SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ कादम्बरी पूर्वभागः । रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे । अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ १ ॥ *********** श्रेयःश्रीललनाविलासकुशलः पायादपायात्स वः श्रीमन्नाभिनरेन्द्रसनुरमरैः संसेव्यमानान्तिकः । रेजे यस्य कचावली भुजशिरोदेशे लुठन्ती प्रभोलग्ना शैवलमञ्जरी भवसरित्पारं प्रयातुः किमु ॥ सर्वेऽन्ये जनतानिषेविततया मानाभिभूता भृशं मन्यन्ते तृणवत्रिलोकमखिलं दुर्बुद्धिबद्धाशयाः । कृत्स्नैश्चर्यजुषापि येन सुधिया देवेन्द्रसेव्याङ्ग्रिणा नैवाकारि कदापि गर्वमलिनं चेतः स शान्तिः श्रिये ।। यत्कीर्तिर्धवलीचकार सहसा ब्रह्माण्डभाण्डोदरं दाशार्होऽपि तदन्तरा निपतितः सद्यो न संलक्षितः । तेनाद्यापि निरीश्वरं जगदिदं जल्पन्ति सांख्यादयः स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्दा मुदम् ।। मूर्ध्नि न्यस्तद्विजिह्वाधिपतिफणगणस्पष्टसंरम्भदम्भाद्धत्ते यः सप्तविश्वाद्भुतपरममनोहारिसाम्राज्यलक्ष्मीम् । नम्रालुस्वर्गिमौलिप्रकरमणिलसत्कान्तिभिश्चित्रिताङ्ग्रिः स श्रीपार्धाधिराजो भवतु भवभिदे पार्श्वसंसेव्यमानः ।। यद्वाचामधिकां विलासपदवीमीहेद् भृशं भारती यत्सत्त्वैकपरम्परां कलयितुं सिंहोऽङ्कदम्भादियात् । यत्सौन्दर्यदिदृक्षयेव समभूदक्ष्णां सहसं हरेः स श्रीवीरविभुर्ददातु भविनां शश्चन्मनोवाञ्छितम् ॥ श्रीमत्तपःपक्षसहसदीधितिः श्रीहीरसूरिः समभून्महोदयः । यद्वक्त्रसौन्दर्यगुणं विलोकयन्ययौ सुरौघः किमु निर्निमेषताम् ॥ अनन्यसौजन्यगुणैर्गरीयान्विशिष्टशिष्टाचरणैर्वरीयान् । तत्पट्टपाथोनिधिपूर्णचन्द्रो विराजते श्रीविजयादिसेनः ॥ तत्पट्टोदयचूलावलम्बिपूर्णेन्दुसंनिभः श्रीमान् । श्रीविजयतिलकसूरि रिगुणैर्भूषितो जयति । तत्संप्रदाये प्रथितप्रभावो बभूव दानर्षिरतिप्रसिद्धः । यदीयवैराग्यकथा प्रवक्तुं प्राप्तो गुरुः किं हरिसंनिधानम् ॥
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy