________________
जनितक्लान्तिरुत्तप्तपांसुपटलमध्यगतो दूरनिपेतनविह्वलतनुरल्पावशेषायुरासादितस्तपस्विदुरारोहतया च तस्य वनस्पतेर्न शक्यते स्वनीडमारोपयितुमिति जातदयेनानीतः । तद्यावदयमप्ररूढपक्षतिरक्षमोऽन्तरिक्षमुत्पतितुं तावदत्रैव कस्मिंश्चिदाश्रमतरुकोटरे मुनिकुमारकैरस्माभिश्चोपनीतेन नीवारकणं निकरेण फैलरसेन च संवर्ध्यमानो धारयतु जीवितम् । अनाथपरिपालनं हि धैर्मोऽस्मद्विधानाम् । उद्भिन्नपक्षतिस्तु गगनतलसंचैरणसमर्थो यास्यति यंत्रास्मै रोचिष्यते । इहैव वोर्पजार्तपरिचयः स्थास्यति' इत्येवमादिकमस्मंत्संबद्धालापमाकर्ण्य किंचिदुपजातकुतूहलो भगवाञ्जाबालिरीषदावलितकंधरः पुण्यजलैः प्रक्षालयन्निव मामतिप्रशान्तया दृष्ट्या दृष्ट्वा सुचिरमुपजातप्रत्यभिज्ञान इव पुनःपुनर्विलोक्य 'स्वस्यैवाविनयस्य फलमनेनानुभूयते ' इत्यवोचत् । स हि भगवान्कलत्रयदर्शी तपःप्रभावाद्दिव्येन चक्षुषा सर्वमेव -
***********
उत्तप्तेति । उत्तप्त उष्णीभूतो यः पांसुपटलो धूलीसमूहस्तस्य मध्यगतोऽभ्यन्तरवर्ती । दूरेति । दूराद्दविष्ठाद्य त्रिपतनमधः संयोगफलिका क्रिया तेन विह्वला व्याकुला तनुर्देहो यस्य स तथा । अल्पेति । अल्पं स्वल्पमवशेषमायुर्जीवितं यस्यैवंभूत आसादितो लब्धः । तपस्वीति । तपस्विभिर्मुनिभिर्दुरारोहतया दुःखेनारोढुं शक्यतया तस्य वनस्पतेः शाल्मलीवृक्षस्य स्वनीडं स्वकुलायमारोपयितुं स्थापयितुं न शक्यते न समर्थीभूयत इति हेतोः । जातदयेनेति । जातोत्पन्ना दया करुणा यस्यैवंभूतेनानीताऽत्रानीतः । मयेति पूर्वोक्तमेवेति न पुनरुच्यते । तद्यावदिति । तदिति हेत्वर्थे । यावत् यावत्कालम् । अयमिति पूर्वोक्तः । अप्ररूढेति । अप्ररूढाऽनुत्पन्ना पक्षतिः पक्षमूलं यस्य सः । अक्षमेति । अन्तरिक्षमाकाशमुत्पतितुमक्षमोऽसमर्थः । तावदिति । तावत्कालम् । अत्रैवेति । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थं । कस्मिंश्चिदिति । कस्मिंश्चित् अनिर्दिष्टनामन्याश्रमतरुकोटरे मुनिवसतिवृक्षनिष्कुहे मुनिकुमारकैस्तापसशिशुभिरस्माभिश्चोपनीतेन आनीतेन । नीवारेति । नीवारो वनव्रीहिस्तस्य कणनिकरेण सस्यसमूहेन फलरसेन सस्यद्रवेण च संवर्ध्यमानो वृद्धिं प्राप्यमानो धारयतु दधातु जीवितं प्राणितम् । अनाथेत्यादि । हि यस्माद् हेतोरस्मद्विधानां तपस्विनामनाथपरिपालनं दीनजनरक्षणं धर्म आचारः । तु पुनरर्थे । उद्भिन्नेति । उद्भिन्ना प्रकटीभूता पक्षतिर्यस्यैवंभूतः । गगनेति । गगनतलमाकाशतलं तत्र संचरणं गमनं तत्र समर्थः क्षमः । यंत्रेति । यत्र यस्मिन्देशेऽस्मै शुकशिशवे रोचिष्यते रुचिरभिलाष उत्पत्स्यते तत्र यास्यति गमिष्यति । रुच्यर्थानां धातुभियोगे चतुर्थी । इहैवेत्यनास्थायाम् । उपजातपरिचयः संजातसंस्तवः स्थास्यत्यवस्थानं करिष्यति । इत्येवमादिकमस्मत्संबद्धमिति मद्विषयकमालापं प्रश्नोत्तररूपमाकर्ण्य श्रुत्वा । किंचिदिति । किंचिदीषदुपजातमुत्पन्नं कुतूहलमाश्चर्यं यस्य स तथा भगवान्माहात्म्यवान् जाबालिः जाबालिनामा मुनिः । ईषदिति । ईषत्किंचिदावलिता नमिता कन्धरा ग्रीवा यस्य स तथा । इदं तु सावधानलक्षणम् । पुण्येति । पुण्यजलैः पवित्रपानीयैः प्रक्षालयन्निव धावयन्निव मामतिप्रशान्तयातिप्रसन्नया दृष्टया दृशा सुचिरं चिरकालं दृष्ट्वा विलोक्य । उपेति । उपजातं समुत्पन्नं प्रत्यभिज्ञानम् 'सोऽयं देवदत्तः' इत्याकारं ज्ञानं यस्य स तथा तद्वदिव पुनःपुनर्वारंवारं विलोक्य निरीक्ष्य स्वस्यैवात्मन एवाविनयस्याशिष्टाचारस्य फलं भोगोऽनेन शुकशिशुनानुभूयते साक्षात्क्रियत इति तानवोचदब्रवीत् । कथं मुनिर्जानातीत्याशयेनाह सहीति । यतः हि निश्चितम् । स भगवान् । कालेति । कालत्रयस्यातीतानागतवर्तमानलक्षणस्य दर्शी पश्येकः । तप इति । तपःप्रभावाद्दिव्येन
टिप्प० - 1 'दर्शक:' इत्युचितम् ।
-
पाठा० - १ निपतित. २ तपस्विदुरारोहतया तस्य. ३ अन्तरिक्ष. ४ विविधफलरसेन. ५ धर्मोऽस्ति. ६ संचलन. ७ चास्मै ८ समुपजात. ९ विसम्भः १० संबद्धमालापम्. ११ कौतूहल : १२ दृष्ट्या सुचिर १३ अभिजातप्रत्यभिज्ञः. १४ त्रिकाल.
(शुकस्य स्ववृतान्तः
पूर्वभागः ।
101