________________
भगवतामेवंविधानामघक्षयकारिणाम् । पुण्यानि हि नामग्रहणान्यपि महामुनीनाम्, किं पुनदर्शनानि । धन्यमिदमाश्रमपदमयमधिपतिर्यत्र । अथवा भुवनतलमेव धन्यमखिलमनेनाधिष्ठितमवनितलकमलयोनिना । पुण्यभाजः खल्वमी मुनयो यदहर्निशमेनमपरमिव नलिनासनमपगतान्यव्यापारा मुखावलोकननिश्चलदृष्टयः पुण्याः कथाः श्रृण्वन्तः समुपासते । सरस्वत्यपि धन्या यास्य तु सततमतिप्रसन्ने करुणाजलनिस्यन्दिन्यगाधगाम्भीर्ये रुचिरद्विजपरिवारा मुखर्कंमलसंपर्कमनुभवन्ती निवसति हंसीवं मानसे । चतुर्मुखकमलवासिभि -
***********
ज्ञानलोचनेनाखिलं समग्रं जगद्विष्टपमालोकयतां पश्यतां भगवता माहात्म्यवतामेवंविधानां पूर्वोक्तगुणविशिष्टानाम् । हि निश्चितम् । अघक्षयकारिणां पापविनाशकानाम् । महामुनीनामिति । महातपस्विनां नामग्रहणान्यप्यभिधानोच्चारणमात्राण्यप्यायुघृतमितिवत्कारणकार्योपचारात्पुण्यानि पुण्यजनकानि । दर्शनानीति । दर्शनानि तेषामवलोकनानि समग्रपापापहारकाणीत्यर्थे किं पुनर्भण्यते । अवश्य तदपहारकाणीत्यर्थः । धन्यमिति । इदं प्रत्यक्षमाश्रमपदं मुनिस्थानं धन्यं कृतपुण्यम् । अत्रार्थे हेतुमाह - यत्रेति । यस्मिन्नाश्रमपदेऽय महान्मुनिरधिपतिर्नेता । अथवेति पक्षान्तरे । अवनीति । अवनितलकमलयोनिना भुवनतलब्रह्मणानेन प्रत्यक्षोपलभ्यमानेन मुनिनाधिष्ठितमाश्रितं भुवनतलमेव जगतीतलमेव धन्यं कृतपुण्यम् । 'सुकृती पुण्यवान्धन्यः' इति हैमः । आश्रमस्य तदन्तःपातित्वादिति भावः । तच्छिष्याणां धन्यता प्रतिपादयन्नाह - पुण्येति । खलु निश्चयेन । अमी मुनयः पुण्यभाजः सुकृतभाजः । यदिति हेत्वर्थे । अहर्निश प्रत्यहमपरमिवान्यमिव नलिनासनं कमलयोनि समुपासते सेवां कुर्वते । तानेव शिष्यान्विशिनष्टि - अपेति । अपगतो दूरीभूतोऽन्यव्यापारस्तदितरकार्यं येभ्यस्ते तथा । मुखेति । मुखस्य वदनस्य अर्थान्मुनेरिति शेषः । तस्य यदवलोकनं निरीक्षणं तेन निश्चला निमेषर-. हिता दृष्टिर्येषां ते तथा । किं कुर्वन्तः । पुण्याः पवित्राः कथाः किंवदन्तीः श्रृण्वन्त आकर्णयन्तः । तद्वदनगतायाः सरस्वत्याः श्लाधा कुर्वनाह - सरस्वतीति । सरस्वत्यपि भारत्यपि धन्या श्लाध्या । तु पुनरर्थे । या अस्य मुनेर्मुखमेव कमलं नलिन तस्य संपर्क संवन्धमनुभवन्ती साक्षात्कुर्वन्ती मानसे मनसि निवसति निवासं करोति । उभयोः साम्यमाह - हंसीति । यथा मानसे सरसि हंसी मराली निवसति तथेयमपीत्यर्थः । अत्र प्रसन्नेत्यादिविशेषणानि मानसे मनसि सरसि च स्वबुद्ध्या योजनीयानि । अतीति । अतिशयेन प्रसन्ने प्रसादगुणयुक्ते । करुणेति । करुणा परदुःखप्रहाणेच्छा सैव जलं तस्य तयोर्वा निस्यन्दिनि साविणि । अगाधेति । अगाधमतलस्पर्श गाम्भीर्यं गम्भीरता यस्मिन् । रुचिरेति । रुचिरा मनोज्ञा ये द्विजा दन्तास्त एव परिवारः परिच्छदो यस्याः सेति भारत्या विशेषणम् । चतु -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 अमरकोषऽपि हैमीय पदस्याऽस्याऽनुसृतिरवलोक्यते । 2 मुखं कमलमिव, इत्युपमितसमासो योग्यः । मयूरव्यसकसमासे तु उत्तरपदार्थस्य कमलस्य प्राधान्ये रूपकं स्यात् । तथा सति च 'हसीव' इति कवेरभीष्टा प्रधानभूतोपमा न संगच्छेत । तस्मात्-“रुचिराः सुन्दराः द्विजाः शिष्यभूता वाहाणाः पक्षिणश्च (हंसायाः) परिवारा यस्याः सा, या सरस्वती राजहंसीव, मुख कमलमिव तस्य संपर्क सुखमनुभवन्ती सती अतिप्रसन्ने अत्यन्तानुग्रहकारके अतिशयनिर्मले च, करुणा जलमिव तस्य निस्यन्दिनि साविणि, अगाधम् इयत्तारहितम् अतलस्पर्श च, गाम्भीर्यं दुरवगाहस्वभावत्वं गभीरता च यस्य तस्मिन्, अस्य (जाबालेः) मानसे मनसि मानससरोवरे च, संततं निवसति" इति व्याख्यया पूर्णोपमालंकारो निर्वाह्य इति कस्यचन विदुषोऽभिप्रायः ।
पाठा० - १ कारणानि पुण्यानि नाम; करणानि पुण्यानि नाम. २ मुनीनाम्. ३ मुखकमलावलोकन. ४ पर्युपासते. ५ यदस्मिन्; या तु. ६ परिवारे; कुलपरिचये. ७ कमले. ८ संपर्कसुखम्. ९ राजहंसीव. १० मुखकमल.
कादम्बरी ।
कथामुखे-)