________________
समये भवतां पुनः कृतमूलफलाशनानां विसब्धोपविष्टानामादितः प्रभृति सर्वमावेदयिष्यामि योऽयम्, यच्चानेन कृतमपरस्मिञ्जन्मनि, इह च लोके यथास्य संभूतिः अयं च तावदपगतक्लमः क्रियतामाहारेण । नियतमयमप्यात्मनो जन्मान्तरोदन्तं स्वप्नोपलब्धमिव मयि कथयति सर्वमशेषतः स्मरिष्यति' इत्यभिदधदेवोत्थाय सह मुनिभिः स्नानादिकमुचितदिवसव्यापारमकरोत् ।
अनेन च समयेन परिणतो दिवसः स्नानोत्थितेन मुनिजनेनार्यविधिमुपपादयता यः क्षितितले दत्तस्तमम्बरतलगतः साक्षादिव रक्तचन्दनाङ्गरागं रविरुदवहत् । ऊर्ध्वमुखैरर्कबिम्बविनिहितदृष्टभिसैष्मपैस्तपोधनैरिव परिपीयमानतेजःप्रसरो विरलौतपस्तनिमानमभ -
***********
दिवसव्यापार दिनकृत्यमाचरन्तु समाचरन्तु । अपराह्नेति । अपराह्नसमये द्विप्रहरानन्तरसमये भवतां युष्माकम् । पुनरिति । पुनः द्वितीयवारं कृतं विहितं मूलफलयोरशनं भक्षणं यैस्ते तथा तेषाम् । विसब्धेति । विसब्धं सावधानं यथा स्यात्तथोपविष्टानां स्थितानाम् ।
आदित इति । आदितः प्रारम्भतः प्रभृति सर्वं वृत्तान्तमावेदयिष्यामि निवेदयिष्यामि । योऽयमिति । यश्चायं पूर्वजन्मन्यासीत् । यच्चानेनापरस्मिञ्जन्मनि परभवे कृतम् । इह चेति । इह लोके यथा येन प्रकारेणास्य संभूतिरुत्पत्तिः । अयं चेति । तावदादावयं शुकः आहारणाशनेनापगतक्लमो व्यपगतपरिश्रमः क्रियतां विधीयताम् । नियतेति । नियतं निश्चितं मयि कथयत्ययं शुकः अपि आत्मनः स्वकीयस्य जन्मान्तरोदन्तं परभववृत्तान्तं स्वप्नोपलब्धमिव स्वप्नदृष्टवत्सर्वं समग्रमशेषत आमूलचूलतः स्मरिष्यति स्मरणविषयीकरिष्यति । इतीति । इति पूर्वोक्तमभिदधदेव कथयनेवोत्थायोत्थानं कृत्वा । सहेति । सह समं मुनिभिस्तपस्विभिरुचितं योग्यं दिवसव्यापार स्नानादिकमकरोनिर्ममें।
अनेन चेति । अनेन समयेन मध्याह्नसमयकर्तव्यकर्मणा परिणतः परिपाकं गतो दिवसः । परिणते दिवसे सूर्यस्य रक्तत्वात्तद्वर्णनमाह - स्नानोत्थितेनेति । अम्बरतलगतो रविस्तं रक्तचन्दनाङ्गरागं साक्षादिव प्रत्यक्षसिद्धमुनिप्रत्यर्पितमूर्तिरुपेणैवोदवहदधारयत् । तं कम् । यः स्नानोत्थितेन मुनिजनेन तपस्विवर्गेणार्यविधिं रक्तचन्दनरक्तपुष्पादिना पूजाविधिमुपपादयता निष्पादयता क्षितितले दत्तोऽर्पितः । सूर्यायेति शेषः । सायंकाले सूर्यस्य रक्तत्वान्मुनिप्रदत्तो रागः किमनेन साक्षादिव गृहीत इत्युत्प्रेक्षा । ऊर्ध्वमुखैरिति । ऊर्ध्वमुखैरुवा॑ननैः । अर्केति । अर्कबिम्बे सूर्यबिम्बे विनिहिता स्थापिता दृष्टियेस्ते तथा तैरूष्मपैरुष्मा वह्निज्वाला तस्यानुकारिभिस्तपोधनैरिव परिपीयमान आस्वाद्यमानतेजःप्रसरः कान्तिप्रचारो यस्य स तथा । विरलेति । विरलः स्वल्प -
- - - - - - - - - - - - - - - - - - -- -- - -- - - - - - - - - - - - - - - - - - टिप्प० - 1 विश्वस्ततया, सुस्थभावेन उपविष्टानामित्यर्थः । 2 सायंकाले मन्दातपः सूर्यो यत्कृशतां भजते तत्र हेतुरुप्रेक्ष्यते - सूर्यनिहितदृष्टिभिः सूर्योत्ताप
भिः समग्र दिन यावत स ऊष्मा पीतः, अत एव सायं रविस्तनुतामभजदिति । टीकार्थस्तु प्रबोधक एव तथाऽपि विश्लिष्टमस्माभिः ।
पाठा० - १ कृतफलमूलाशनानाम्. २ आवेदयिष्यामः. ३ कृतमनेन. ४ लोके च यथा; लोके यथा. ५ जन्मान्तरवृत्तम्. ६ तैर्मुनिभिः. ७ स्नानादिकमुचितं दिवस; स्नानादिकम् दिवस. ८ अनेन समयेन. ९ अधोदत्तः. १० अम्बरतलम् अस्ताचल. ११ निहित. १२ ऊष्मपैः. १३ विरलातपो दिवसः.
सन्ध्यावर्णनम् ।
। पूर्वभागः ।
103