________________
मिव रुद्राक्षवलयग्रहणनिपुणम्, शिशिरसमयसूर्यमिव कृतोत्तरासङ्गम्, वडवानलमिव संतैतपयोर्भक्षम्, शून्यनगरमिव दीनानाथविपन्नशरणम्, पशुपतिमिव भस्मपाण्डुरोमाश्लिष्टशरीरं भगवन्तं जाबालिमपश्यम् ।
अवलोक्य चाहमचिन्तयम् - 'अहो प्रभावस्तपसाम् । इयमस्य शान्तापि मूर्तिरुत्तप्तकनकावदाता परिस्फुरन्ती सौदामिनीव चक्षुषः प्रतिहन्ति तेजांसि । सततमुदासीनापि महाप्रभावतया भयमिवोपजनयति प्रथमोपगतस्य । शुष्कनलकाशकुसुमनिपतितानलचटुलवृत्ति नित्यमसहिष्णु तपस्विनां तनुतपसामपि तेजः प्रकृत्या भवति । किमुत सकल वनतलवन्दितचरणानामनवरततपःक्षपितमलानां करतलामलकवदखिलं जगदालोकयतां दिव्येन चक्षुषा -
***********
तस्य ग्रहणं पिधानं तत्र निपुणं चतुरम् । रते चन्द्रकलाप्रकाशस्यानिवार्यत्वेन लज्जावशात्पार्वत्या तृतीयं लोचनं करतलेन पिहितमिति भावः । शिशिरेति । शिशिरसमयः शीतकालस्तस्य यः सूर्यो भगवांस्तद्वदिव कृतो विहित उत्तरासङ्गो बृहतिका येन स तम् । पक्ष उत्तरस्या दिशः सङ्गः संश्लेषो येनेति विग्रहः । वडवेति । वडवानल और्वस्तमिव संततं निरन्तरं पय एव क्षीरमेव भक्षं यस्य स तम् । पक्षे पयः पानीयं तदेव भक्षं यस्येति भावः । शून्येति । शून्यमुद्रसितं यन्नगरं पुरं तद्वदिव । शून्ये धनिनां निवासायोग्यत्वाद्दीनादिग्रहणम् । तत्र दीनान्यशोभावन्त्यनाथान्यप्रभूणि विपन्नान्यविद्यमानभावानि शरणानि गृहाणि यत्र नगर इति । अन्यत्र दीना दुःखाभिभता अनाथाः स्वामिरहिता विपना इव विपन्ना मृतकल्पा व्याध्यादिपरिभूतास्तेषां शरणं परित्राणहेतुम् । पशुपतिमिवेति । पशुपतिः शंभुस्तमिव भस्मवत्पाण्डुराण्यतिवार्धक्याच्छेतानि रोमाणि तैराश्लिष्टं शरीरं यस्य तम् । पक्षे भस्मवत्पाण्डुरोमा गौरी तया चाश्लिष्टमर्धाङ्गीकृतं शरीरं यस्येति विग्रहः । अन्वयस्तु प्रागेवोक्तः ।
जाबालिं निरीक्ष्य किं कृतवानित्याह - अवलोक्येति । अवलोक्य निरीक्ष्य । च पुनरर्थे । अहमचिन्तयमेवं विचारितवान् । चिन्ता त्वेनं चिन्तयन्तमेव मामित्यवधिकम् । तामेवाह - अहो इत्याश्चर्ये । तपसां प्रभावो माहात्म्यम् । इयमस्य मुनेः शान्तापि मूर्तिः शरीरमुत्प्राबल्येन तप्तमुष्णीकृतं यत्कनकं सुवर्णं तद्वदवदाता निर्मला परिस्फुरन्ती देदीप्यमाना सौदामिनीव विद्युदिव चक्षुषो नेत्रस्य तेजासि महांसि प्रतिहन्ति प्रतिघातं करोति । आभिमुख्येन गच्छन्तीनां नयनरश्मीनां बलवद्वेगसौदामिनीतेजसा प्रतिनिवृत्तिरनुभवसिद्धैवेति भावः । इदं स्वभाववर्णनम् । विरोधोऽपि शान्तस्योत्तप्तकनकावदाततेति विरोधः । सततेति । सततं निरन्तरमुदासीनापि मध्यस्थापि महाप्रभावतयात्युग्रप्रतापतया प्रथमोपगतस्यापूर्वागतस्य भयमिव भीतिमिवोपजनयति । अन्येषां करोतीत्यर्थः । अत्रापि मध्यस्थस्य भयोत्पादकत्वमिति विरोधः । उभयत्रोत्प्रेक्षा । शुष्केति । तनु स्वल्पं तपो येषां तेषामपि तपस्विनां तेजो नित्यं सर्वदा प्रकृत्या स्वभावेनासहिष्ण्वसहनशील भवति । कीदृशम् । शुष्काणि यानि नलकाशकुसुमानि तत्र निपतितो योऽनलो वह्निस्तद्वच्चटुला त्वरिता वृत्तिर्यस्य तत् । एतस्य पर्यवसितार्थमाह - किमुतेति । एवंविधानामघक्षयकारिणां पापविनाशकर्तृणां किमुत किमाश्चर्यम् । अथ तानेव विशिनष्टि - सकलेति । सकलभुवनतलैर्वन्दितानि नमस्कृतानि चरणानि येषां ते तथा तेशम् । अनवरतेति । अनवरतं तपसा क्षपिताः क्षयं प्रापिता मलाः पापानि यैस्ते तथा तेषाम् । करतलेति । करतलामलकवत्पाणिस्थधात्रीफलवद्दिव्येन चक्षुषा -
- - - - - - - - - - - - - - - - टिप्प० - 1 उत्तरीयवस्त्रमित्यर्थः । 2 भग्नानीत्याशयः । 3 भस्मना पाण्डुरं च उमया आश्लिष्टं च शरीरं यस्य तमित्यर्थः ।
-
-
-
-
-
-
-
-
-
-----
पाठा० - १ रुद्राक्षग्रहण, २ और्वानलम्. ३ सतत. ४ भक्ष्यम्. ५ निपतिता चटुल. ६ प्रतनु. ७ दुःसहं भवति. ८ भुवनवन्दित. ९ तपःसलिलक्षालित. १० करकमलतल. ११ आमलकफल.
जाबालिः
पूर्वभागः ।
95