________________
तरोः कुसुममञ्जरीभिरिवोद्गताभिर्जटाभिरुपशोभितम्, उपरचितभस्मत्रिपुण्ड्रकेण तिर्यक्प्रवृत्तत्रिपथगास्त्रोतस्त्रयेण हिमगिरिशिलातलेनेव ललाटफैलकेनोपेतम्, अधोमुखचन्द्रकलाकाराभ्यामवलम्बितवलिशिथिलाभ्यां धूलताभ्यामवष्टभ्यमानदृष्टिम्, अनवरतमन्त्राक्षराभ्यासविवृताधरपुटतया निष्पतद्भिरतिशुचिभिः सत्यप्ररोहैरिव स्वच्छेन्द्रियवृत्तिभिरिव करुणारसप्रवाहैरिव दशनमयूखैर्धवलितपुरोभागम्, उद्धमदमलगङ्गाप्रवाहमिव जनुम्, अनवरतसोमोद्गारसुगन्धिनिश्वासावकृष्टैर्मूर्तिमंद्भिः शापाक्षरैरिव सदा मुखभागसनिहितैः परिस्फुरद्भिरलिभिरविरहितम्, अतिकृशतया निम्नतरगण्डगर्तमुन्नततरहनुघोणमाकरालतारकमवशीर्यमाणविरलनयनपक्ष्ममालमुद्गतदीर्घरोमरुद्धश्रवणविवरमानाभिलम्बकूर्चकलापमाननमादधानम्, अति -
***********
ललाटेति । ललाटफलकेन भालपट्टकेनोपेतं सहितम् । कीदृशेन । उपेति । उपरचितानि कृतानि भस्मना त्रीणि पुण्ड्रकाणि त्रिरेखामयतिलकानि यस्मिन् । केनेव । तिर्यगिति । त्रिपथगाया एकमुपर्येक तिर्यगेकमधस्सोतः । इदमभिनवं तिर्यक्प्रवृत्तं स्रोतस्त्रयमेव यस्मिन्नेवंभूतं तेन हिमगिरिशिलातलेनेव । भ्रूलतेति । भ्रूलताभ्यामवष्टभ्यमानावलम्ब्यमाना दृष्टिर्यस्य स तम् । कीदृशाभ्याम् । अधोमुखी या चन्द्रकलार्धचन्द्रस्तद्वदाकारो ययोस्ताभ्याम् । अवलम्बितेति । वार्धक्यादवलम्बिता आश्रिता या वलयस्त्रिवल्यस्ताभिः शिथिलाभ्या श्लथाभ्याम् । पुनस्तमेव विशिनष्टि - अनवरतेत्यादि । अनवरतं यो मन्त्राक्षराभ्यासस्तेन विवृतो विदीर्णो योऽधरपुट ओष्टपुटस्तस्य भावस्तत्ता तया निष्पतद्भिः सवद्भिरतिशुचिभिरतिपवित्रैः सत्यप्ररोहैरिव सत्याङ्कुरैरिव । स्वच्छेति । स्वच्छा निर्मला या इन्द्रियवृत्तयस्ताभिरिव । करुणेति । श्रृङ्गारवत्करुणारसोऽपि विशदस्तस्य प्रवाहैः स्रोतोभिरिव । एवंविधैर्दशनमयूखै रदनदीप्तिभिर्धवलितः शुभ्रीकृतः पुरोभागो यस्य स तम् । श्वेतत्वसाधर्म्यण श्वेतप्रवाहप्रकटनसाधर्मेण च मुनेरुपमानमाह - उद्धमदिति । उद्धमन्वहिरागच्छन्नमलो निर्मलो गङ्गाप्रवाहो जाह्नवीरयो यस्मात्तमेवंभूतं जनुमिव । कथा चात्र - भगीरथपथेन प्रवृत्ता गङ्गा कलकलशब्दं कुर्वती शब्दकण्टकानि ध्यानानि भवन्तीति रोषात् महर्षिणा जनुना पीता । भगीरथाराधनाच्च पुनर्जानुभ्यामुद्गीर्णा । ततो जाह्नवीत्युच्यते । मुखनिवासस्य सौरभ्यातिशयप्रदर्शनद्वारा तमेव विशिनष्टि - अनवरतेत्यादि । अनवरतं यः सोमपानस्योद्गारस्तेन सुगन्धी यो निश्वासः पवनस्तेनावकृष्टैराकर्षितैर्मूर्तिमद्भिदेहवद्भिः शापाक्षरैरिव शापवणैरिव । सदेति । सदा सर्वकालं मुखस्य यो भागोऽग्रिमप्रदेशस्तत्र संनिहितैः पार्श्वगैः परिस्फुरद्भिर्दीप्यमानैरलिभिर्धमरैरविरहितमवियुक्तमाननं मुखमादधानं बिभ्राणम् । अथ मुखविशेषणानि - अतीति । अतिकृशतया निम्नतरो गम्भीरतरो गण्डगतः कपोलतः परो भागो यस्य तत् । उन्नतेति । उन्नततरेऽत्युच्चे हनु चिबुकं घोणा नासा च यस्मिंस्तत् । अतिवृद्धलक्षणमेतत् । आकरालेति । आकरालेषद्वक्रा तारका कनीनिका यस्य तत् । अवेति । अवशीर्यमाणा क्षीयमाणा विरला निबिडा नयनयोनॆत्रयोः पक्ष्ममाला रोमराजिर्यस्मिंस्तत् । उद्गतेति । उद्गतानि प्रादुर्भूतानि यानि दीर्घरोमाणि तेन रुद्धमावृतं श्रवणयोविवरं रन्ध्र यस्मिंस्तत् । आनाभीति । आनाभि नाभिपर्यन्तं लम्बः प्रलम्बः कूर्चकलाप आस्यलोमसमूहो यस्मि - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अवलम्बिता शिथिलतया निम्ने पतिता या वलिः शिथिलं चर्म ('वलिश्चामरदण्डे च जरया श्लथचर्मणि विश्वः) तया शिथिलाभ्याम् (वलिशैथिल्यानयनोपरि पतिताभ्याम्, इत्यर्थः) 1 2 आकराले तेजस्वितया अतीवोगे तारके नयनताराद्वयं यस्मिन् इति स्पष्टीकरण व्याख्यायाः
पाठा० - १ उपशोभमानम्. २ गङ्गा. ३ त्रयेणेव. ४ तलेन. ५ पट्टेन. ६ मन्त्राभ्यास. ७ विद्यागुणैरिव करुणा; विद्याभिरिव करुणा. ८ अविरत; अविरल. ९ मूर्तिमद्भिरिव शापाक्षरैः. १० संनिविष्टैः. ११ समुत्रत. १२ लम्बित.
92
कादम्बरी।
कथामुखे