________________
न्धकारस्य, अर्गलाबन्धो नरकद्वाराणाम्, कुलभवनमाचाराणाम्, आयतनं मङ्गलानाम्, अभूमिर्मदविकाराणाम्, दर्शकः सत्पथानाम्, उत्पत्तिः साधुतायाः नेमिरुत्साहचक्रस्य, आश्रयः सत्त्वस्य, प्रतिपक्षः कलिकालस्य, कोशस्तपसः, सखा सत्यस्य, क्षेत्रमार्जवस्य, प्रभवःपुण्यसंचयस्य, अदत्तावकाशो मत्सरस्य, अरातिर्विपत्तेः, अस्थानं परिभूतेः, अननुकूलोऽभिमानस्य, असंमतो दैन्यस्य, अनायत्तो रोषस्य, अनभिमुखः सुखानाम् । अस्य भगवतः प्रसादादेवोपैशान्तवैरमपगतमत्सरं तपोवनम् । अहो प्रभावो महात्मनाम् । अत्र हि शाश्वतिकमपहाय विरोधमुपशान्तात्मानस्तियञ्चोऽपि तपोवनवसतिसुखमनुभवन्ति । तथा हि एष विकचोत्पलवनरचनानुकारिणमुत्पतच्चारुचन्द्रकशतं हरिणलोचनद्युतिशबलमभिनवशाद्वलमिव विशति शिखिनः कलापमातपाहतो निःशङ्कमहिः । अयमुत्सृज्य मातरमजातकेसरैः केसरिशिशुभिः सहोपजातपरिचयः क्षरक्षीरधारं पिबति कुरङ्गशावकः सिंहीस्तनम् । एष -
***********
गृहम् । मदविकाराणामहंकारवृत्तीनामभूमिरुषरक्षेत्रम् । सत्पथानां शोभनमार्गाणां दर्शक उपदेष्टा । साधुतायाः शुभावस्थोत्पत्तिः । उत्साहः प्रगल्भता स एव चक्र तस्य नेमिर्धारा । सत्वस्य धैर्यस्याश्रय आधारः । कलिकालस्य कलियुगस्य प्रतिपक्षः शत्रुः । तपसः प्रसिद्धस्य कोशो भाण्डागारम् । सत्यस्य सखा मित्रम् । आर्जवस्य मार्दवस्य क्षेत्रं सस्योत्पत्तिस्थलम् । पुण्यसंचयस्य धर्मसमूहस्य प्रभव उत्पत्तिस्थलम् । मत्सरस्ीया अदत्तावकाशः । विपत्तेरापदोऽरातिः शत्रुः । परिभूतेः पराभवस्यास्थानमपदम् । अभिमानस्याहंकृतेरननुकूलोऽहितकारकः । दैन्यस्यासमतोऽस्वीकृतः । रोषस्यानायत्तोऽनधीनः । सुखानामनभिमुखः पराङ्मुखः । अस्येति । अस्य भगवतो मुनेः प्रसादादेव माहात्म्यादेव उपशान्तं शान्ति प्राप्तं वैरं विरोधो यस्मिन् । अपेति । अपगतो दूरीभूतो मत्सरः परगुणोत्कर्षासहनं यस्मिन्नेवभूतं तपोवनम् । वर्तत इति क्रियाध्याहारः । अत्रार्थे साधारणं कारणमाह - अहो इति । अहो इत्याश्चर्ये । महात्मनां महानुभावानां प्रभावो माहात्म्यम् । एतदेव विशेषतो दर्शयन्नाह - अत्रेति । हि निश्चितम् । अत्र तपोवने शाश्चतिकं सदातनं विरोधं वैरमपहाय दूरीकृत्योपशान्तात्मानः प्रशान्तात्मानस्तिर्यञ्चोऽपि पशवोऽपि तपोवनवसतिसुखं मुनिस्थाननिवाससातमनुभवन्त्यनुभवविषयीकुर्वन्ति । तदेव दर्शयन्नाह - तथेति । तथा हि । एषोऽहिः सर्पो विकचं विकसितं यदुत्पलं नीलकमलं तस्य वनं तस्य या रचना निर्मितिस्तदनुकरोत्येवंशील तत्तथा । उत्पतदिति । उत्पतदूर्ध्वं गच्छच्चारु मनोहारि चन्द्रकशतं मेचकशतं यस्मिन् । हरिणेति । हरिणस्य मृगस्य या लोचनद्युतिनेत्रकान्तिस्तद्वच्छबलं कर्बुरमेवंभूतं शिखिनो मयूरस्य कलाप प्रचलाकमातपेन सूर्यालोकेनाहतः पीडितो निःशङ्क निर्भय विशति प्रविशति । कमिव । अभिनवः प्रत्यग्रः शादाः शष्पाणि सन्त्यत्रेति शाद्वलो हरितप्रदेशस्तमिव । अयमिति । अयं कुरङ्गशावको मातरमम्बामुत्सृज्य विहायाजातकेसरैरनुत्पन्नसटैः केसरिशिशुभिरिभारिबालकैः सह समुपजातः समुत्पन्नः परिचयः संस्तवो यस्यैभूतः सिंहीस्तनं पिबति पानं करोति । क्षरन्तीति । क्षरन्ती खवन्ती क्षीरधारा यस्मिन् । ‘गोखियोरुपसर्जनस्य' इति इस्वः । एष इति । एष समीप -
-
- -
- -- -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- - - - - - - - टिप्प० - 1. बहभारमित्यर्थं ।
पाठा० - १ नरकपुरद्वाराणाम्. २ आदर्शः; सर्वविद्यानामुत्पत्तिः. ३ प्रसवः; प्रभावः. ४ अवशोविषयाणामनभिमुखः; अनवकाशो विषयाणामनभिमुखः. ५ प्रभावात्. ६ एतदपि. ७ उपशान्तान्तरात्मानः. ८ उत्पलिनीवनानुकारिणम्. ९ अधिवसति; आवसति. १० कलापमाहतः. ११ अनुपजात. १२ प्रक्षरत्. १३ आपिबति.
जाबालिः
09
पूर्वभागः ।