________________
पायिभिर्मधुकरकुलैरिव निपीता न प्रावर्तत वाणी । केवलं दुःखसहसगणनाय मुक्ताक्षमालिकामिव कल्पयन्ती गलद्भिरस्पृष्टकपोलस्थलैः शुचिभिरधोमुखी नयनजलबिन्दुभिर्दुर्दिनमदर्शयत् । तदा च तस्याः सकाशादशिक्षतेव लज्जापि लज्जालीलाम्, विनयोऽपि विनयातिशयम्, मुग्धतापि मुग्धताम्, वैदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विभ्रमोऽपि विभ्रमिताम्, विषादोऽषि विषादिताम्, विलासोऽपि विलासम् । तथाभूता च 'देवि, किमिदम्' इति विज्ञापिता मया प्रमृज्य लोहितायमानोदरे लोचने दुःखप्रकर्षणात्मनः समुद्घन्धनायेव मृणालकोमलया बाहुलतया वेदिकाकुसुमपालिकाग्रथितकुसुममालामवलम्ब्य -
***********
त्येवंशीला निःश्वासपायिनस्तैरेवंभूतैर्मधुकरकुलैर्धमरसमूहैर्निपीतेव पानविषयीकृतेव । अतोऽस्या वाणी वाङ् न प्रावर्तत न प्रवृत्ता बभूव, केवलं साऽधोमुख्यवाङ्मुखी दुःखानां सहसं तद्गणनाय पृथक्संख्यां कर्तुम् । शुचित्ववर्तुलत्वसाम्यादाह - मुक्तेति । मुक्तानामक्षमालिकां जपमालामिव कल्पयन्ती रचयन्ती । गलद्भिः सवद्भिरस्पृष्टमस्पर्शितं कपोलस्थलं अधोमुखत्वाद्गलात्परप्रदेशो यैरेवंविधैः शुचिभिर्नयनजलबिन्दुभिः कृत्वा दुर्दिनं मेघजं तमोऽदर्शयद्दर्शितवती । मया पृष्टा केवलं रुदनमेव चक्रे इति भावः । तदा चेति । तस्मिन्काले तस्याः कादम्बर्याः सकाशात्समीपाल्लज्जापि त्रपापि लज्जाया लीला स्वभावः संकोचरूपस्तामशिक्षत शिक्षितवती । अशिक्षतेत्यम्य सर्वत्र संबन्धः । तथा च स्वाश्रयं संकुचितं करोतीति लज्जास्वभावः । लज्जाया अपि चेल्लज्जास्वभावोऽभ्यस्तस्तर्हि लज्जाया संकोच एवेति न्यूनत्वमेव सूचितं भवति । तथा विनयोऽपि शरीरावनतिरूपोऽपि विनयातिशयमनधिकताम् । एतेन विनयस्यापि न्यूनत्वं सूचितम् । तथा मुग्धतापि विशेषावगत्यभावरूपापि मुग्धतामभावरूपाम् । एवं सति मुग्धताया अभाव एव प्रौढत्वं सिद्धम् । अभावाभावे भावरूपा विशेषावगतिः प्रौढता । वैदग्ध्यमपि भावाभिव्यञ्जकक्रियावृद्धिरूपमपि वैदग्ध्यमेव वर्तत इति सूचितम् । तथा भयमपि क्रियाभिनिवेशनिवृत्तिरूपमपि भीरुताम् । एतेन भयमपि निवृत्तं सोत्साहरूपं मनो जातमिति सूचितम् । तथा विभ्रमोऽपि चित्तपरिवृत्तिलक्षणोऽपि विभ्रमिताम् । एतेनात्यन्तचित्तास्थैर्य सूचितम् । तथा विषाद इष्टविषयेषु प्रातिकूल्यरूपोऽपि विषादिताम् । एतेनेष्टेष्वनुकूलतालक्षण उत्साह एव प्रसिद्ध इति ध्वनितम् । विलासोऽपि परव्यामोहनानुकूलव्यापाररूपोऽपि विलासम् । एतेन विचित्रैव चेष्टा स्वीकृतेति व्यज्यते । तथाभूता चेति । एवरूपा सा कादम्बरी हे देवि, किमिदमिति मया विज्ञापिता पृष्टा सती लोहितायमानमारक्तमुदरं मध्यं ययोरेवंविधे लोचने प्रमृज्य प्रमार्जन कृत्वा दुःखप्रकर्षेणात्मनः स्वस्य समुद्वन्धनायेव मृणालवत्कोमलया बाहुलतया कारणभूतया वेदिकाया या कुसुमपालिका तया ग्रथिता या कुसुममाला सक्तामवलम्ब्याश्रित्य -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 पाठकमहाभागा विदन्त्वेतस्य रहस्यम् - 'गद्गदा गदितुम् अत्र पूर्ववाक्यसमाप्तिः । 'प्रयत्नतोपि चास्या निःशेषं ज्वलता' इत्यादि चाग्रिमवाक्यम् । अस्याः (कादम्बर्याः) वाणी निःशेषं संपूर्णावयवं यथा स्यात्तथा ज्वलता मदनानलेन दग्धा सती, प्रवहता नयनोदकेन ऊढा सती... प्रयत्नतोपि न प्रावर्तत इति तदर्थः । 2 लज्जाया लज्जा जाता, अर्थात् लज्जावशाल्लज्जा संकुचिताऽभवदित्यनेन न्यूना लज्जा जातेति सूच्यते । यदि लज्जा प्रबला स्यात्तदाऽन्ततोपि चन्द्रापीडप्रणयः कथं वाचा प्रकटीक्रियेत ? किन्तु विश्रम्भवशात्तस्या न्यूनत्वे सति प्रणयप्रकटनं बभूवेति तात्पर्यम् । वस्तुतस्तु - एतावत्कालं लज्जा स्वकार्यं संकुचितभावं न जानाति स्म । तस्याः सकाशात् शिक्षणोत्तरमेव तं प्रकटितवतीति तात्पर्यम् ।
पाठा० - १ लज्जापि लज्जा लीलापि लीला विनयोऽपि विनयोपदेशम्.
(कादम्बरीवृत्तश्रवणम् ।
पूर्वभागः ।।
471)