________________
दूरतः परिहरति तपोवनम् । एते च पवनलोलपुञ्जीकृतशिखाकलापा रचिताञ्जलय इवात्र मन्त्रपूतानि हवींषि गृह्णन्त्येतत्प्रीत्याशुशुक्षणयः । तरलितदुकूलवल्कलोऽयं चाश्रमलताकुसुमसुरभिपरिमलो मन्दमन्दचारी सशङ्क इवास्य समीपमुपसर्पति गन्धवाहः । प्रायो महाभूतानामपि दुरभिभवानि भवन्ति तेजासि । सर्वतेजस्विनामयं चाग्रणीः । द्विसूर्यमिवाभाति जगदनेनाधिष्ठितं महात्मना । निष्कम्पेव क्षितिरेतदवष्टम्भात् । एष प्रवाहः करुणारसस्य, संतरणसेतुः संसारसिन्धोः, आधारः क्षमाम्भसाम्, परशुस्तृष्णालतागहनस्य, सागरः संतोषामृतरसस्य, उपदेष्टा सिद्धिमार्गस्य, अस्तगिरिरंसद्ग्रहकस्य, मूलमुपशमतरोः, नाभिः प्रज्ञाचक्रस्य, स्थितिवंशो धर्मध्वजस्य, तीर्थं सर्वविद्यावताराणाम्, वडवानलो लोभार्णवस्य, निकषोपलः शास्त्ररत्नानाम्, दावानलो रागपल्लवस्य, मन्त्रः क्रोधभुजंगस्य, दिवसकरो मोहा -
***********
एते चेति । एते समीपवर्तिन आशुशुक्षणयो वह्नयः । पवनेति । पवनेन वायुना लोलञ्चपलः पुजीकृतः समूहीकृतः शिखाकलापो ज्वालासमूहो येषां ते तथा । तथा रचिताञ्जलय इव विहिताञ्जलय झ्व । एतप्रीत्यैतन्मुनिस्नेहेन मन्त्रपूतान्य॒चापवित्राणि हवींषि होतव्यानि गृह्णन्ति स्वीकृर्वन्ति । 'अग्निर्वेधानरो वह्निः शिखावानाशुशुक्षणिः' इत्यमरः । गन्धेति । गन्धवाहो वायुरस्य मुनेः समीपं पार्थ संशङ्क इव भीताशय इवोपसर्पति गच्छति । अथ साशङ्कत्वे हेतुं प्रदर्शयन्नाह - तरलितेति । तरलितानि कम्पितानि दुकूलवल्कलानि येन स तथा । अयमिति स्पार्शनप्रत्यक्षः । आश्रमेति । आश्रमलताकुसुमानां सुरभिः परिमलो यस्मिन्नत एव मन्दमन्दचारी शनैः शनैः संचरमाणः । प्राय इति । प्रायो बाहुल्यार्थेऽव्ययम् । महाभूतानामपि पृथिव्यादीनामपि तेजांसि महांसि दुरभिभवानि दुःखेनाभिभवितुं शक्यानि भवन्ति । अयं चेति । अयं च मुनिः सर्वतेजस्विनां समग्रधामवतामग्रणीमुख्यः । अनेनेति । अनेन मुनिना महात्मना प्रकृष्टस्वरूपेणाधिष्ठितमाश्रितं जगद्विसूर्यमिव द्वौ सूर्यो यत्र तद्वदिव । निष्कम्पेति । एतस्य मुनेरवष्टम्भादालम्बात्क्षितिर्वसुधा निष्कम्पेव निर्वेपथुरिव । अथ च कियन्ति विशेषणानि रूपकालंकृतिद्वारा प्रदर्शयन्नाह - एषेत्यादि । एष मुनिः करुणारसस्य प्रवाह ओघः । संसारसिन्धोर्भावाम्भोधेः संतरणे सेतुः सेतुबन्धः । क्षमाम्भसां क्षान्तिसलिलानामाधारोऽम्भसां बन्धः । तृष्णैव लता तद्गहनस्य परशुः कुठारः । संतोष एवामृतरसः पीयूषद्रवस्तस्य सागरः समुद्रः । सिद्धिमार्गस्य मोक्षपदव्याख्यानस्य उपदेष्टोपदेशकः । असद्गहकस्याशुभग्रहस्यास्तगिरिरस्ताचलः । उपशमतरोः शमद्रुमस्य मूलं बुधनः । प्रज्ञाचक्रस्य प्रतिभाचक्रस्य नाभिर्मध्यप्रदेशः । धर्मध्वजस्य सुकृतकेतोस्थितिवंशोऽवस्थानवेणुः । सर्वविद्यावताराणां समग्रविद्याप्रवेशानां तीर्थं घट्टः । लोभार्णवस्य लिप्सासमुद्रस्य वडवानल और्वः । शास्त्ररत्नानां सिद्धान्तमणीनां निकषोपलः । कषणपट्टः रागपल्लवस्येच्छाकिसलयस्य दावानलो वनवतिः । क्रोधभुजंगस्य कोपसरीसृपस्य मन्त्रः । मोहान्धकारस्याज्ञानतिमिरस्य दिवसकरः सूर्यः । नरकद्वाराणां दुर्गतिद्वाराणामर्गलाबन्धः प्रतिबन्धः । आचाराणां चरितानां कुलभुवनं मूलगृहम् । मङ्गलाना श्रेयसामायतन
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'असद्ग्रहस्य' इति कअत्ययविकलितोऽपि पाठः दृश्यते ।
पाठा० - १ पुजितशिखाकलापाः शिखाजटिला. २ प्रतिगृह्णन्त्याशुशुक्षणयः; प्रतिगृह्णन्त्येतादत्तान्याशुशुक्षणयः. ३ मन्दसंचारी; मन्दमन्दसंचारी; मन्दमन्दसंचारः. ४ तेजांसि यतः. ५ निष्कण्टकेव. ६ अवष्टम्भादेव; अवष्टम्भेन. ७ प्रभवः. ८ कृपाम्भसाम्. ९ अमृतस्य. १० असद्ग्रहस्य. ११ नेमिः. १२ प्रसादः. १३ तीर्थः. १४ वाडवानलः. १५ महामन्त्रः. १६ भुजंगमस्य.
(98
कादम्बरी।
Y कथामुखे