________________
निखिलान्तःपुरस्वामिनी च तस्याभवत् । तयोश्च तादृशयोर्महात्मनोरहमीदृशी विगतलक्षणा शोकाय केवलमनेकदुःखसहसभाजनमेकैवात्मजा समुत्पन्ना । तातस्त्वनपत्यतया सुतजन्मातिरिक्तेन महोत्सवेन मम जन्माभिनन्दितवान् । अवाप्ते च दशमेऽहनि कृतयथोचितसमाचारो महाश्वेतेति यथार्थमेव नाम कृतवान् । साहं पितृभवने बालतया कलमधुरप्रलापिनी वीणेव गन्धर्वाणामङ्कादक संचरन्त्यविदितस्नेहशोकायासं शैशवमतिनीतवती । क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन नवयौवनेन पदम् ।
अथ विजृम्भमाणनवनलिनवनेषु, अंकठोरचूतकलिकाकलापकृतकामुकोत्कलिकेषु, कोमलमलयमारुतावतारतरङ्गितानङ्गध्वजांशुकेषु, मदकलितकामिनीगण्डूषसीधुसेकपुलकितबकु -
***********
विहितामतिमहतीं गरीयसी मुदं हर्षमुपगतवती प्राप्तवती तस्य राज्ञो निखिलं समग्रं यदन्तःपुरमवरोधस्तत्र स्वामिनी मुख्या चाभवत् । तयोश्चेति । तयोहँसगौर्योर्महात्मनोरहमीदृश्येकात्मजैका पुत्री केवलं शोकाय समुत्पन्ना । कीदृशी । विगतानि दूरीभूतानि लक्षणानि श्रेयोजनकानि मषीतिलकादीनि यस्याः सा तथा । पुनस्तामेव विशेषयन्नाह - अनेकेति । अनेकानि विविधानि यानि दुःखानि कष्टानि तेषां सहसाणि तेषां भाजनं पात्रम् । आविष्टलिङ्गत्वात् 'वेदाः प्रमाणाम्' इतिवन्नपुंसकत्वम् । तातस्त्विति । तातः पितानपत्यतयाऽसंतानत्वेन सुतजन्मातिरिक्तेन पुत्रजन्माधिकेन महोत्सवेन महामहेन मम जन्म मज्जन्माभिनन्दितवानतिस्तुतवान् । अवाप्तेति । अवाप्ते प्राप्ते दशमेऽहनि दिने । कृत इति । कृतो विहितो यथोचितो यथायोग्यः समाचारो वेदोक्तक्रियाकलापो येन सः । महाश्वेतवर्णत्वान्महा
तेति यथार्थमेव नाम कृतवान् । सेति । साहं पितृभवने जनकसद्मनि बालतया शिशुत्वेन कलमधुरप्रलापिनी कलं मनोज्ञ मधुरं मिष्टं प्रलपतीत्येवंशीला सा तथा केवलं वीणेव वल्लकीव गन्धर्वाणां देवगायनानामङ्कादक क्रोडात्कोडं संचरन्ती गच्छन्ती । अवीति । अविदितोऽज्ञातः स्नेहः प्रीतिः, शोकः शुक्, तयोरायासः प्रयासो येनैवंविधं शैशवं बाल्यमतिनीतवत्यतिक्रान्तवती । तदनन्तरं मे मम वपुषि शरीरे नवयौवनेन प्रत्यग्रतारुण्येन पदं स्थानं कृतं विहितम् । कस्मिन्क इव । वसन्ते पुष्पकाले मधुमासेनेव चैत्रेणेव । तथा मधुमासे नवपल्लवेनेव प्रत्यग्रकिसलयेनेव । तथा नवपल्लवे कुसुमेनेव प्रसूनेनेव । तथा कुसुमे मधुकरेणेव भ्रमरेणेव । तथा मधुकरे मदेनेव ।
अथेत्यानन्तर्ये । एकदेति । एकस्मिन्समयेऽहं मधुमासदिवसेषु वसन्तवासरेष्वम्बया मात्रा सहेदमच्छोदं सरः स्नातुमभ्यपतमगच्छमिति दूरेणान्वयः । अथ मधुमासदिवसान्विशेषयन्नाह - विजृम्भेति । विजृम्भमाणानि विकासमानानि नवनलिनवनानि प्रत्यग्रपद्मखण्डानि येषु । अकठोरेति । अकठोरा सुकुमारा याश्तकलिका आम्रकोरकास्तासां कलापः समूहस्तेन कृता विहिता कामुकानां कामिजनानामुत्कलिकोत्कण्ठा येषु । उद्दीपकत्वादिति भावः । कोमलेति । कोमलो मूदुर्यो मलयमारुतो मलयानिलस्तस्यावतार इतस्ततः प्रसरण तेन तरङ्गितानि भङ्गितान्यनङ्गध्वजांशुकानि मदनवैजयन्तीवसनानि येषु । मलयमारुतस्योद्दीपकत्वात् अनङ्गध्वजकम्पनेनानङ्गस्य प्रोत्साहन सूचितम् । मदेति । मदेनाहंकारेण - टिप्प० - 1 'वीणेव कलमधुरपलापिनी अकादक संचरन्ती' इति उभयत्र युज्यते । कलमस्फुटं मधुरं च आलपति वीणेति वीणापक्षे । 2 'अविदितस्नेहशोकायासमनोहरम्' इत्यपि पाठः । अविदितैः स्नेहशोकायासैः मनोहरमिति तदर्थः । एतज्जनितव्याकुलताभावात्सुन्दरमित्याशयः । 3 मालोपमैकावल्योः संयोगेन नवीन इवालंकारः । सरस्वतीकण्ठाभरणमते तु रशनोपमा । 4 तरङ्गवत्प्रस्फुरितानि 'फहराना। पाठा० . १ महात्मनोर्महता क्लेशेनाभिलाषेण कालेन च केवलम्. २ विगलल्लक्ष. ३ एकैव; अहमेकैव. ४ मज्जन्म. ५ शोकायासमनोहरम्. ६ अतीतवती. ७ जृम्भमाण. ८ अनेकचूत. ९ काम्युत्कलिकेषु.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
हररररररररररररररल
1296ररररर
MAY
कादम्बरी ।
कथायाम