिता रचिता । त्रिभुवनेति । त्रिभुवनस्य त्रिविष्टपस्य नयनानि लोचनानि तेषामभिरामा मनोहरा भगवती माहात्म्यवती द्वितीयेव गौरी गौरीति नाम्ना । हिमेति । हिमकिरणस्य किरणा रश्मयस्तद्वदवदातो निर्मलो वर्णो देहच्छविर्यस्याः सैवंविधा कन्यका प्रसूता जनिता । तां चेति । तां गौरी द्वितीयकुलाधिपतिहँसो मन्दाकिनी स्वर्धनी क्षीरसागर इव प्रणयिनी वल्लभामकरोत् । सा त्विति । सा गौरी भगवता मकरकेतनेन कंदर्पण रतिरिख । शरत्समयेन घनात्ययकालेन कमलिनीव । एवं हंसेन गन्धर्वाधिपतिना संयोजिता संबन्धं प्रापिता । सदृशेति । सदृश उचितो यः समागमः संबन्ध उपजनिता -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 अत एव 'अरिष्टायास्तु पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणा'मित्यादि पाठं नीचैधृतं संयोज्य ग्रन्थः पूरणीयः पाठकैः । 2 सोममयूख (किरण)संभूतानामित्यपि पाठः । 3 'किरणजालस्य (समूहस्य) अनुसारेण इत्यपि पाठः । 4 निर्झरितेन (निष्पतितेन)। 5 'हिमकरकिरणावदातवर्णा इत्येव ग्रन्थोचितान्यक्षराणि । 6 अत्र हंसेन सह संयोजिता (विधात्रा) सती सदृशसमागमोपजनितां मुदमुपगतवतीत्यादिः एको वाक्यार्थः । प्रमाणं चात्र सहृदयहृदयम् । 7 तेन उपजनिताम् ।
पाठा० - १ युगल. २ इदम्. ३ निखानितम्. ४ पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणां षण्णा ज्येष्ठो (शेषो; श्रेष्ठो; हंसोनाम जगद्विदितो गन्धर्वस्तस्मिन्). ५ कुले द्वीतीयेऽस्मिन्. ६ परिचारकस्यास्यापि. ७ सोममयूखसंभवमप्सरसाम्. ८ जाल. ९ अनुकरण. १० गौरीपति. ११ हिमकर; रजनिकर. १२ द्वितीयगन्धर्व. १३ केतुनेव.
महाश्वेताजन्म
पूर्वभागः ।
295)