________________
चपलानामिन्द्रियाश्वानामन्तः संयमनरज्जुभिरिवातताभिः कण्ठनाडीभिर्निरन्तरावर्गद्धकन्धरं समुन्नतविरलास्थिपञ्जरमसावलम्बियज्ञोपवीतं वायुवशजनिततनुतरंगभङ्गमुत्प्लवमानमृणालमिव मन्दाकिनीप्रवाहमकलुषमङ्गमुद्रहन्तम्, अमलस्फटिकशकर्लंघटितमक्षवलयमत्युज्वलस्थूलमुक्ताफलग्रथितं सरस्वतीहारमिव चलदगुलिविवरगतमावर्तयन्तम्, अनवरतभ्रमिततारकाचक्रमपरमिव ध्रुवम्, उन्नमता शिराजालकेन जरत्कल्पतरुमिव परिणतलतासंचयेन निरन्तरनिचितम्, अमलेन चन्द्रांशुभिरिवामृतफेनैरिव गुणसंतानतन्तुभिरिव निर्मितेन मानस -
*
*
*
*
*
**
*
*
*
*
स्तत् । अतीति । अतिचपलानामतिपारिप्लवानामिन्द्रियाश्वाना करणतुरंगमानामन्तर्मध्ये संयमनरज्जुभिरिव नियन्त्रणरश्मिभिरिवातताभिर्विस्तीर्णाभिः कण्ठनाडीभिर्गलस्नायुभिरिव निरन्तरं अवनद्धा संबद्धा कन्धरा ग्रीवा यस्मिन्नेवंविधमकलुषं निर्मलमङ्ग शरीरमुदहन्त धारयन्तम् । समुन्नतेति । समुत्रतमुच्चं विरलं पेलवमस्थिपञ्जरं कङ्कालं यस्मिंस्तत्तथा । अंसेति । अंसावलम्बि भुजान्तरावलम्बि यज्ञोपवीतं यज्ञसूत्रं यस्मिन् । वायुवशेनेति । वायुवशेनानिलमाहात्म्येन जनिता उत्पादितास्तनवः सूक्ष्मास्तरंगभङ्गाः कल्लोलविघटनानि यस्मिन् । उत्प्लवेति । उत्प्राबल्येन प्लवमानानि वहमानानि मृणालानि बिसानि यस्मिन्नेवंभूतं मन्दाकिनीप्रवाहमिव गङ्गौघमिव । अत्र तरंगास्थ्नोः श्वेतकृशत्वं यज्ञोपवीतमृणालयोश्च श्वेतसूक्ष्मत्वं साधर्म्यमिति भावः । किं कुर्वन्तम् । अक्षवलयं रुद्राक्षमालामावर्तयन्तं परिवर्तयन्तम् । अथाक्षवलयस्य विशेषणे - अमलेति । अमलानि विशदानि यानि स्फटिकशकलानि तैर्घटितं निर्मितम् । अत्युज्वलेति । अत्युज्ज्वलान्यतिविशदानि स्थूलानि यानि मुक्ताफलानि मौक्तिकानि तैथितं गुम्फितं सरस्वतीहारमिव सरस्वत्या भारत्या हारमिव मुक्ताकलापमिव । अत्र स्फटिकाक्षवलयस्यातिनिर्मलत्वान्मुक्ताफलोपमानम् । चलेति । चलन्त्यो या अगुलयस्तासां विवर रन्ध्र तत्र गत प्राप्तम् । अनवरतेति । अनवरतं निरन्तरं भ्रमितं पर्यटितं तारकाचक्र नक्षत्रसमूहो यस्मिन्नेवंभूतमपरं द्वितीयं ध्रुवमिवोत्तानपादजमिव । अत्र स्फाटिकाक्षवलयतारकाणां शुचिवर्तुलत्वमेव साधर्म्यम् । उपविष्टस्य मुनेः स्थिरत्वाद् ध्रुवसाधर्म्यमिति । पुनर्विशिनष्टि - उन्नमतेति । उन्नमतोपरि स्फुरता शिराजालकेन शिरा धमनयस्तासा जालकेन समूहेन निरन्तरं निचितं व्याप्तम् । उच्छ्नस्नायुसमूहेनात्यन्तव्याप्तविग्रहमित्यर्थः । केन कमिव । परिणताः पाकं गता या लता वल्लयस्तासा संचयेन समूहेन । निचितमिति शेषः । जरत्कल्पतरुमिव वृद्धमन्दारमिवेत्युत्प्रेक्षा । अमलेनेति । अमलेन निर्मलेन दुकूलवल्कलेन । दुकूलेन सदृशं वल्कलमिति मध्यमपदलोपी समासः । तेन संच्छादितमावृतम् । केनेव । अद्वितीयेनापूर्वेण जराजालकेनेव विससासमूहेनेवेत्युत्प्रेक्षा । दुकूलवल्कलं विशिनष्टि - चन्द्रेति । चन्द्रांशुभिरिव शशिज्योत्स्नाभिरिवामृतफेनैरिव पीयूषडिण्डीररिव गुणानां विद्यातपश्चरणादीनां संतानाः समूहास्त एव तन्तवः सूत्राणि तैरिव निर्मितेन रचितेन । मानसेति । मानससरोजलवज्जलं तेन क्षालितं धौतमत एव शुचिना निर्मलेन । पुनस्तमेव मुनि विशिनष्टि - स्फाटिककमण्डलुनोपशोभमानं विराजमानम् । अथ कमण्डलु -
- - - - - - - - - - - टिप्प० - 1 'इव' इत्यव्ययोऽत्र पदशोभार्थमेव प्रयुक्तः । 2 अत्र तादृशकुटिल-तनु-तरङ्गसदृशम् अस्थिपञ्जरम्, जलोपरिप्लवमाननवमृणालसदृशं च यज्ञोपवीतमिति मन्दाकिनीप्रवाहेण सादृश्यम् । उपमा । 3 'द्वितीयेनेव' इत्यपि पाठ प्रचलितः । एकेन जराजालकेन तु जाबालिराच्छादित एव, वल्कलरूपेण द्वितीयेन जराजालकेन स आच्छादित इव वक्तुराभप्रायः ।
-
-
-
-
पाठा० - १ इन्द्रियाणाम्. २ संबद्ध. ३ उन्नत. ४ अवलम्बित; आलम्बित. ५ धवलयज्ञोपवीतम्. ६ अनिल. ७ नवमृणाल. ८ घटिताक्ष. ९ उज्ज्वल. १० तारक. ११ उल्लसता. १२ अमलैः.
जाबालिः
पूर्वभागः ।
93