________________
भवन, यादृश्यश्च कथाः समजायन्त । ततः खल्वागते देवे केयूरकेण सह प्रतिनिवृत्याहं तथैव कुसुमशयनीयसमीपे समुपाविशम् । अतिष्ठं च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किं बहुना प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपल्लवम्, नामाक्षरेषु वाणी, प्रीतौ हृदयं देव्याः सकलमेव तं दिवसमभवत् । अपराह्ने च मामेवावलम्ब्य निष्क्रम्य हिमगृहकात्संचरन्ती यदृच्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम । तत्र च सुधाधवलां कालिन्दीजलतर
ङ्गमय्येव मरकतसोपानमालया प्रमदवनवेदिकामध्यारोहत् । तस्यां च मणिस्तम्भावष्टम्भस्थिता स्थित्वा च मुहूर्तमिव हृदयेन सह दीर्घकालमवधार्य किमपि व्याहर्तुमिच्छन्ती निश्चलधृततारकेण निष्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् । विलोकयन्त्येव च कृतसंकल्पा मदनाग्नि प्रवेष्टुमिच्छन्ती सस्नाविव स्वेदाम्भःसोतसि । सोतसेव तरलीकृता समकम्पत । कम्पिताङ्गी च पतनभियेवागृह्यत विषादेन ।
अथ मया विदिताभिप्रायया तन्मुखविनिवेशितनिष्कम्पनयनदत्तावधानया 'आज्ञापय -
***********
एतत्सर्वं श्रूयतामित्यनेनान्वितम् । तत इति । तस्मात्स्थानात्खलु निश्चयेन देवे त्वय्यागते सति केयूरकेण सह प्रतिनिवृत्य प्रश्चाद्गता तथैव पूर्वोक्तरीत्यैव कुसुमशयनीयसमीपे समुपाविशं समुपविष्टा । नवनवान्देवीप्रसादाननुभवन्त्यहं सुखमतिष्ठम् । किं बहुना जल्पितेन । प्रायेण बाहल्येन मम चक्षषि देवीचक्षरिति देवीपदं प्रत्येकमभिसंबध्यते । चक्षरित्यनेन संमखमद्विषयकप्रेक्षणातिशयः । वपषि वपरित्यवियोगातिशयः । करे करपल्लवमिति मद्विषयकः कश्चिच्चमत्कारातिशयः । नामाक्षरेषु वाणीत्यनेन प्रश्नातिशयः । प्रीतौ हृदयमिति रहस्यप्रीत्यतिशयश्च व्यज्यते । देव्याः पूर्वोक्तं सकलमेव तं दिवसमभवत् । अपराहणे च मामेवावलम्ब्यालम्बनीकृत्य हिमगृहकानिष्क्रम्य निर्गत्य यदृच्छया स्वेच्छया संचरन्ती व्रजन्ती निषिद्धपरिजना वल्लभं बालोद्यानं जगाम गतवती । तत्र चेति । तस्मिन्बालोद्याने सुधया पूर्वोक्तया धवलां शुभ्रां प्रमदवनवेदिकामध्यारोहदधिरोहणं कृतवती । मरकतस्य या सोपानमाला तया कालिन्दी यमुना तस्या जलतरङ्गाः प्रचुरा यस्या एवंविधवेव । तस्यां चेति । प्रमदवनवेदिकायां मणिस्तम्भलक्षणो योऽवष्टम्भस्तस्मिन्स्थिता तदाधारेणासेदुषी । विरहातिशयं व्यञ्जयन्नाह - स्थित्वा चेति । मुहूर्तमिव स्थित्वावस्थितिं कृत्वा हृदयेन मनसा सह दीर्घकालमवधार्य निश्चित्य किमपि व्याहर्तुं कथयितुमिच्छन्त्यभिलषन्ती निश्चलं धृता तारका कनीनिका यस्मिन्, निष्पन्दं निश्चलं पक्ष्म नेत्ररोम यस्मिन्नेवभूतेन चक्षुषा नेत्रेण मे मम मुखं सुचिरं बहुकालं व्यलोकयदपश्यत् । विलोकयन्त्येव पश्यन्त्येव कृतः संकल्पो यया सा । संकल्पकार्यमाह - मदनेति । मदन एवाग्निवह्निस्तं प्रवेष्टुं प्रवेशं कर्तुमिच्छन्ती वाञ्छन्ती । एतेन मदनदाहस्यासह्यतातिशयो द्योत्यते । अग्निप्रवेशस्य स्नानपूर्वकत्वादाह - सस्नाविवेति । स्वेदाम्भसो धर्मजलस्य सोतसि प्रवाहे सस्नाविव स्नानं कृतवतीव । एतेन स्वेदातिशयश्च व्यज्यते । सोतसा तरलीकृतेव समकम्पताचलत् । कम्पितमङ्गं यस्या एवंविधा च पतनभियेव विषादेनागृह्यतोपादीयत ।
अथेत्यानन्तर्ये । विदितो ज्ञातोऽभिप्रायो यस्याः सैवंविधया मया तस्या कादम्बर्या मुखे विनिवेशिते स्थापिते निष्कम्पे नयने ताभ्यां कृत्वा दत्तमवधानं यया सा तया 'देवि, मामाज्ञापयाज्ञां देही ति विज्ञापिते -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 कादम्बर्याः पुष्पशय्येत्यर्थः । 2 तस्मिन् समग्रेपि दिने, देव्या मय्येव एकचित्तताभवदित्याशयः । 3 एवंविधयेव सोपानमालया प्रमदवनवेदिकामध्यारोहदिति योजना।
-
-
-
-
पाठा० - १ प्रतिनिवृत्ता. २ पल्लव. ३ आरुरोह. ४ मणिस्थूणावष्टम्भास्थिता. ५ आलोकयन्ती. ६ स्वेदाम्भःसोतसेव.
(पत्रलेखातः कादम्बरीवृत्तश्रवणम् ।
पूर्वभागः ।
1469)