________________
इति विज्ञापिते निजावयवैरपि वेपथुमद्भिर्निवार्यमाणेव, रहस्यश्रवणलज्जयात्मप्रतिमामपि लिखितमणिकुट्टिमेन चरणा
गुष्ठेनापक्रमायेवामृशन्ती, भवनकलहंसान्कुट्टिमोल्लेखमुखरितनपुरेण चरणारविन्देन विसर्जयन्ती, कर्णोत्पलमधुकरानपि स्विद्यद्वदनव्यजनीकृतेनांशुकपल्लवेनोत्सारयन्ती, ताम्बूलवीटिकाशकलमुत्कोचमिव दन्तखण्डितं शिखण्डिने ददती, वनदेवताश्रवणशकितेव मुहुर्मुहुरितस्ततो विलोकयन्ती, वक्तुकामापि न शक्नोति स्म किंचिदपि लज्जाकलितगद्गदा गदितुं प्रयत्नतोऽपि च सा निःशेषम् । ज्वलता मदनानलेनेव दग्धा, अजसं प्रवहता नयनोदकेनेवोढा, प्रविशद्भिदुःखैरिवाक्रान्ता, पतद्भिः कुसुमचापशरैरिव शंकलीकृता, निष्पतद्भिः श्वसितैरिव निर्वासिता, हृदयवर्तिभिश्चिन्ताशतैरिव विधृता, निःश्वास -
***********
सति सा कादम्बरी वक्तुकामापि किंचिदपि न शक्नोति स्म न समर्था बभूव गदितुं वक्तुं प्रयत्नतोऽपि च सा निःशेष समग्रम् । अथेतः कादम्बरी विशेषयन्नाह - निजेति । वेपथुमद्भिः कम्पवद्भिर्निजावयवैरात्मीयापघनैर्निवार्यमाणेव । अन्योऽपि हस्तचालनादिना निवार्यते । रहस्येति । रहस्यस्य गुह्यस्य श्रवणमाकर्णनं तस्माया लज्जा त्रपा तयात्मप्रतिमामपि स्वकीयप्रतियातनामपि लिखितं कर्षितं मणिकुट्टिम येनैवंभूतेन चरणाङ्गुष्ठेनापक्रमायेव तनिवृत्तय इवामृशन्त्यामर्श कुर्वन्ती । भवनकलेति । कुट्टिमं बद्धभूमिकं तस्योल्लेखं उत्कर्षणं तेन मुखरितं वाचालं नूपुरं यस्यैवंभूतेन चरणारविन्देन भवनकलहंसानपि गृहकादम्बानपि विसर्जयन्ती मानसगमनायाज्ञां प्रयच्छन्ती । विरहवशासचिन्तायाः स्त्रियोऽङ्गुष्ठेन भूमिकर्षणं स्त्रीजातिस्वभावः । विसर्जयन्तीत्यनेन हंसापेक्षयापि गत्या शब्देन चरणारविन्दस्याधिक्यमिति व्यज्यते । कर्णेति । स्विद्यत्स्वेदं प्राप्नुवद्यद्वदनं मुखं तत्र व्यजनीकृतो योऽशुकपल्लवस्तेन कर्णोत्पलमधुकरानप्युत्सारयन्ती दूरीकुर्वन्ती । अनेन कर्णोत्पले सौगन्ध्यातिशयो द्योत्यते । ताम्बूलेति । ताम्बूलस्य नागवल्लीदलस्य वीटिका प्रसिद्धा तस्याः शकलं खण्डं दन्तखण्डितं रदनचर्वितमुत्कोचमिव लज्जामिव शिखण्डिने कलापिने ददंती प्रदानं कुर्वती । वनेति । वनस्यारण्यस्य देवताधिष्ठात्री तया श्रवणमाकर्णनं तेन शङ्कितेवेतस्ततश्चतुर्दिक्षु मुहुर्मुहुर्वारंवारं विलोकयन्ती पश्यन्ती । ज्वलतेति । दीप्तिमता मदनरूपोऽनलो वह्निस्तेन दग्धेव ज्वलितेव । अजसं निरन्तरं प्रवहता चलता नयनोदकेन नेत्राम्भसोढेव वाहितेव । प्रविशद्भिरिति । प्रविशद्भिः प्रवेशं कुर्वद्भिः । हृदय इति शेषः । एवंविधैर्दुःखैरसुखैराक्रान्तेव व्याप्तेव । पतद्भिरिवोपरिपतनं कुर्वद्भिः कुसुमचापः कन्दर्पस्तस्य शरैर्बाणैः शकलीकृतेव खण्डीकृतेव । निष्पतद्भिरिति । निष्पतद्भिर्बहिर्निर्गच्छद्भिः श्वसितैः वासैनिर्वासितेव हृदयाहूरीकृतेव । हृदयेति । हृदयवर्तिनिश्चिन्ताशतैर्विधृतेव रक्षितेव । निःश्वासेति । निःश्वासं वदनानिलं पिबन्ती - टिप्प० -1 'न शक्नोति स्म किञ्चिदपि लज्जाकलितगद्गदा गदितुम् । अत्रैव वाक्यपूर्तिः । नाऽऽवश्यकता विस्तरणस्य । 2 निजावयवैरपीति 'अपि' पदमतिशयव्यञ्जकम्, एवंविधे कण्टकाकीर्णे मार्गे अन्ये तु निवारयेरनेव, किंतु निजागैरपि सा निवार्यमाणेत्याशयः । 3 स्वप्रतिबिम्बमपि लज्जावशात् ततः पलायनायेव स्पृशन्तीत्याशयः । 4 रहस्यश्रवणलज्जयेत्यत्रापि संबद्ध्यते, ततश्च लज्जावशाभवनहंसानपि सशब्देन चरणेन ततो विसर्जयन्ती । चरणे नपुरशब्दो नास्ति मन्ये तस्मात्स्थानादपसरणस्यैव स शब्द इत्याशयः । एवं सर्वत्र 'लज्जया' इत्यस्य संबन्धो बोध्यः । 5 अपसरणार्थं गुप्तं द्रव्यदानम् 'रिश्वत' इति यवनभाषा । अन्योप्यर्थी स्वाभीष्टस्थानादपसर्तुं कस्मैचिद् द्रव्यं ददाति ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० . १ मत्प्रतिमाम्. २ संस्विद्यद्वदन; स्विद्यद्वदन. ३ व्यजनक्षिप्तेन. ४ उपवन. ५ लज्जाकुलितगद्गदतया. ६ चास्याः. ७ दग्ध्वा प्रवहता. ८ कीलिता. ९ आवृता. १० विश्वासपातिभिः.
___(470
कादम्बरी ।
कथायाम