SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ लस्तमालिकाकेयूरकादिपरिजनः ?' इति । साब्रवीत् - 'देव, यथाज्ञापयसि भद्रम । त्वामर्चयति शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादम्बरी' इति । एवमुक्तवतीं पत्रलेखामादाय मन्दिराभ्यन्तरं विसर्जितराजलोको विवेश। तत्र चोत्ताम्यता मनसा धारयितुमपारयन्कुतूहलमतिप्रीत्या दूरमुत्सारितपरिजनः प्रविश्यागारमचिरप्ररूढायाः स्थलकमलिन्याः पृथुभिरुन्नालैः पलाशैर्विरचितातपत्रकृत्याया अध्यास्य मध्यभागमन्यतरस्य मरकतपताकायमानस्य पैत्रमण्डपस्य तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंसमिथुनमुपविश्याप्राक्षीत् - 'पत्रलेखे, कँथय कथमसि स्थिता ? कियन्ति वा दिनानि ? कीदृशो वा देवीप्रसादः ? का वा गोष्ट्यः समभवन् ? कीदृश्यो वा कथाः समजायन्त ? को वातिशयेनास्मान्स्मरति ? कस्य वा गैरीयसि प्रीतिः ?' इति । एवं पृष्टा च व्यजिज्ञपत् - 'देव, दत्तावधानेन श्रूयताम्, यथास्थितास्मि, यावन्ति वा दिनानि, यादृशो वा देवीप्रसादः, यथा वा गोष्ट्यः सम I स्तमालिकाकेयूरकादिपरिजनः । साब्रवीदवोचत् । हे देव, यथाज्ञापयस्याज्ञां करोषि तथा भद्रं कुशलं वर्तते । शेखरीकृतो. योऽञ्जलिस्तेन कृत्वा ससखीजना सवयस्या सपरिजना सपरिच्छदा च देवी कादम्बरी त्वां भवन्तमर्चयति पूजयति । इत्येवमुक्तवतीं कथितवतीं पत्रलेखामादाय गृहीत्वा । विसर्जितेति । विसर्जितो राजलोको येनैवंभूतो मन्दिराभ्यन्तरं विवेश प्रविष्टवान् । तत्र चेति । तस्मिन्नेव स्थल उत्ताम्यता विरहेणोत्तपता मनसा चेतसा कुतूहलमाश्चर्यं धारयितुं सम्यक्तया ज्ञातुमपारयन्त्रशक्नुवन्, अतिप्रीत्यातिस्नेहेन दूरमुत्सारितो विसर्जितः परिजनो येनैवंभूतोऽगारं गृहं प्रविश्य प्रवेशं कृत्वा पृथुभिर्विस्तीर्णैरुन्नालैः पलाशैः पत्रैर्विरचितं विहितमातपत्रकृत्यं छत्रकार्यं ययैवंविधायाः स्थलकमलिन्या मध्यभागमध्यास्याश्रित्यान्यतरस्य पूर्वोक्तस्य भिन्नस्य मरकतस्याश्मगर्भस्य या पताका वैजयन्ती तद्वदाचरमाणस्य पत्रमण्डपस्य तले सुखप्रसुप्तं हंसमिथुनं चरणारविन्देन समुत्सार्य दूरीकृत्य तत्रोपविश्याप्राक्षीत्प्रश्नमकार्षीत् । हे पत्रलेखे, कथय प्रतिपादय । कथं केन प्रकारेण स्थितासि । कियन्ति वा दिनानि वासराणि । स्थितेति शेषः । कीदृशः, पूर्वस्मादधिको न्यूनो वा देव्याः कादम्बर्याः प्रसादः प्रसन्नता । का वा गोष्ठ्योऽन्योन्यसंलापाः समभवन्संजाताः । कीदृश्यो वा कथाः सखीनां वार्ताः समजायन्त समभवन् । को वातिशयेन बाहुल्येनास्मान्स्मरति स्मरणविषयीकरोति । कस्य वा गरीयसि महीयसि मयि विषये प्रीतिः स्नेहः । इत्येवमुना प्रकारेण पृष्टा प्रश्नविषयीकृता च व्यजिज्ञपन्यवेदयत् । तदेवाह - देवेति । हे देव, दत्तावधानेन चित्तैकाग्रेण श्रूयतामाकर्ण्यताम् । देव दर्शयति - यथेति । यावन्ति दिनान्यहं स्थितास्मि, यादृशो वा देवीप्रसादः, यथा गोष्ठ्यः समभवन्, यादृश्यश्च कथाः समजायन्त टिप्पo - 1 संवतुमशक्नुवन्नित्यर्थो वक्तव्यः । 2 चरित्रनेता चन्द्रापीडः स्वाननादेव स्वकीयां महत्तां प्रभाषेतेति सर्वथाऽसंभवितम्, 'सारस्वतावतार' इति बिरुदभूषितः टीकाकारमहर्षिरपि पामरोचितां तादृशीं वाणीं नायकमुखान्नाभिवाचयेत्, निश्चेऽयं लेखकदोषः, स च परिमार्जनीयः । अत्र 'गरियसि ' 'महियसि' इति 'मयि' पदस्य विशेषणत्वेन सप्तम्येकवाच्ये प्रकटिते; किन्तु द्वे अमुनी पदे 'प्रीतिः' इति पदस्य विशेषणत्वेन नियोजनादर्थसंगतिः दृश्यत अत एवाऽत्र 'गरीयसी' 'महीयसी' एवं स्त्रीत्वेन योज्ये पदे इमे । पाठा० - १ केयूरकादिः; केयूरकादिकः २ त्वामेव. ३ अजिर; अगाररूढायाः ४ उपरचित. ५ कृत्यस्य ६ शयनमण्डपस्य तालस्य तले. ७ आगते मयि कथय ८ यो वातिशयेन तव स्मरति यस्य वा त्वयि गरियसी प्रीतिरस्तीति. ९ मयि गरियसी. 468 कादम्बरी । कथायाम्
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy