________________
चतुर्वेदैः सुचिरादिवेदमपरमुचितमासादितं स्थानम् । एनमासाद्य शरत्कालमिव कैलिजलदसमयकलुषिताः प्रसादमुपगताः पुनरपि जगति सरित इव सर्वविद्याः । नियतमिह सर्वात्मनाकृतावस्थितिना भगवता परिभूतकलिकालविलसितेन धर्मेण न स्मर्यते कृतयुगस्य । धरणितलमनेनाधिष्ठितमालोक्य न वहति नूनमिदानी सप्तर्षिमण्डलनिवासाभिमानमम्बरतलम् । अहो महासत्त्वेयं जरा यास्य प्रलयरविरश्मिनिकरदुर्निरीक्ष्ये रजनिकरकिरणपाण्डुशिरोरुहे जटाभारेफेनपुञ्जधवला गङ्गेव पशुपतेः क्षीराहुतिरिव शिखाकलापे विभावसोनिपतन्ती न भीता । बहलाज्यधूमपटलमलिनीकृताश्रमस्य भगवतः प्रभावाभीतमिव रविकिरणजालमपि -
***********
रिति । चत्वारि यानि मुखकमलानि तत्र वासिभिः स्थायिभिश्चतुर्वेदैर्ऋग्यजुःप्रभृतिभिः सुचिरादिव चिरकालादिवेदमपरं द्वितीयम् । कमलस्य कदाचित्संकोचसंभावत् । उचितं योग्यं स्थानमासादितं प्राप्तम् । एनमिति । एनं मुनि शरत्कालमिव घनात्ययसमयमिवासाद्य प्राप्य जगतिघ लोके पुनरपि द्वितीयवारमपि सर्वविद्याश्चतुर्दशवियाः प्रसादं नैर्मल्यमुपगताः प्राप्ताः । का इव । सरितो नद्य इव । यथा शरत्कालं प्राप्य ता इव नैर्मल्यं भजन्ति । उभयोरेकविशेषणमाह - कलीति । कलिरेव कलौ वा यो जलदसमयो मेघकालस्तेन कलुषिता मलिनीकृताः । नियतमिति । नियतं निश्चितमिहास्मिन्नाश्रमे सर्वात्मना सर्वप्रकारेण कृतावस्थितिर्येन स तथा तेन भगवता माहात्म्यवता । परीति । परिभूतं न्यकृतं कलिकालस्य विलसितं चेष्टितं येनैवंभूतेन धर्मेण न स्मर्यते । कृतयुगस्येति कर्मणि षष्ठी 'मातुः स्मरति' इतिवत् । धरणीति । नूनं निश्चितमनेन मुनिना धरणितलमधिष्ठित्तमाश्रितमालोक्य निरीक्ष्याम्बरतलं व्योमतलमिदानी सांप्रतं सप्तर्षिमण्डलनिवासाभिमानमिति, सप्तर्षीणां कश्यपप्रभृतीनां यन्मण्डल समूहस्तस्य यो निवासोऽवस्थानं तेन योऽभिमानोऽहंकारस्तं न वहति न धत्ते । अत्र बहूनामृषीणां सत्त्वात् । अहो इत्याश्चर्ये । महासत्त्वामहाधैर्येयं जरा विवसा यास्य मुनेर्जटाभारे सटासमूहोपरि निपतन्ती पतनं कुर्वती न भीता न त्रस्ता । अत्रार्थ उपमानद्वयं प्रदर्शयति - पशुपेति । पशुपतेरीश्वरस्य जटामारे सटासमूहे गङ्गेव स्वर्णनंदीव । क्षीरेति । विभावसोर्वद्वेः शिखाकलापे ज्वालासमूहे क्षीराहुतिरिव क्षीरस्य दुग्धस्याहुतिः । वह्नौ प्रक्षेप इवेत्यर्थः । गङ्गां विशिनष्टि - फेनेति । फेनस्य डिण्डीरस्य यः पुज्जः समूहस्तेन धवलोज्ज्वला । इयमपि धवला भवति । जटां विशिनष्टि - प्रलयेति । प्रलयः कल्पान्तस्तस्मिन्यो रविः सूर्यस्तस्य यो रश्मिनिकरः किरणसमूहस्तद्वत् दुर्निरीक्ष्ये विलोकयितुमशक्ये । रजनीति । रजनिकरश्चन्द्रस्तस्य किरणा मयूखास्तद्वत्पाण्डूनि श्वेतानि शिरोरुहाणि केशा यस्मिन् । बहलेति । बहलं निबिडं यदाज्यं सर्पिस्तस्य धूमपटलं तेन मलिनीकृतः श्यामता प्रापित आश्रमो यस्वैवंविधस्य भगवतो मुनेः प्रभावान्माहात्म्यादीतमिव त्रस्तमिव रविकिरणजालं सूर्यरश्मिसमूहस्तपोवनं मुनिस्थानं दूरतः परिहरति दूर एव त्यजति । मालिन्यस्य तमः प्रतिनिधीभूतस्य सूर्यरश्मिभिर्विरोधात् मालिन्याश्रयाश्रमाधिपतेर्मुनेः प्रभावादीतिरुचितैवेति भावः ।
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अत्रापि कलिर्जलदसमय इव इत्युपमितसमासो योग्यः, अन्यथा 'सरित इव इत्युपमायाः संगतिर्न स्यात् । 2 'रविकरनिकरदुर्निरीक्षे इत्येतान्येवाक्षराणि कवेः संमतानि प्रमाणं च सहृदयहृदयम् ।
पाठा० - १ चतुर्भिर्वेदैः. २ कलिकालजलधर. ३ आलक्ष्य; अवलोक्य. ४ सप्तर्षिनिवास. ५ रविकरनिकरदुर्निरीक्षे. ६ निकरपाण्डुरे जटाभारे. ७ पाण्डुर. ८ निष्पतन्ती. ९ आश्रमपदस्य. १० भीतभीतमिव. ११ जालकम्.
जाबालिः
पूर्वभागः ।
INITION
97)