________________
मृणालकलापाशङ्किभिः शैशिकरधवलं सैटाभारमामीलितलोचनो बहु मन्यते द्विरदैकलभैराकृष्यमाणं मृगपतिः । इदमिह कपिकुलमपगतचापलमुपनयति मुनिकुमारकेभ्यः स्नातेभ्यः फलानि । एते च न निवारयन्ति मदान्धा अपि गण्डस्थलीभाञ्जि मदजलपाननिश्चलानि मधुकरकुलानि संजीतदयाः कर्णतालैः करिणः । किं बहुना, तापसाग्निहोत्र - धूमलेखार्भिरुत्सर्पन्तीभिरनिशमुपपादितकृष्णाजिनोत्तरासङ्गशोभाः फलमूलभृतो वैल्कलिनो निश्चेतनास्तरवोऽपि सनियमा इ॑व लक्ष्यन्तेऽस्य भगवतः । किं पुनः सचेतनाः प्राणिनः' इति ।
एवं चिन्तयन्तमेव मां तस्यामेवाशोकतरोरधश्छायायामेकदेशे स्थापयित्वा हारीतः पादावुपगृह्य कृताभिवादनः पितुरनतिसमीपवर्तिनि कुशासने समुपाविशत् । आलोक्य तु मौं सर्व एव मुनयः 'कुतोऽयमासादितः शुकशिशुः' इति तमासीनमपृच्छन् । असौ तु तानब्रवीत् 'अयं मया स्नातुमितो गतेन कैमलिनीसरस्तौरतरुनीडनिपतितः शुकशिशुरात -
वर्ती । मृणेति । मृणालानां बिसानां कलापं समूहमाशङ्कत इत्येवंशीलास्तैः । द्विरदेति । द्विरदा गजास्तेषां कलभा बालकास्तैराकृष्यमाणमवकृष्यमाणं शशिकरश्चन्द्रस्तबद्धवलं शुभ्रं सटाभारं केसरकलापम् । आमीलीति । आ ईषन्मीलिते लोचने येनैवंभूतो बहुमन्यते सुखत्वेन जानातीत्यर्थः । इदमिति । इहास्मिंस्तपोवन इदम् । अपेति । अपगतं चापलं चाञ्चल्यं, यस्यैवंभूतं कपिकुलं वानरयूथम् । स्नातेभ्यः कृताप्लवेभ्यः । मुनीति । मुनीनां तपस्विनां कुमारका बालास्तेभ्यः फलानि सस्यान्युपनयति ढौकयति । एते चेति । एते करिणो हस्तिनो मदान्धा अपि मदोन्मत्ता अपि गण्डस्थलीभाजि करटस्थलभाञ्जि । मदेति । मदजलस्य दानवारिणः पानं प्राशनं तेन निश्चलानि स्थिराणि मधुकराणां भ्रमराणां कुलानि समूहान् संजातदयाः समुत्पन्नकरुणाः कर्णतालैः श्रवणचपेटैर्न निवारयन्ति न दूरीकुर्वन्ति। किं बह्विति । किं बहुना किं बहु जल्पितेन । स्तोकेनैवोच्यत इति भावः । तापसेति । उत्सर्पन्तीभिरूर्ध्वं व्रजन्तीभिस्तापसानां यदग्निहोत्रं तस्य या धूमलेखा दहनकेतनराजयस्ताभिरनिशं निरन्तरम् । उपेति । उपपादिता विहिता कृष्णं श्यामं य चर्म तस्योत्तरासङ्गो वैकक्ष्यं तस्य शोभा येषां ते तथा फलमूलभृतो वल्कलिनो निश्चेतना ज्ञानरहिता अस्य भगवतस्तरवोऽपि वृक्षा अपि सनियमा इव व्रतिन इव लक्ष्यन्तेऽवलोक्यन्ते । सचेतना ये प्राणिनो मनुजादयस्तेषां किं पुनः किं भण्यते किं कथ्यते । ते त्वेतादृशा भवन्त्येवेति भावः ।
अथ हारितः किं कृतवानित्याह - एवमिति । एवं पूर्वोक्तप्रकारेण चिन्तयन्तं विचारयन्तं मां तस्यामेवाशोकतरोरधश्छायायामेकदेश एकस्मिन्प्रदेशे स्थापयित्वा संस्थाप्य हारीतः हारीतनामा मुनिः । पादाविति । पादौ चरणावुपगृह्य पादयोः पतित्वा । कृतेति । कृतं विहितमभिवादनं येनैवंभूतः पितुर्जनकस्यानतिसमीपवर्तिनि नातिनिकटवर्तिनी कुशासने दर्भविष्टरें समुपाविशदुपविष्टवान् । आलोक्येति । आलोक्य निरीक्ष्य । तु पुनरर्थे । मां सर्व एवं समग्रा एव मुनयो ऋषयः कुतः कस्मात्प्रदेशादयं शुकशिशुरासादितः प्राप्त इति तमासीनमुपविष्टं हारीतं मुनिमपृच्छन्नप्राक्षुः । असौ हारीतः । तु पुनरर्थे । तान्मुनीनब्रवीदुवाचेत्यर्थः । किमुवाचेत्याह - अयमिति । अयं शुकशिशुर्मया स्नातुं स्नानार्थमितोऽस्मात् प्रदेशात् गतेन प्राप्तेन । कमलिनीति । कमलिनीसरः पद्मसरस्तस्य तीरतरुः प्रतीरवृक्षस्तस्मिन्यो नीडः कुलायस्तस्मान्निपतितः सस्तः । आतपेति । आतपेनालोकेन जनितोदिता क्लान्तिः श्रमाधिक्यं यस्य स तथा । पाठा० - १ मृणालशङ्किभिः. २ शिशिरकर; शिशिरकलापकर. ३ जटा. ४ कलभकैः. ५ कुमारेभ्यः. ६ जातदयाः. ७ तपसा. ८ उत्सर्पन्तीभिरुपपादित; सर्पन्तीभिरहर्निशमुपपादित. ९ शोभनाः १० वल्कलिनस्तरव ११ इवास्य भगवतः समीपवर्तिनोऽत्र लक्ष्यन्ते; इव लक्ष्यन्तेऽस्य भगवतः समीपवर्तिनः १२ प्राणिन एवम् १३ तस्यैव रक्ताशोकतरोश्छायायाम्. १४ मां ते. १५ मुनयः सर्व एव १६ शिरस्तरु; सरसस्तीरतरु. १७ नीडपतितः.
100
कादम्बरी |
कथामुखे