________________
सरोजलक्षालितशुचिना दुकूलवल्कलेनोद्वितीयेनेव जराजालकेन संच्छादितम्, आसन्नवर्तिना मन्दाकिनीसलिलपूर्णेन त्रिदण्डोपविष्टेन स्फाटिककमण्डलुना विकचपुण्डरीकराशिमिव राजहंसेनोपशोभमानम्, स्थैर्येणाचलाना गाम्भीर्येण सागराणां तेजसा सवितुः प्रशमेन तुषाररश्मेनिर्मलतयाम्बरतलस्य संविभागमिव कुर्वाणम्, वैनतेयमिव स्वप्रभावोपात्तद्विजाधिपत्यम्, कमलासनमिवाश्रमगुरुम्, जरच्चन्दनतरुमिव भुजंगनिर्मोकधवलजटाकुलम्, प्रशस्तवारणपतिमिव प्रलंम्बकर्णवालम्, बृहस्पतिमिवाजन्मसंवर्धितकचम्, दिवसमिवोद्यदर्कबिम्बभास्वरमुखम्, शरत्कालमिव क्षीणवर्षम्, शान्तनुमिव प्रियसत्यव्रतम्, अम्बिकाकरतल -
***********
विशिनष्टि - आसन्नेति । आसनवर्तिना समीपस्थेन । मन्दाकिनीति । मन्दाकिनी गङ्गा तस्याः सलिलं तेन पूर्णेन भृतेन । त्रिदण्डेति । त्रिदण्डस्त्रिपादिका तत्रोपविष्टेन स्थापितेन । मुनेर्धवलीकृतविग्रहवत्त्ववर्णनात्कमण्डलोश्च शुभ्रत्ववर्णनात्तदुपमानमाह - विकचेति । राजहंसेन विकचपुण्डरीकराशिमिव स्मितसिताम्भोजसमूहमिवेत्युत्प्रेक्षा । पुनर्मुनि प्रकारान्तरेण विशिनष्टि - स्थैर्येति । स्थैर्येण स्थिरतयाचलानां पर्वतानाम्, गाम्भीर्येण गाम्भीर्यगुणेन सागराणां समुद्राणाम्, तेजसा प्रतापेन सवितुः सूर्यस्य, प्रशमेनोपशमेन तुषाररश्मेश्चन्द्रस्य, निर्मलतया स्वच्छतयाम्बरतलस्य संविभागमिव स्वकीयवस्तुनः परेभ्यः किंचिद्विभज्य प्रदानमिव कुर्वाणं विदधानम् । अचलादीनां स्थैर्यादयो गुणा अनेनैव संविभागीकृताः सन्तीति भावः । अथान्यसादृश्यद्वारा तमेव विशेषयन्नाह - वैनतेयमिति । वैनतेयो गरुडस्तद्वदिव स्वस्यात्मीयस्य यः प्रभावो माहात्म्यं तेनोपात्तमङ्गीकृतं द्विजेषु ब्राह्मणेष्वाधिपत्यं प्रभुत्वं येन स तम् । पक्षे द्विजेषु पतत्रिष्वाधिपत्यं मुख्यत्वं येनेति विग्रहः । कमलेति । कमलासनो ब्रह्मा तमिवाश्रमो मुनिस्थानं तत्र गुरुं श्रेष्ठम् । पक्ष आश्रमा ब्रह्मचारिप्रभृतयस्तेषां गुरु प्रवर्तकम् । वर्णाश्रमाश्च ब्रह्मणैव प्रवर्तिताः । जरदिति । पुरातने परिमलविशेषाधिक्याज्जरद्विशिष्टचन्दनतरुग्रहणम् । तत्रैव भुजंगबाहुल्यम् । अत एव भुजंगस्य यो निर्मोकः कञ्चुकस्तद्वद्धवला या जटा तयाकुलं व्याप्तम् । पक्षे निर्मोक एव जटेति विग्रहः । शेषं पूर्ववत् । प्रशस्तेति । प्रशस्तः सर्वलक्षणोपेतो वारणपतिर्गजनायकस्तद्वदिव प्रलम्बाः कर्णयोर्बालाः केशा यस्येति विग्रहः । पक्षे प्रलम्बी लम्बमानौ कर्णो श्रवणौ वालश्च वालधिर्यस्मिन् । बृहस्पतीति । बृहस्पतिः सुरगुरुस्तमिव आजन्म जन्म मर्यादीकृत्य संवर्धिता वृद्धिं प्रापिताः कचाः केशा येनेति स तम् । पक्षे कचनामा बृहस्पतेः पुत्र इति पुराणे प्रसिद्धम् । शेषं पूर्ववत् । दिवसेति । दिवसो घस्त्रस्तद्वदिवोद्यदुद्गच्छद्यदर्कबिम्ब सूर्यमण्डलं तद्वद्भास्वरं दीप्तं मुखमाननं यस्य स तम् । पक्ष उद्यदर्कबिम्बेन भास्वरं मुखमादिर्यस्येति विग्रहः । तन्विति । शरत्कालो घनात्ययसमयस्तद्वदिव क्षीणानि गतानि वर्षाणि हायनानि यस्य स तम् । पक्षे क्षीणं स्वल्पत्वं प्राप्तं वर्षं वृष्टिर्यस्मिन् । शान्तन्विति । शान्तनुर्भीष्मपिता तद्वदिव प्रियमिष्टं सत्यमेव व्रतं यस्य स तम् । पक्षे प्रियो वल्लभः सत्यव्रतो भीष्मो यस्येति विग्रहः । कथा चात्र - श्रीमन्महाभारतगतानुसंधेया । अम्बिकेति । अम्बिका पार्वती तस्याः करतलं पाणितलं तद्वदिव रुद्राक्षः फलविशेषस्तद्वलयस्य कटकस्य यद्ग्रहणं तत्र निपुणम् । सर्वदा तदावर्तनेन कृताभ्यासमित्यर्थः । पक्षे रुद्र ईश्वरस्तस्याक्षमिन्द्रियं लोचनं वर्तुलत्वात्तदेव यद्वलयं -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 ‘रुद्राक्षग्रहणनिपुणम्' इत्यपि पाठः । अम्बिकाकरतलपक्षे-'रुद्रस्य अक्षिणी रुद्राक्षे (शिव-नयने) तयोर्ग्रहणे पिधाने निपुणम्' इत्यर्थे वलयपदस्य वस्तुतः स्वारस्याभावात् ।
पाठा० - १ क्षालन. २ द्वितीयेन. ३ स्फटिक. ४ कमल. ५ अवनेः स्थैर्येण सागराणां गाम्भीर्येण. ६ सकलद्विजा. ७ भुजग. ८ वारणमिव. ९ कर्णतालम्.
(94
कादम्बरी । )
कथामुखे