________________
करतलगतमिव जगदवलोकयति । वेत्ति जन्मान्तराण्यतीतानि । कथयत्यागामिनमप्यर्थम् । ईक्षणगोचरगतानां च प्राणिनामायुषः संख्यामावेदयति । सर्वैव सौ तापसपरिषच्छ्रुत्वा विदिततत्प्रभावा ‘कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, जन्मान्तरे वा कोऽयमासीत्' इति कौतूहलिन्यभवत् । उपनाथितवती च तं भगवन्तम् ‘आवेदय, प्रसीद भगवन्, कीदृशस्याविनयस्य फलमनेनार्नुभूयते । कञ्चायमासीजन्मान्तरे । विहगजातौ वा कथमस्य संभवः । किमभिधानो वायम् । अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां भगवान्प्रभवः ।
इत्येवमुपयाच्यमानस्तपोधनपरिषदा स महामुनिः प्रत्येवदत् - 'अतिमहदिदमाश्चर्यमाख्यातव्यम् । अल्पशेषमहः । प्रत्यासीदति च नः स्नानसमयः । भवतामप्यतिक्रामति देवार्चनविधिवेला । तदुत्तिष्ठन्तु भवन्तः । सर्व एवाचरन्तु यथोचितं दिवसव्यापारम् । अपराह्न -
***********
ज्ञानात्मकेन चक्षुषा दृष्टवा सर्वमेव समग्रमेव जगत्करतलगतमिव हस्तन्यस्तमिवावलोकयति पश्यति । वेत्तीति । अतीतानि गतानि जन्मान्तराणि भवान्तराणि वेत्ति जानाति । कथयतीति । आगामिनं भाविनमर्थमपि कथयति ब्रवीति । ईक्षणेति । ईक्षागोचरगतानां नयनपथप्राप्तानां प्राणिनां सत्त्वानामायुषो जीवितव्यस्य संख्यां परिमाणमावेदयति निवेदयति । सर्वैवेति । सर्वैव समग्रैव सा तापसपरिषन्मुनिसभा श्रुत्वाकर्ण्य । पूर्वोक्तमिति शेषः । विदितेति । विदितो ज्ञातस्तस्य जाबालिमुनेः प्रभावो माहात्म्यं यया सा तथेति कौतूहलिनी कौतुकवत्यभवदित्यन्वयः । इतिशब्दवाच्यमाह - कीदृश इति । कीदृशः कीदृगविनयाऽपराधविशेषोऽनेन शुकशिशुना कृतो विहितः । किमर्थं किंप्रयोजनं वा कृतः । क वा कस्मिन्प्रदेशे कृतः । जन्मान्तरे भवान्तरेयं क आसीदभवत् । सर्वत्र वाशब्दो विकल्पार्थः । उपेति। उपनाथितवती । 'नाच याचने' इत्यस्य धातो रूपम् । याचित्रवतीत्यर्थः । च पूर्वोक्तसमुच्चये । तं भगवन्तं जाबालिमुनिम् । किं याचितवतीत्याशयेनाह - आवेदयेति । हे भगवन्, आवेदय कथय । प्रसीद प्रसन्नो भव । पूर्वोक्ताभिप्रायस्थप्रश्नानुवदन्नाह - कीदृशस्येति । कीदृशस्य किंरुपस्याविनयस्य फलमनेनानुभूयते । कश्चेति । जन्मान्तरेऽयं क आसीत् । विहगेति । विहगजातौ पक्षिजातौ कथमिति केन प्रकारेण अस्य संभव उत्पत्तिः । किमिति । अयं किमभिधानः किंनामा । अपनयत्विति । नोऽस्माकं कुतूहलमाश्चर्यमपनयतु दूरीकरोतु । आश्चर्याणामिति । हि भगवान्, सर्वेषां समग्रामामाश्चर्याणां कुतूहलानां प्रभव उत्पत्तिस्थानम् । अपूर्वार्थज्ञापक इति यावत् ।।
इत्येवमिति । इत्येवं अनेन प्रकारेण तपोधनपरिषदा मुनिसभयोपयाच्यमानः प्रार्थमानः स महामुनिः प्रत्यवदत्प्रत्यवोचत् । अतीति । इदमाश्चर्यमतिमहदतिमहीयस्तयाख्यातव्यं कथनीयम् । मयेति शेषः । अल्पेति । अहर्दिनमल्पशेषमल्पावशिष्टम् । प्रत्येति । नोऽस्माक स्नानसमय आप्लवकालः प्रत्यासीदति विलम्बितो भवति । भवतामिति । भवतामपि युष्माकमपि देवार्चनविधिवेला देवपूजाक्षणोऽतिक्रामत्युल्लङ्घिता भवति । तदिति हेत्वर्थे । उत्तिष्ठन्तूत्थानं कुर्वन्तु भवन्तो यूयम् । सर्व एवेति । यथोचितं यथायोग्यं - - - - - - - --
- - - - - - - - - - - - - टिप्प० -1 'असकृदुपयाचितवती' इत्यपि पाठान्तरोऽवलोक्यते कुत्रचिद् ।
-
-
-
-
-
-
-
-
पाठा० - १ आलोकयति. २ वेत्ति च जन्मान्तराण्यपि. ३ प्रमाणम्. ४ यतः सर्वैव; ततः सर्वैव. ५ तापसपरिषत्; सतापसपरिषत्. ६ जन्मान्तरे को. ७ कुतूहलिनी. ८ असकूदुण्याचितवती; इत्युपनाथितवती; उपेत्यार्थितवती. ९ भुज्यते. १० जातौ कथम् जातौ च कथम्. ११ उपयाच्यमानस्तु उपयाचितः १२ रक्ताऽशोकतरु. १३ देवार्चनवेला. १४ एव तावत्.
(102)
कादम्बरी।
कथामुखे